संस्कृत-शब्दकोशः

बाहुसम्भव बाहूबाहवि

बाहुसहस्रभृत्

वाचस्पत्यम्

बाहुसहस्रभृत् ||‍ पु० बाहुसहस्रं बिभर्त्ति भृ—क्विप् तुक् च । कार्त्तवीर्य्य त्रिका० कार्त्तवीर्य्यशब्दे दृश्यम् ।


शब्दकल्पद्रुमः

बाहुसहस्रभृत् || पुं, (बाहूनां सहस्रं बिभर्त्तीति । क्विप् । “ह्रस्वस्य पिति किति तुक् । ६ । १ । ७१ । इति तुक् च ।)
कार्त्तवीर्य्यार्ज्जुनः । इति त्रिकाण्डशेषः ॥ (अस्य बाहुसहस्रप्राप्तिकथा यथा, महाभारते । १३ । १५२ । ७-८ ॥ “स वरैश्छन्दितस्तेन नृपो वचनमब्रवीत् । सहस्रबाहुर्भूयां वै चमूमध्ये गृहेऽन्यथा ॥ मम बाहुसहस्रन्तु पश्यन्तां सैनिका रणे । विक्रमेण महीं कृस्नां जयेयं संशितव्रतः ॥” परशुरामो हि अस्य बाहुसहस्रं परशुना चिच्छेद । अस्य विवरणादिकं कार्त्तवीर्य्यशब्दे द्रष्ठव्यम् ॥)



Correction: