संस्कृत-शब्दकोशः

बाहुमूल बाहुल

बाहुयुद्ध

वाचस्पत्यम्

बाहुयुद्ध ||‍ न० ३ त० । नियुद्धे अमरः । तत्प्रकारः भा० वि० १३ अ० यथा “कृतप्रतिकृतैश्चित्रैर्बाहुभिश्च सुसङ्कटैः । सन्निपातावधू- तेश्च प्रमाथोन्मथनैस्तथा । क्षेपणैर्मुष्टिभिचैव वरा- होद्धूतनिःस्वनैः । तलैर्वज्रनिपातैश्च प्रसृष्टाभिस्तथैव च । शलाकानखपातैश्च पादोद्धूतैश्च दारुणैः । जानुभि- श्चाश्मनिर्घोषैः शिरोभिश्चावघट्टनैः । तद्युद्धमभवद्घोर- मशस्त्रं बाहुतेजसा । बलप्राणेन शूराणां समाजोत्सव सन्निधौ । अराजत जनः सर्वः सोत्क्रुष्टनिनदोत्थितः । बलिनोः संयुगे राजन्! वृत्रवासवयोरिव । प्रकर्षणाकर्ष- णयोरभ्याकर्षविकर्षणैः । आकर्षतुरथान्योन्यं जानु- भिश्चापि जघ्नतुः” । मू० “कृतं क्वचिद्देशे निपीडनं प्रतिकृतं तस्य शोधनम् । सुसङ्कटैः मुष्टिग्रहणेन कृशीकृतैः सकङ्क- टैरिति पाठे सकवचैः मकिणैर्वा “कङ्कटो बाहुवरणे कवचे कठिने किणे” इति विश्वः सन्निपातोऽङ्गसंघट्टनम् अबधूतं तेनैव दूरीकरणं प्रमाथादय उक्ता मल्लशास्त्रे “निपात्य पेषणं भूमौ प्रमाथ इति कथ्यते । यत्तूत्था- याङ्गमथनं तदुन्मथनमुच्यते । क्षेपणं कथ्यते यत्तु- स्थानात् प्रच्यावनं हठात् । उभयोर्भुजयोर्मुष्टिरुरोमध्ये निपात्यते । मुष्टिरिच्यते तज्ज्ञैर्गल्लविद्याविशारदैः । अ- वाङ्मुखं स्कन्धगतं भ्रामयित्वा तथैव यः । क्षिप्तस्य शब्दः स भवेद्वराहोद्धूतनिःस्वनः । तलैर्वज्रनिपातैर्वज्रवद्दृढ- पातैश्चपेष्टैः । “अङ्गुल्यः प्रसृतास्तास्तु प्रसृष्टा या उदी- रिताः । ऋज्वी दृढा रुषा क्षिप्तशालका साङ्गुली स्मृता” । तस्यानखपातैः पादोद्धूतैः पादप्रसारणेनाक्षेपैः जानुभिः शिरोभिश्च कृतैरवघट्टनैरास्फालनैः अश्मनिर्घोषैरित्युभय- विशेषणम् । अशस्त्रं निन्द्यं यथोक्तं तत्रैव “बाहुयुद्धं हि भल्लानामशस्त्रमृषिभिः स्मृतम् । मृतस्य तत्र न स्वर्गो यशो- निहापि विद्यते” इति । बलप्राणेन बलेन शारीर- बलेन प्राणेन मानसबलेन च । सोत्क्रुष्टनिनदः हीहीशब्दोच्चाराणेन खज्जितस्थ समुत्यापनम् । तत्स- हितः । “आकृष्य क्रोडीकरणं प्रकर्षणमुदाहृतम् । आकर्षणं लीलयैव सन्मुखीकरणं स्मृतम् । पुरः पश्चात् पार्श्वयोश्चाभ्याकर्षो भ्रमणं तथा । पश्चात् प्रपातनं वेगा- द्विकर्षणमुदाहृतम्” नीलक० ।


शब्दकल्पद्रुमः

बाहुयुद्धं || क्ली (बाह्वो र्बाहुभ्यां वा युद्धम् ।)
भुजाभ्यां संग्रामः । मल्लयुद्धम् । तत्पर्य्यायः । नियुद्धम् २ ॥ तस्य क्रमो यथा, —
“कृतप्रतिकृतैश्चित्रैर्बाहुभिश्च सकङ्कटैः । सन्निपातावधूतैश्च प्रमाथोन्मथनैस्तथा ॥ क्षेपणैर्मुष्टिभिश्चैव वराहोद्धूतनिस्वनैः । तलैर्वज्रनिपातैश्च प्रसृष्टाभिस्तथैव च ॥ शलाकानखपातैश्च पादोद्धूतैश्च दारुणैः । जानुभिश्चाश्मनिर्घोषैः शिरोभिश्चावघट्टनैः ॥ तद्युद्धमभवद्घोरमशस्त्रं बाहुतेजसा । बलप्राणेन शूराणां समाजोत्सवसन्निधौ ॥” इति विराटपर्व्वणि १२ अध्यायः ॥ सकङ्कटः कङ्कटः करघर्षणजः किणस्तत्सहि- तैरित्यर्थः । कृतप्रतिकृतैः परप्रयुक्तिप्रतिकृतैः । चित्रैर्विचित्रैर्बन्धैरिति शेषः । सन्निपातेत्यादि । एते मल्लानां शिक्षाविशेषाः । सन्निपातैः परस्परसङ्घघातैः । अवधूतैर्बद्धमुष्टिभुजाघातैः । प्रमाथैः पातयित्वा पेषणैः । उन्मथनैः अन्त- रीक्षे भुजाभ्यां मथनैः । क्षेपणैः स्थानात् प्रच्यावनैः । बद्धाङ्गुलिकरो मुष्टिः । “अवाङ्मुखं स्कन्धगतं भ्रामयित्वा तथैव यः । क्षिप्तस्य शब्दः स भवेद्बराहोद्धूतनिस्वनः ॥ तर्जन्यङ्गुष्ठमध्यन प्रसारितकरो हि यः । सम्प्रहारस्तलाख्यस्तु संग्रहो वज्रमिष्यते ॥” अद्धचन्द्रतुल्यमल्लमुष्टिर्वज्रमित्यर्थः । “प्रसृताङ्गुलिहस्तेन प्रसृष्टिः प्रहृतिः स्मृता । द्बिगुणीकृतबाहुर्यस्तदीयार्थं यथाबलम् ॥ प्रहारः स शलाका स्यात् पादोद्धूतः पदा- हतम् ॥” जानुभिश्चाश्मनिघोषैः पाषाणघोरसदृशध्व- निभिः करणैर्यान्यवघट्टनानि तैः । बलप्राणेन बलोत्कर्षेण । इति तट्टीका ॥ (यथा, मार्क- ण्डेयपुराणे । ८३ । १३ । “ततः सिंहः समुत्पत्य गजकुम्भान्तरस्थितः । बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा ॥”)



Correction: