वाचस्पत्यम्
बाहुकुन्थ || पु० बाहुरिव कुन्वति कुन्थ—अच् । विहगानां बाहुस्थानीये पक्षे शब्दच० ।
शब्दकल्पद्रुमः
बाहुकुन्थः || पुं, (बाहुरिव कुथ्नाति आचरतीति । बाहु + कुन्थ + पचाद्यच् ।)
पक्षः । यथा, —
“गरुत्पक्षच्छदाः पत्रं पतत्रञ्च तनूरुहम् । देहधिर्देहकोषश्च बाहुकुन्थश्च कथ्यते ॥” इति शब्दचन्द्रिका ॥