संस्कृत-शब्दकोशः

बीभत्स बुक

बीभत्सु

वाचस्पत्यम्

बीभत्सु ||‍ पु० बध—निन्दने स्वार्थे सन् उ । १ अर्जुने । भा० वि० ४४ अ० अस्यनिरुक्तिव अन्यथोक्ता यथा “न कुर्य्यां कर्म बीभत्सं युध्यमानः कथञ्चनः तेन देवम- नुष्येषु बीभत्सुरिति विश्रुतः” । बीभत्सुरिति भदि कल्याणे सुखे चेत्यस्य सनि रूपम्” नीलक० । तत्र पृषो० इटो- ऽभावो नलोपश्च । अन्ये तु बीभत्सकर्मरहितत्वात् वि- रोधिलक्षणया तन्निन्दनकारित्वाद्वा तथात्वमित्याहुः ।


शब्दकल्पद्रुमः

बीभत्सुः || पुं, (बीभत्सतीति । वध + सन् + उ । युद्धे न्यायपथेन शत्रुहननादस्य तथात्वम् । एतन्निरुक्तिरुक्ता । यथा, महाभारते ४ । ४२ । १८ । “न कुर्य्यां कर्म्म बीभत्सं युध्यमानः कथञ्चन । तेन देवमनुष्येषु बीभत्सुरिति विश्रुतः ॥”)
अर्ज्जुनः । यथा, — अर्ज्जुनः फाल्गुनो जिष्णुः किरीटी श्वेत- वाहनः । बीभत्सुर्विजयः कृष्णः सव्यसाची धनञ्जयः ॥ इति महाभारते । ४ । ४२ । ९ ॥



Correction: