संस्कृत-शब्दकोशः

बिम्बु बिलकारिन्

बिल

वाचस्पत्यम्

बिल ||‍ न० तु० बिल + क । रन्ध्रे १ छिद्रे अमरः । २ गुहायाम् ३ उच्चैः श्रवसि पु० मेदि० । ४ वेतसे शब्दच० ५ मर्त्ते च । ततः तृणा० क्षतुरर्थ्यां स । बिलस तददूरदेशादौ त्रि० ।


वाचस्पत्यम्

बिल ||‍ भेदने वा चुरा० उभ० पक्षे तु० पर० सक० सेट् । बेलयति ते बिलति । अबीबिलत् त अबेलीत् ।


शब्दकल्पद्रुमः

बिलं is an alternate of विलं. वि(बि)लं || क्ली (विल + कः ।)
छिद्रम् । इत्यमरः ॥ (यथा, महाभारते । १ । १४९ । १७ । “पाण्डवाश्चापि ते सर्व्वे सह मात्रा सुदुःखिताः । विलेन तेन निर्गत्य जग्मुर्द्रुतमलक्षिताः ॥”)
गुहा । इति मेदिनी ॥ (यथा, कुमारे । ६ । ३९ । “जितसिंहभया नागा यत्राश्वा विलयोनयः । यक्षाः किंपुरुषाः पौरा योषितो वनदेवताः ॥”)


शब्दकल्पद्रुमः

बिलः is an alternate of विलः. वि(बि)लः || पुं, (उच्चैःश्रवा हयः । इति मेदिनी ॥ वेतसः । इति शब्दचन्द्रिका ॥


शब्दकल्पद्रुमः

बिल || क श विभेदने । इति कविकल्पद्रुमः ॥ (चुरा०-तुदा०-च-परं०-सक०-सेट् ।)
क, बेल- यति । श बिलति । इति दुर्गादासः ॥



Correction: