संस्कृत-शब्दकोशः

बुद बुद्धगया

बुद्ध

वाचस्पत्यम्

बुद्ध ||‍ पु० बुध क्त । १ भगवतोऽवतारभेदे येन वेदतत्कर्मणोर्निन्दा- कृता । २ जानरिते, ३ ज्ञातवति च त्रि० । ४ षण्डिते पु० मेदि० । युद्धश्च विष्णोः चतुर्विशत्यवतारभध्ये एकविं नोऽततारो यथोक्तं “ततः कलौ संप्रकृत्ते सम्मोहाय सुरद्विषाम् । बुद्धो नाम्नाऽञ्जनसुतः कीकटेषु भविष्यति” भाग० स्क० । बुद्धेन प्रोक्तम् अण् तद्वेति अण् । बौद्धप्रोक्तशास्त्रे तद- भित्ते च त्रि० । तद्दर्शनभेदतन्मतादिकं सर्वद० दं० दर्शितं यथा “अत्र बीर्द्धरभिधीयते यदभ्यधायि अविनाभावो दुर्बोध इति तदसाधीयः तादात्म्यतदुत्पत्तिभ्यामविनाभावस्य सु- ज्ञानत्वात् । तदुक्तम् “कार्य्यकारणभावाद्वा स्वभावाद् वा नियामाकात् । अबिवाभावनियमो दर्शनान्तरदर्शनादिति” अन्वयव्यतिरेकावविनाभावनिश्चायकाविति । ननु पक्षे सा- ध्यसाधनयोरव्यभिचारो दुरवधारणो भवेत्, भविष्यति, भूते अनुपलभ्यमाने च व्यभिचारशङ्काया अनिवार- णात् । ननु तथाविधस्थले तावकेऽपि मते व्यभि- चारशङ्का दुष्परिहरेति चेत् मैवं वोचः विनापि कारण कार्य्यमुत्पद्यतामित्येवंविधायाः शङ्काया व्याधातावधिकतया निवृत्तत्वात् । तदेव ह्याशङ्क्येत यस्मि- न्नाशङक्यमाने व्याघातादयो नावतरेयुः तदुक्तम् । “व्याघातावधिराशङ्केति” तस्मात् तदतपत्तिनिश्चयेन अवि- नाभावो निश्चीयते तदुत्पत्तिनिश्चयश्च कार्य्यहेत्वोः प्रत्यक्षो- पलम्भानुपलम्भपञ्चकनिबन्धनः । कार्य्यस्योत्पत्तेः प्रागनु- पलम्भः १ कारणोपलम्भे २ सत्युपलम्भः ३ उपलब्धस्य पश्चात् कारणानुपलम्भात् ४ अनुपलम्भ ५ इति पञ्चकारण्या धूमधूम- ध्वजयोः कार्य्यकारणभावो निसीयते । तथा तादात्म्यनि- सयिनाप्यविनाभावो निसीयते यदि शिंशपा वृक्षत्वमतिपतेत् स्वात्मानमेव ब्रह्मादिति विपक्षे वाधकप्रवृत्तेः । अप्रवृत्ते तु बाधके भूयःसहभावोपलम्भेऽपि व्यभिचारशङ्कायाः को निवारयिता । शिंशपावृक्षयोश्च तादात्म्यनिश्चयो वृक्षोऽर्यं शिंशपेति सामानाधिकरण्यबलादुपपद्यते । न ह्यत्यन्ताभेदे तत् सम्भवति पर्य्यायत्वेन युगपदपि प्रयोगायोगात् नाप्यत्यन्तभेदे गवाश्वयोरिवानुपलम्भात् । तस्मात् कार्य्यात्मानौ कारणमात्मानमनुमापयत इति सिद्धम् । यदि कश्चित् प्रामाण्यमनुमानस्य नाङ्गीकुर्य्यात् तं प्रतिव्रूयात् अनुभानं न भवतीत्येतावन्मात्रं प्रमाणं तत्र न किञ्चन साधनमुपन्यस्यते उपन्यस्यते वा । न प्रथमः एकाकिनी प्रतिज्ञा हि प्रतिज्ञातं न साधयेष्टिति न्यायात् । नापि चरमः अनुमानं प्रमाणं न भवतीति ब्रुवाणेन त्वया अशिरस्कवचनस्योपन्यासे मम माता बन्ध्येतिवद् व्याघातापातात् । किञ्च प्रमाणतदामासव्यवस्थापनं तत्- समानजातीयत्वादिति वदता भवतैव स्वीकृतं स्वभावा- नुमानम् । परगता विप्रतिपत्तिस्तु वचनलिङ्गेनेति ब्रुवता कार्य्यलिङ्गकमनुमानम् । अनुपलद्ध्या कञ्चिदर्थं पातषधयतानुपलब्धिलिङ्गकमनुमानम् । तथाचोक्तं तथा- गतैः “प्रमाणान्तरसामान्यस्थिरत्वान्यधियां गतेः । प्रमा- णान्तरसद्भावः प्रतिषेधाच्च कस्यचिदिति” पराक्रान्तञ्चात्र सूरिभिरिति ग्रन्थभूयस्त्वभ्यादुपरम्यते । ते च बौद्धा- चतुर्विधया भावनया परमपुरुषार्थं कथयन्ति । ते च माध्यमिकयोगाचारसौत्रान्तिकवैभाषिकसंज्ञाभिः प्रसिद्धा बौद्धा यथाक्रमं सर्वशून्यत्व—बाह्यशून्यत्वबाह्यर्थानुमेयत्व बाह्यार्थप्रत्यक्षत्रवादानातिष्ठन्ते । यद्यपि भगवान् बुद्ध एक एव बोधयिता तथापि बोद्धव्यानां बुद्धिभेदाच्चातु- र्विध्यं यथा गतोऽस्तमर्क इत्युक्ते जारचौरानूचाना- दयः स्वेष्टानुसारेणाभिसरणपरस्वहरणसदाचरणादिस- मयं बुध्यन्ते । सर्वं क्षणिकं क्षणिकम्, दुखं दुःखं, स्वलक्षणं स्वलंक्षणं, शून्यं शन्यमिति भावनाचतुष्ट पमुपदिष्टं द्रष्टव्यम् । तत्र क्षणिकत्वं भीलादिक्षणानां सत्त्वेनानुमातव्यं यत् सत् तत् क्षणिकं यथा जलधर पटल सन्तश्चामी भावा इति । न चायमसिद्धो हेतुः अर्थ क्रियाकारित्वलक्षणस्य सत्त्वस्य नीलादिक्षणानां प्रत्यक्ष सिद्धत्वात् व्यापकव्यावृत्त्या व्याप्यव्यावृत्तिन्यायेन व्यापक फमाक्रमव्यावृत्तावक्षणिकात् सत्त्वव्यावृत्तेः सिद्धत्वाञ्च । तच्चार्थाक्रियाकारित्वं क्रमाक्रमाभ्यां व्याप्तं न च क्रमा- क्रमाभ्यामन्यः प्रकारः समस्ति “परम्परविरोधे हि न प्रका- रान्तरस्थितिः । नैकताप्रि विरुद्धानामुक्तिमात्रविरोधतः” इति न्यायेन व्याथातस्योद्भटत्वात् । तौ च क्रमाक्रमौ स्थायिनः सकाशाद् व्यावर्त्तमानौ अर्थक्रियामपि व्याव- र्त्तयन्तौ क्षणिकत्वपक्ष एव सत्तं व्यवस्थापयत इति सिद्धम् । नन्वक्षणिकस्यार्थक्रियाकारित्वं किं न स्यादिति चेत् तदयुक्त विकल्पासहत्वात् तथा हि वर्त्तमानाथ- क्रियाकरणकाले अतीतातागतयोः किमर्थक्रिययोः स्थायिनः सामर्थ्यमस्तिः? नो वा? आद्ये तयोरनिरा० करणप्रसङ्गः समर्थस्य क्षेपायोगात् यत् यदा यत्करण- समर्थं तत् तदा तत्करोत्येव यथा समग्री स्वकार्य्यं समर्थश्चायं भावः इति प्रसङ्गानुमानाच्च । द्वितीयेऽपि कदापिनि कुर्य्यात् सामर्थ्यमात्रानुबन्धित्वादर्थक्रियाकारि- त्वस्य यत् यदा यन्न करोति तत् तदा तत्रासमर्थं यथा हि शिलाशकलमङ्कुरे, न चैष वर्त्तमानार्थक्रिया० करणकाले वृत्तवर्त्तिष्यमाणे अर्थक्रिये करोतीति तद्विपर्य्ययाच्च । ननु क्रमवत्सहकारिणः स्थायिनः अतीतानागतयोः क्रमेण क्रमणमुपपद्यते इति चेत् तत्रेदं भवान् पृष्टो व्याचष्टां सहकारिणः किं भाव- स्योपकुर्वन्ति? न वा? न चेत् नापेक्षणीयास्ते अकि- ञ्चित्कुर्वतां तेषां तादर्थ्यायोगात् । उपकारकत्वपक्षे सोऽयमुपकारः किं भावाद्भिद्यते? न वा? भेदपक्षे आगन्तुकस्यैब तस्य कारणत्वे स्यात् न भावस्याक्षणि- कस्य, आगन्तुकातिशयान्ववव्यतिरेकानुविधायित्वात् कार्य्यस्य । तदुक्तम् “वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति तयोः फलम्? । चर्मोपमश्च सोऽनित्यः खतुल्यश्चेदसत्- फल इति” । अथ भावस्तैः सहकारिभिः सहैव कार्य्यं करोतीति स्वभाव इति चेत् अङ्ग तर्हि सहारिणो न जह्यात् प्रत्युत पलायमानानपि पाशेन बद्घा कृत्यं कार्य्यं कुर्य्यात् स्वभावस्यानपायात् । किञ्च सह- कारिजन्योऽतिशयः किमतिशयान्वरमारभते न वा उभ- यथापि प्रागुक्तदूषणपापाणवर्षणप्रसङ्गः । अतिशयान्त- रारम्भपक्षे बहुमुखानवस्थादौस्थ्यमपि स्यात् अतिशये जनयितव्ये सहकार्य्यन्तरापेक्षायां तत्परम्परापात इ- त्येकानवस्थाऽऽस्थेया, तथाहि सहकारिभिः सलिल- पवनादिभिः पदार्थसार्थैराधीयमाने वीजस्यातिशंये वीज- मुत्पादकमभ्यु पेयम् अपरथा तदभावेऽप्यतिशयः प्रादुर्भ- येत् वीजञ्चातिशयमादधानं सहकारिसापेक्षमेवाधच अन्यथा सर्वदोपकारापत्तौ अङ्कुरस्यापि सदोदयः प्रस- ज्येत । तस्मादतिशयार्थमपेक्षमाणैः सहकारिभिरद्वि- शयान्तरमाधेयं वीजे, तस्मिन्नत्युपकारे पूर्वन्यायेन सहकारिसापेक्षस्य बीजस्य जनकत्वे सहकारिसम्पा- द्यवीजगतातिशयानवस्था प्रथमा व्यवस्थिता । अथोप- कारः कार्य्यार्थमपेक्ष्यमाणोऽपि वीजादिनिरपेक्षं कार्य्यं जनयति तत्सापेक्षो वा । प्रथमे वीजादरहेतुत्वमाप० तेत् । द्वितीये अपेक्ष्यमाणेन वीजादिना उपकारे अति- शय आधेयः एवं तत्र तत्रापीति वीजादिजन्याति- शयनिष्ठातिशयपरम्परापात इति द्वितीयानवस्था स्थिरा भवेत् । एवमपेक्ष्यमाणेनोपकारेण वीजादौ धर्मिण्युप- कारान्तरमाधेयमित्युपकाराधेयवीजातिशयाश्रयातिशय- परम्परापात इति तृतीयानवस्था दुरवस्था स्यात् । अथ भावादभिन्नोऽतिशयः सहकारिभिराधीयत इत्य- भ्युपगम्यते तर्हि प्राचीनो भावोऽनतिशयात्मा निवृत्तः अन्यश्चातिशयात्मा कुर्वद्रूपादिपदवेदनीयो जायत इति कलितं ममापि मनोरथद्रुमेण । तस्मादक्षणिकस्यार्थ- क्रिया दुर्घटा । नाप्यक्रमेण घटते विकल्पासहत्वात् । तथा हि युगपत्सकलकार्य्यकरणसमर्थः स भावस्तदुत्तर- कालमनुवर्त्तते न वा । प्रथमे तत्कालवत् कालान्तरेऽपि तावत्कार्य्यकरणमापतेत् । द्वितीये स्थायित्ववृत्त्याशा मूषिकभक्षितवोजादावङ्करादिजननप्रार्थनामनुहरेत् । यत् विरुद्धधर्माध्यस्तं तन्नाना यथा शीतोष्णे । विरुद्ध- धर्माध्यस्तश्चायमिति जलधरे प्रतिबन्धसिद्धिः । न चाय मसिद्धो हेतुः, स्थायिनि कालभेदेन सामर्थ्यासाम- र्थ्ययोः प्रसङ्गतद्विपर्य्ययसिद्धत्वान् तत्रासामर्थ्यसाधकौ प्रसङ्गतद्विर्य्ययौ प्रागुक्तौ सामर्थ्यसाधकावभिधीयेते यद्यदा यज्जननासमर्थं तत् तदा तन्न करोति यथा शिलाशकलमङ्कुरम् असमर्थश्चायं वर्त्तमानार्थक्रिया- करणकाले अतीतानागतयोरर्थक्रिययोरिति प्रसङ्गः यद्यदा यत् करोति तत् तदा तत्र समर्थं यथा सा- मग्रो स्वकार्य्येति, करोति चायमतीतानागतकाले तत्- कालवर्त्तिन्यावर्थक्रिये भाव इति प्रसङ्गव्यत्ययः विप- र्ध्ययः । तस्माद् विपक्षे क्रमयौगपद्यव्यावृत्त्या व्याप- कानुपलम्भेनाधिगतव्यतिरेकव्याप्तिक प्रसङ्गतद्विप- र्य्ययबलात् गृहीतान्वयव्याप्तिकं सत्त्वं क्षणिकत्व- पक्ष एव व्यवस्थास्यतीति सिद्धम् । तदुक्तं ज्ञान- श्रिया “यत् सत्तत् क्षणिकं यथा जलधरः सन्तश्च भावा अमी सत्ताशक्तिरिहार्थकर्मणि मितेः सिद्धेषु सिद्धा न सा । नाप्येकैव विधाऽन्ययः परकृतेनापि क्रियादिर्भवेत् द्वेधापि क्षणभङ्गसङ्गतिरतः साध्ये च विश्राम्यतीति” । न च कणभक्षाक्षन्वरणादिपक्षकक्षी- कारेण सत्तासामान्ययोगित्वमेव सत्त्वमिति मन्तव्यं सामान्यविशेषसमवायानामसत्त्वप्रसङ्गात् । न च तत्र स्वरूपसत्तानिबन्धनः सद्व्यवहारः प्रयोजकगौरवा- पत्तेः अनुगतत्वाननुगतत्वविकल्पपराहतेश्च, सर्षपमही- धरादिषु विलक्षणेषु क्षणेष्वनुगतस्याकारस्य मणिषु सूत्र- वद्भूतगणेषु गुणवच्चाप्रतिभासनाच्च । किञ्च सामान्यं सर्वगतं स्वाश्रयसर्वगतं वा प्रथमे सर्ववस्तुसङ्करप्रसङ्गः अपसिद्धन्तापत्तिश्च यतः प्रोक्तं प्रशस्तपादेन “स्वविषय- सर्वगतमिति । किञ्च विद्यमाने घटे वर्त्तमानं सामा- न्यमन्यत्र जायमानेन संबधमानं तस्यादागच्छत् मब- ध्यते अनागच्छत् वा आद्ये द्रव्यत्पापत्तिः द्वितीये स- म्बन्धानुपपत्तिः । किञ्च विनष्टे घटे सामान्यमत्रति- ष्ठते, विनश्यति, स्थानान्तरं गच्छति वा प्रथमे निरा- धारत्यापत्तिः, द्वितीये नित्यत्ववाचोयुक्त्ययुक्तिः, तृतीये द्रष्टव्यत्वप्रसक्तिः इत्यादि दूषणग्रहग्रस्तत्वात् सामान्य- मप्रामाणिकम् । “अन्यत्र वर्त्तमानस्य ततोऽन्यस्थान- जन्मनि । तस्मादचलतः स्थानाद् वृत्तिरित्यतियुक्तता । यत्रासौ वर्त्तते भावस्तेन संबध्यते न तु । तद्देशिनञ्च ध्याप्नोति किमप्येतन् महाद्भुतम् । न याति न च तत्रासीदस्ति पश्चान्नचांशवत् । जहाति पूर्वं नाधार- महो व्यसनसन्ततिरिति” अनुवृत्तप्रत्ययः किमालम्बन इति चेत् अङ्ग अन्यापोहालम्बन एवेति सन्तोष्टव्यमा- युष्मतेति अलमतिप्रसङ्गेन । सर्वस्य ससारस्य दुःखा- त्मकत्वं सर्वतीर्थकरसम्मतम् अन्यथा तन्निविवर्त्तयिषूणां तेषां तन्निवृत्युपाये प्रवृत्त्यनुपपत्तेः । तस्मात् सर्वं दुःखं दुःखमिति भावनीयम् । ननु किंवदिति पृष्टे दृष्टान्तः कथनीय इति चेन्मैवं स्वलक्षणानां क्षणानां क्षणिकतया सालक्षण्याभावात् नैनेन सदृशमपरमिति वक्तुमशक्यत्वात् । ततः स्वलक्षणं स्वलक्षणमिति भाविनीयम् । एवं शन्यं शून्यमपि मावनीयं स्वप्ने जागरणे च न मया दृष्टमिदं रजतादीति विशिष्ट- निषेघस्योपलम्भात् । यदि दृष्टं सत् तदा तद्विशिष्टस्य दर्शनखेदन्ताया अधिष्ठानस्य च तस्मिन्नध्यस्तस्य रजत- त्वादेस्तत्सम्बन्धस्य च समवायादेः सत्त्वं स्यात् न चैतदिष्टं कस्यचिद् वादिनः । न चार्द्धजरतीयसुचितं स हि कुक्कुट्या एको भागः पाकाय अपरो भागः प्रस- वाय कल्प्यतामिति कल्प्यते । तस्मादध्यस्ताधिष्ठान- तत्सम्बन्धदर्शनद्रष्टृणां मध्ये एकस्यानेकस्य वा अ- सत्त्वे निषेधविषयत्वेन सर्वस्यासत्त्वं बलादापतेदिति । (माध्यमिकाः) भगवतोपदिष्टे माध्यमिकास्तावदुत्तमप्रज्ञा इत्थ- मचीकथन् भिक्षुपादप्रसारणन्यायेन क्षणभङ्गाद्यभिधान- मुखेन स्थायित्वानुकूलेवेदनीयत्वानुगतसर्वसत्यत्वभ्रमव्याव- र्त्तनेन सर्वशून्यतायामेव पर्य्यवसानम् । अतस्तत्त्वं सदस- दुभयानुभयात्मकचतुष्कोटिविनिर्मुक्तं शून्यमेव । तथा हि यदि घटादेः सत्त्वं स्वभावस्तर्हि कारकव्यापारवैयर्थ्यम् । असत्त्वं सवभाव इति पक्षे प्राचीन एव दोषः प्रादुः ष्यात् । यथोक्तम् “न सतः कारणापेक्षा व्योमादेरिव युज्यते । कार्य्यस्यसम्भवो हेतुः खपुष्पादेरिवासतः” इति विरोधादितरौ पक्षावनुपपन्नौ तदुक्तं भगवता लङ्कारतारे “बुद्ध्या विविच्यमानानां स्वमावो नावधार्य्यते । अतो निरभिलप्यास्ते निःस्वभावाश्च दर्शिताः” इति । “इदं वस्तु बलायतं यद्वदन्ति विपश्चितः । यथा यथार्थाश्चिन्त्यन्ते विशीर्य्यन्ते तथा तथेति” च । न क्वचिदपि पक्षे व्यवतिष्ठत इत्यर्थः । दृष्टार्थव्यवहारश्च न स्वप्नव्यवहार- वत् संवृत्त्या सङ्गच्छते । अतएवोक्तन्न “परिव्राट्कामुक शुनामेकस्यां प्रमदातनौ । कुणपः कामिनी भक्ष्य इति तिस्रो विकल्पना इति ।” तदेवं भावनाचतुष्टयवशान्नि- खिलवासनानिवृत्तौ निर्वाणं शून्यरूपं सेत्स्यतीति वयं कृतार्थाः नास्माकसुपदेश्यं किञ्चिदस्तीति । शिव्यै- स्तावद्योगश्चाचारश्चेति द्वयं करणीयम् । तत्रापाप्त- स्यार्थस्य प्राप्तये पर्य्यनुयोगो योगः गुरूक्तस्यार्थस्याङ्गीकर- णमाच्चारः गुरूक्तस्याङ्गीकरणादुत्तमाः पर्य्यनुयोगस्या- करणादपमाश्च अतस्तेषां माध्यमिका इति प्रसिद्धिः । (योगाचाराः) गुरूक्तमावनाचतुष्टयं बाह्यार्थस्य शून्यत्वं चाङ्गीकृत्याऽऽन्तरस्य शून्यत्वञ्चाङ्गीकृतं कथमिति? पर्य्यनुयोगस्य करणात् केषाञ्चिद् योगाचारप्रथा एषा हि तेषां परिभाषा स्वयंवेदनं तावदङ्गीकार्य्यम् अन्यथा जगदान्ध्यं प्रसज्येत । तत्कीर्त्तितं धर्म्मकीर्त्तिना “अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यतीति ।” वाह्यं ग्राह्यं नोदपद्यत एव विकल्पानुपपत्तेः । अर्थो ज्ञान- ग्राह्यो भावादुत्पन्नो भवति अनुत्पन्नो वा, न पूर्वः उत्प न्नम्भ स्थित्यभावात् नापरः अनुत्पन्नस्यासत्त्वात् । अथ- मन्येथाः अतीत एवार्थो ज्ञानग्राह्यः तज्जनकत्वादिति तदपि बालमाषितं वर्त्तमानतावभासविरोधात् इन्द्रिया- देरपि ग्राह्यत्वप्रसङ्गाच्च । किञ्च ग्राह्यः कि परमाणु- रूपोऽर्थः अवयविरूपो वा । त चरमः कृत्म्रैकदेशवि- कल्पादिना तन्निराकरणात् । न प्रथमः अतीन्द्रियत्वात् षट्केन युगपद्योगस्य बाधकत्वाच्च । यथोक्तम् “षट्केन युगपद् योगात् परमाणोः षडंशता । तेषामप्येकदेशत्वे पिण्डः स्यादणुमात्रकः” इति । तस्मात् स्वव्यतिरिक्त- ग्राह्यविरहात्तदात्मिफा बुद्धिः स्वयमेव स्वात्मरूपपका- शिका प्रकाशवदिति सिद्धम् । तदुक्तम् “नान्योऽनुभाव्यो बुद्ध्यास्ति तस्या नानुभवोऽपरः । ग्राह्यग्राहकवैधुर्य्यात् स्वयं सैव प्रकाशते इति ।” ग्राह्यग्राहकयोरभेदश्चानु- मातव्यः यद्वेद्यते येन वेदनेन तत्ततो न भिद्यते यथा ज्ञानेनात्मा, वेद्यन्ते तैश्च नीलादयः । भेदं हि सत्य- धुना अनेनार्थस्य सम्बन्धितं न स्यात् तादात्म्यस्य निय- महेतोरभावात् तदुत्पत्तेरनियामकत्वात् यश्चायं ग्राह्य- ग्राहकसंवित्तीनां पृथगवभासः स एकस्मिंश्चन्द्रमसि द्वित्वावभास इव भ्रमः अत्राप्यनादिरविच्छिन्नप्रवाहा भेद- वामनैव निमित्तम् । यघोक्तम् “सहोपलम्भनियमा- दभेदो नीलतद्धियोः । भेदश्च भ्रान्तिविज्ञानैर्दृश्येतेन्दा- विवाद्वये” इति । “अविभागोऽपि बुद्ध्यात्मा विपर्यासित- दर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते” इति च । न च रसवीर्य्यविपाकादिसमानमाशामोदकोपार्जितमो- दकानां स्यादिति वेदितव्यं वस्तुतो वेद्यवेदकाकार- विधुराया अपि बुद्धेर्व्यवहर्तृपरिज्ञानानुरोधेन विभिन्न- ग्राह्यग्राहकाकाररूपवत्तया तिमिराद्युपहताक्षाणां केशे- न्द्रनाडीज्ञानाभेदवदनाद्युपप्लवबासनासामर्थ्याद् व्यवस्थो- पपत्तेः पर्य्यनुयोगायोगात् । यथोक्तम् “अवेद्यवेदका- कारा यथा भ्रान्तैर्निरीक्ष्यते । विभक्तलक्षणग्राह्यग्राह- काकारविप्लवा । तथा कृतय्य्वस्थेयं केशादिज्ञानभेद- वत् । यदा तदा न सञ्चोद्या ग्राह्यग्राहकलक्षणेति” तस्माद् बुद्धिरेवानादिवासनावशादनेकाकारावभासत इति सिद्धम् १ ततश्च प्रागुक्तभावनाप्रचयबलान्निखिलवास- नोच्छेदविगलितविवधविषयाकारोपप्लवविशुद्धविज्ञानोदयो महोदय इति । (सौत्रान्तिकाः) अन्ये तु मन्यन्ते यथोक्तं वाह्यं वस्तु- जातं नास्तीति तदयुक्त प्रमाणाभावात् । न च सहोपलम्भनियमः प्रमाणमिति वक्तव्यं वेद्यवेदकयो- रभेदसाधकत्वेनाभिमतस्य तस्याप्रयोजकत्वेन सन्दिग्ध- विपक्षव्यावृत्तिकत्वात् । ननु भेदे महीपलम्भनियमात्मकं साधन न स्यादिति चेन्न ज्ञानस्यान्तर्मुखतथा च भेदेन प्रतिभासमानतया एकदेशत्वैककालत्वलक्षणसहत्व- नियमासम्भवाच्च नीलार्थस्य ज्ञानाकारत्वे अहमिति प्रतिभासः स्यात् नत्विदमिति प्रतिपत्तिः प्रत्ययाव्य- तिरेकात् । अथोच्यते ज्ञानस्वरूपोऽपि नीलाकारो भ्रान्त्या बहिर्वद्भेदेन प्रतिभासत इति न च तत्राह- मुल्लेख इति यथोक्तम् “परिच्छेदान्तराद् योऽयं भागो बहिरिव स्थितः । ज्ञानस्याभेदिनो भेदप्रतिभासोऽप्यु- पप्लवः” इति । “यदन्तर्ज्ञेयतत्त्वं तद् वहिर्वदवभासत इति च”—तदयुक्तं बाह्यार्थाबावे तदुत्पत्तिरहिततया बहिर्व- दित्युपमानोक्तेरयुक्तेः न हि वसुमित्रो बन्ध्यापुत्रवदब- भासत इति प्रेक्षावानाचक्षीत । भेदप्रतिभासस्य भ्रान्तत्वे अभेदप्रतिभासस्य प्रामाण्यं, तत्प्रामाण्ये च भेदप्रति- भासस्य भ्रान्तत्वमिति परस्पराअश्रयप्रसङ्गाच्च । अविसंवा- दान्नीलतादिकमेव संविदाना बाह्यमेवोपाददते जगत्यु- पेक्षन्ते चान्तरमिति व्यवस्थादर्शनाच्च । एवञ्चायमभेद- साधको हेतुर्गोमयपायसीयन्यायवदाभासतां भजेत् अतो चहिर्वदिति वदता बाह्यं ग्राह्यमेवेति भावनीयमिति भवदीय एव वाणो भवन्तं प्रहरेत् । ननु ज्ञानाभि- न्नकालस्यार्थस्य बाह्यत्वमनुपपन्नमिति चेत् तदनुपपन्नम् इन्द्रियसन्निकृष्टस्य विषयस्योत्पाद्ये ज्ञाने स्वाकार- समर्पकतया समर्पितेन चाकारेण तस्यार्थस्यानुमेयतोप- पत्तेः अतएव पर्य्यनुयोगपरिहारौ समग्राहिषाताम् । “भिन्नकालं कथं ग्राह्यमिति चेत् ग्राह्यतां विदुः । हेतुत्वमेव च व्यक्तेर्ज्ञानाकारार्पणक्षममिति” तथा च यथा पुष्ट्या भोजनमनुमीयते यथा च भाषया देशः यथा वा सम्भ्रमेण स्नेहः तथा ज्ञानाकारेण ज्ञेयमनु- मेयम् । तदुक्तम् “अर्द्धेन घटयत्येनां न हि मुक्त्वाऽ- र्द्धरूपताम् । तस्मात् प्रमेयाधिगतेः प्रमाणं मेयरूप- तेति” न हि वित्तिसत्तैव तद्वेदना युक्ता तस्याः सर्व- त्राविशेषात् तान्तु सारूप्यमाविशत् सरूपयितुं घटये- दिति च । तथा च बाह्यार्थसद्भावे प्रयोगः ये य- स्मिन् सत्यपि कादाचित्काः ते सर्वे तदतिरिक्तसापेक्षाः यथा अविवक्षति, अजिगमिषति मयि वचनगमनप्रति- भासा विवक्षुजिगमिषुपुरुषान्तरसन्तानसापेक्षाः तथा च विवादाध्यासिताः प्रवृत्तिप्रत्ययाः सत्यप्यालयविज्ञाने कदाचिदेव नीलाद्युल्लेखना इति । तत्रालयविज्ञानं नामाहमास्पदं विज्ञानं, नीलाद्यल्लेखि च प्रवृत्ति- विज्ञानम् । यथोक्तम् “तत् स्यादालयविज्ञानं यद्- भवेदहमास्प्यदम् । तत् स्यात् प्रवित्तिविज्ञानं यन्नी- लादिकमुल्लिखेदिति” तस्मादालयविज्ञानसन्तानातिरिक्तः कादाचित्कः प्रवृत्तिविज्ञानहेतुर्बाह्योऽर्थो ग्राह्य एव न वासनापरिपाकप्रत्ययः कादाचित्कत्वात् कदाचि- दुत्पाद इति वेदितव्यम् । विज्ञानवादिनये हि वास- नानामेकसन्तानवर्त्तिनामालयविज्ञानानां तत्तत्प्रवृत्ति- जननशक्तिः तस्याश्च स्वकार्य्योत्पादं प्रत्याभिमुख्यं परिपाकः तस्य च प्रत्ययः कारणं स्वसन्तानवर्त्तिपूर्वक्षणः कक्षीक्रियते सन्तानान्तरनिबन्धनत्वानङ्गीकारात् । ततश्च प्रवृत्तिज्ञानजननालयविज्ञानवृत्तिवासनापरिपाकं प्रति सर्वऽप्यालयविज्ञानवर्त्तिनः क्षणाः समर्था एवेति वक्त- व्यम् । न चेदेव कोऽपि न समर्थः स्यादालयविज्ञान- सन्तानवर्त्तित्वाविशेषात् । सर्वे समर्था इति पक्षे कार्य्य- क्षेपानुपपत्तिः ततश्च कादाचित्कत्वनिर्वाहाय शब्दस्पर्श- रूपरसगन्धविषयाः सुखादिविषयाः षडपि प्रत्ययाश्चतुरः प्रत्ययान् प्रतीत्योत्पद्यन्ते इति चत्रेणानिच्छताप्यच्छ- मतिना स्वानुभवमानाच्छाद्य परिच्छेत्त्यव्यम् । ते चत्वारः प्रत्ययाः आलम्बनसमन्तरसहकार्य्यधिपतिरूपाः तत्र ज्ञानपदवेदनीयस्य चित्तस्य नीलालम्बनप्रत्ययात् नीला- कारता भवति, समनन्तरप्रत्ययात् प्राचीनज्ञानाद् बोध- रूपता, सहकारिप्रत्ययादालोकात्, चक्षुषोऽधिपति- प्रत्ययाद्विषयग्रहणप्रतिनियमः विदितस्य ज्ञानस्य रसा- दिसाधारण्यप्राप्तेर्नियमकं चक्षुरधिपतिर्भवितुमर्हति लोके नियामकस्याधिपतित्वोपलम्भात् । एवं चित्तचैत्ता त्मकानां सुखादीनां चत्वारि कारणानि द्रष्टव्यानि । एवं चित्तचैत्तात्मकस्कन्धः पञ्चविधः रूपविज्ञानवेदना- संज्ञासंस्कारसंज्ञकः । तत्र अरूप्यन्ते एभिर्विषया इति च व्युत्पत्त्या सविषयाणीन्द्रियाणि रूपस्कन्धः । आल- यविज्ञानप्रवृत्तिबिज्ञानप्रवाहो विज्ञानस्कन्धः । प्रागुक्त- स्कन्धद्वयअम्बन्धजन्यः सुखदुःखादिप्रत्ययपवाहो वेदना स्कन्धः । गौरित्यादिशब्दल्लि खिसविज्ञानप्रवाहः संज्ञा- स्कन्धः । वेदनास्कन्धनिबन्धना रामद्वेषादयः क्लेशा उप- क्लेशाश्च मदमानादयो धर्माधर्मौ च संस्कारस्कन्धः । तदिदं सर्वं दुखं दुःखस्यायतनं दुःखसाधनञ्चेति भावयित्वा तन्निरोधोपायं तत्त्वज्ञानं सम्पादयेत् । अत एवोक्तं “दुःखसमुदायनिरोधमार्गाश्चत्वारः बुद्धाभिमतानि तत्त्वानि” । तत्र दुःखं प्रसिद्ध्वं, समुदायो दुःखकारण, तद् द्विविधं प्रत्ययोपनिबन्धनो हेतूपनिबन्धनश्च । तत्र प्रत्ययोपनिबन्धनस्य संग्राहकं सूत्रम् “इदं कार्य्यं ये अन्ये हेतवः प्रत्ययन्ति” गच्छति तेषामयमानानां हे तूनां भावः प्रत्ययत्वं, कारणसमवायः तन्मात्रस्य फलं, न चेतनस्य कस्यचिदिति सूत्रार्थः । यथा वीजहेतुरङ्कुरो धातूनां षण्णां समवायाज्जायते । तत्र पृथिवीधातुरङ्कुरस्य काठिन्यं गन्धञ्च जनयति, अब्धातुः स्नेहं रसञ्च जन- यति, तेजोधातुः रूपमौष्ण्यञ्च, वायुधातुः स्पर्शनं चलनञ्च, आकाशधातुरवकाशं शब्दञ्च ऋतुधातुर्यथा- योगं पृथिव्यादिकम् । हेतूपनिबन्धनस्य च संग्राहकं सूत्रम् “उत्पादाद् वा तथागतानामनुत्पादाद् वा स्थितै- वैषां धर्माणां धर्मता धर्मस्थितिता धर्मनियामकता च प्रतीत्य समुत्पादानुलोमतेति” । तथागतानां बुद्धानां मते धर्माणां कार्य्यकारणरूपाणां या धर्मता कार्य्य- कारणभावरूपा एषोत्पादादनुत्पादाद् वा स्थिता, य- स्मिन् सति यदुत्पद्यते तत् तस्य कारणस्य कार्य्य- मिति धर्मतेत्यस्य विवरणं, धर्मस्य कार्य्यस्य कारणा- नतिक्रमेण स्थितिः स्वार्थिकस्तल्प्रत्ययः । धर्मस्य कारणस्य कार्य्यं प्रति नियामकता । नन्वयं कार्य्य- कारणभावश्चेतनमन्तरेण न सम्भवतीति अत उक्तं का- रणे सति तत्प्रतीत्य प्राप्य समुत्पादे अनुलोमता अ- नुसारिता या सैव धर्मता उत्पादादनुत्पादाद् वा ध- र्धाणां स्थिता । न चात्र कश्चिच्चेतनोऽधिष्ठातोपलभ्यत इति सूत्रार्थः । यथा प्रतीत्य समुत्पादस्य हेतूपनि- बन्धः वीजादङ्कुरोऽङ्कुरात् काण्डं काण्डान्नालो नालाद्गर्भस्ततः शूकं ततः पुष्पं ततः फलम् । न चात्र षाह्ये समुदाये कारणं वीजादि कार्य्यमङ्कुरादि चे- तायते अहमङ्कुरं निर्वर्त्तयामि अहं वीजेन निर्वर्त्तित इति । एवमध्यात्मिकेष्वपि कारणद्वयमवगन्तव्यम् । पुरःस्थिते प्रमेयाब्धौ ग्रन्थविस्तरभियोपरम्यते । तदु- भयनिरोधः तदनन्तरं विमलज्ञानोदयो वा मुक्तिः तन्निरोधोपायो मार्गः स च तत्त्वज्ञानं तच्च प्राचीन- भावनाबलाद् भवतीति परमं रहस्यम् । सूत्रान्तं पृच्छतां कथितं भवन्तश्च सूत्रस्यान्तं पृष्टवन्तः सौत्रा- न्तिका भवन्त्विति भगवताभिहिततया सौत्रान्तिकसंज्ञाः सञ्जाताः । (वैभाषिकाः) केचन बौद्धाबाह्येषु रूपादिषु आन्तरेषु सखादिषु स्कन्धषु सत्स्वपि तत्रानास्थामुत्पादयितु सर्वं शून्य- मिति, प्राथमिकान् विनेयानचीकथत् भगवान्, द्वितीयांस्तु विज्ञानमात्रग्रहाविष्टान् विज्ञानमेवैकं स- दिति, तृतीयानुभयं सत्यमित्यास्थितान् विज्ञेयमनु- मेयमिति, सेयं विरुद्धा भाषेति वर्णयन्तो वैभापि- काख्यया ख्याताः । एषा हि तेषां परिभाषा समुन्मि- षति । विज्ञेयानुमेयत्ववादे प्रात्यक्षिकस्य कस्यचिदप्यर्थस्या- ऽभावेन व्याप्तिसंवेदनस्थानाभावेनानुमानप्रवृत्त्यनुपपत्तिः सकललोकानुभवविरोधश्च । ततश्चार्थो द्विविधः ग्रा- ह्योऽध्यवसेयश्च तत्र ग्रहणं निर्विकल्पकरूपं प्रमाणं कल्पनापोढत्वात्, अध्यवसायः सविकल्य करूपोऽप्रमाणं कल्पनाज्ञानत्वात् । तदुक्तम् “कल्पनापोढमभ्रान्तं प्र- त्यक्षं निर्विकल्पकम् । विकल्पो वस्तुनिर्भासादसंवादा- दुपप्लवः” इति । “ग्राह्यं वस्तु प्रमाणं हि ग्रहणं यदि- तोऽन्यथा । न तद्वस्तु न तन्मानं शब्दलिङ्गेन्द्रियादिज- मिति च” ननु सविकल्पकस्याप्रामाण्ये कथं गतः प्रवृत्तस्यार्थप्राप्तिः संवादश्चोपपद्येयातामिति चेन्न तद्भद्रं मणिप्रभाविषयमणिविकल्पन्यायेन पारपम्पर्य्येणार्थप्रति- लम्भसम्भवेन तदुपपत्तेः । अवशिष्टं सौत्रान्तिकप्रस्तावे प्रपञ्चितमिति नेह प्रतन्यते । न च विनेयाशयानु- रोधेनोपदेशभेदः साम्प्रदायिको न मवतीति भणित्यव्यं यतो भणितं बोधचित्तविवरणे “देशना लोकनाथानां सत्त्वाशयवशानुगाः । भिद्यन्ते बहुधा लोके उपायै- र्बहुमिः किल । गम्भीरोत्तानभेदेन क्वचिच्चोभयलक्षणाः । भिन्ना हि देशनाऽभिन्ना शून्यताऽद्वयलक्षणेति । द्वादशायतनपूजा श्रेयस्करीति बौद्धनये प्रसिद्धम् । “अर्था- नुपार्ज्य बहुशो द्वादशायतनानि वै । परितः पूजनी- यानि किसन्यैरिह पूजितैः । ज्ञानेन्द्रियाणि पञ्चैव तथा कर्मेन्द्रियाणि च । मनोबद्धिरिति प्रोक्तं द्वादशा- यतनं बुधैरिति” । विवेकविलामे बौद्धमतमित्थमध्य- धायि । “बौद्धानां सुगतो देवो विश्वञ्च क्षणभङ्गुरम् । आर्य्यसत्त्वाख्यया तत्त्वचतुष्टयमिदं क्रमात् । दुःखमा- यतनञ्चैव ततः समुदयो मतः । मार्गचेत्यस्य च व्याख्या क्रमेण श्रूयतामतः । दुःखं संसारिण स्कन्धास्ते च पञ्च प्रकीर्त्तिताः । विज्ञानं येदना संज्ञा संस्कारो रूप- मेव च । पञ्चेन्द्रियाणि शब्दाद्या विषयः पञ्च मान- सम् । धर्मायतनमेतानि द्वादशायतनानि तु । रागा- दीनां गणोऽयं स्यात् ममुदेति नृणां हृदि । आत्मा- त्मीयस्वभावाख्यः स स्यात् समुदयः पुनः । क्षणिकाः सर्वसंस्कारा इति या वासना स्थिरा । स मार्ग इति विज्ञेयः स च मोक्षोऽभिधीयते । प्रत्यक्षमनुमानञ्च प्र- माणद्वितयं तथा । चतुःप्रस्थानिका बौद्धाः ख्याता वैभाषिकादयः । अर्थो ज्ञानान्वितो वैभाषिकैश्च बहुम- न्यते । मौत्रान्तिकेन प्रत्यक्षग्राह्योऽर्थो न बहिर्मतः । आकारसहिता बुद्धिर्योगाचारस्य सम्मता । केवलां संविदं स्वस्थां मन्यन्ते मध्यमाः पुनः । रागादिज्ञान- सन्तानवासनाच्छेदसम्भवा । चतुर्णामपि बौद्धानां मुक्ति- रेषा प्रकीर्त्तिता । कृत्तिः कमण्डलुर्मौण्ड्यं चीरं पूर्वाह्णभोजनम् । सङ्घो रक्ताम्बरत्वञ्च शिश्रिये बौद्ध- भिक्षुभिरिति” ।


शब्दकल्पद्रुमः

बुद्धः || पुं, (बुध्यते स्म इति । बुध + क्त । यद्वा भावे क्त बुद्धं ज्ञानमस्यास्तीति अर्शआद्यच् ।)
भगवदवतारविशेषः । स तु दशावतारान्तर्गत- नवमावतारः । यथा, —
“ततः कलौ संप्रवृत्ते संमोहाय सुरद्विषाम् । बुद्धो नाम्नाञ्जनमुतः कीकटेषु भविष्यति ॥” इति श्रीभागवते १ स्कन्धे ३ अध्यायः ॥ अञ्जनस्य सुतः । अजिनसुत इति पाठे अजि- नोऽपि स एव । कीटकेषु मध्ये गयाप्रदेशे । इति श्रीधरस्वामी ॥ तत्पर्य्यायः । सर्व्वज्ञः २ सुगतः ३ धर्म्मराजः ४ तथागतः ५ समन्त- भद्रः ६ भगवान् ७ मारजित् ८ लोकजित् ९ जिनः १० षडभिज्ञः ११ दशबलः १२ अद्वय- वादी १३ विनायकः १४ मुनीन्द्रः १५ श्रीघनः १६ शास्ता १७ मुनिः १८ । इत्यमरः । १ । १ । १३ ॥ धर्म्मः १९ त्रिकालज्ञः २० धातुः २१ बोधि- सत्त्वः २२ महाबोधिः २३ आर्य्यः २४ पञ्च- ज्ञानः २५ दशार्हः २६ दशभूमिगः २७ चतु- स्त्रिंशज्जातकज्ञः २८ दशपारमिताधरः २९ द्वादशाक्षः ३० त्रिकायः ३१ संगुप्तः ३२ दया- कूर्च्चः ३३ खजित् ३४ विज्ञानमातृकः ३५ महामैत्रः ३६ । इति हेमचन्द्रः । २ । १४६ ॥ धर्म्मचक्रः ३७ महामुनिः ३८ असमः ३९ खसमः ४० मैत्री ४१ बलः ४२ गुणाकरः ४३ अकनिष्ठः ४४ त्रिशरणः ४५ बुधः ४६ वक्री ४७ वागाशनिः ४८ जितारिः ४९ अर्हणः ५० अर्हन् ५१ महासुखः ५२ । इति शब्दरत्ना- वली ॥ महाबलः ५३ । इति जटाधरः ॥ * ॥
ईश्वरनिरूपणे बुद्धविशेषाणां मतमाह । सर्व्वज्ञ इति सौगताः । निरावरण इति दिगम्बराः । लोकव्यवहारसिद्ध इति चार्व्वाकाः । शरीराण्येव चेतनानि गौरोऽहं जानामीत्यादिज्ञानेन गौर वत्त्वज्ञानवत्त्वयोः सामानाधिकरण्यानुभवा- दिति चार्व्वाकाणां मतञ्च । तेषां मते जगतः क्षणभङ्गुरत्वं नन्वस्तु क्षणभङ्गः पूर्ब्बपुञ्जाच्चोत्तर- पुञ्जोत्पत्तिस्तथा च पुञ्जनिष्ठ एव कुर्व्वद्रूप- त्वाख्यजातिविशेषः स्मरणजनकतावच्छेदक इति न दोषः । इति कुसुमाञ्जलिप्रथमस्तवक- टीकायां रामभद्रः ॥ * ॥
बुद्धानां दशविध मतभेदमाह । “वदन्ति पुत्त्र आत्मेति १ दृढप्राकृतबुद्धयः । देह आत्मेति २ चार्व्वाका इन्द्रियाण्यपरे ३ च ते ॥ तेऽन्ये प्राण ४ स्ततोऽन्ये ते मन ५ आत्मेति वादिनः । बुद्धिरात्मेति ६ बौद्धा वै शून्यमात्मेति ७ तेऽपरे ॥ याज्ञिका यज्ञपुरुषं सर्व्वज्ञं ८ स्रौगता विदुः । निरावरण ९ माहुर्यं दिगम्बरमतानुगाः ॥ चार्वाकाश्चापि लोकानां व्यवहारप्रसिद्ध- कम् १० ॥” इत्यात्मप्रकाशः ॥ * ॥
पण्डितः । बुधिते, त्रि । इति मेदिनी । धे, १० ॥ (बुद्धावतारस्य विवरणं यथा, — इह खलु बौद्धशास्त्रसमूहेषु सम्प्रोक्ताः पञ्चविंशतिर्बुद्धा दृश्यन्ते । तेषां शुद्धोदनौरसात् मायादेवीगर्भजातः शाक्यसिंहसर्व्वार्थसिद्धार्क- बन्धुगौतमेति नामचतुष्टयेन प्रसिद्धोऽन्तिम- तमः लोकविश्रुतो बुद्धः कपिलवस्तुनगरे कलेश्चतुःशतषडशीत्यधिकद्विसहस्रमितेषु गते- ष्वब्देषु शुक्रवासरे सुरद्विषां सम्मोहनाय साक्षाद् विवेकमूर्त्तिः स्वेच्छाविग्रहेण प्रादुर्बभूव । अथ स वयसा सह क्रमेण शीलगुणसाहस- रूपौदार्य्यबलवीर्य्यादिभिर्वर्द्धते स्म । उदिते यौधने पित्राज्ञया स शाक्यान्वयजां मनोज्ञां रूप- लावण्यवतीं दण्डपाणितनयां गोपानाम्नीमनु- मतामुपयेमे । जननसमयेऽस्य गणकाच्छ्रुतवान् नरेश्वरः शुद्धोदनः व्याधिग्रस्तजराजर्ज्जरसन्न्यासिमृतजन- दर्शनाज्जातवैराग्यः पुत्त्रस्ते गृहं सन्त्यक्ष्य- तीति । तस्मात् सञ्जातशङ्को राजा शिल्पिभि- रुपवनपरिवृतं सुगुप्तं रम्यं हर्म्म्यत्रयं भूभूषणं निर्म्मापयामास । तत्रासौ युवतीजनपरिवेष्टित- मुपच्छन्दितं विषयविमुग्धचेतसं तनयं निवृत्त- निर्गमनम् स्वच्छन्देनान्ववासयत् । अथ गच्छति कालेऽस्य शिथिलीबभूव भोगसन्तर्षः । ततः कारागारमिव प्रतीयमानं निष्कुटनिकेतं विहा- यास्य धरण्या नानास्थानं द्रष्टुमिच्छा सञ्जाता । ततः सोऽस्मै पित्रे शुद्धोदनाय सम्बोधया- मास पर्य्यट्य नगरं प्रजानामृद्धिमवस्थाञ्च विलो- कयितुं वासना मे बलवतीति । राजा प्रथमं निवारयितुमियेष प्रलोभनेन । स नैव तु ततो विरराम । अथ विज्ञाय निर्बन्धं पुत्त्रस्य मन्त्रिणमादिदेश, कुमारे शाक्यसिंहे भ्रमितु- मारब्धे राष्ट्रे मे जरातुरसन्न्यासिमृतमानवाः केनापि कारणेन राजवर्त्मनि नोपतिष्ठन्तामिति विघोषयेति । तथानुष्ठिते कुमारः रथमारुह्य सारथिना सह बहिर्निगत्य भ्रमितुमारब्ध- वान् । ततश्चतुर्दिक्षु प्रकृतिभिस्तारस्वरैर्जयोऽस्य प्राघोषि । नगरं वीक्ष्यासौ मनसि परां मुदं प्राप्तवान् । अथ स जरया जर्ज्जरतनुं मानवमेकं दृष्ट- वान् । इतः प्राक् कदाचिदपि स शाक्यसिंहो जगतो दुःखं नानुभूतवान् इदानीं निरीक्ष्य प्रथमं तं जराग्रस्तं विवरणमस्य विज्ञातुं कुतू- हली सारथिं पप्रच्छ । तदुक्तं यथा, —
“किं सारथे ! पुरुष दुर्ब्बल अल्पस्थाम उच्छुष्कमांस रुधिरत्वचस्नायुनद्धः । श्वेतशिरो विरलदन्तकृशाङ्गरूप आलम्ब्य दण्ड व्रजतेऽसुखं स्खलन्त ॥ सारथिराह । एषो हि देव ! पुरुषो जरयाभिभूतः क्षीणेन्द्रियः सुदुःखितो बलवीर्य्यहीनो । बन्धुजनेन परिभूत अनाथभूतः कार्य्यासमर्थ अपविद्ध वनेव दारुः ॥ वोधिसत्त्व आह । कुलधर्म्म एष अयमस्य हितं भणाहि अथवापि सर्व्वजगतोऽस्य ह्यवस्था । शीघ्रं भणाहि वचनं यथभूतमेत- च्छ्रुत्वा तथार्थमिह योनि सञ्चिन्तयिष्ये ॥ सारथिराह । नैतस्य देव ! कुलधर्म्म न राष्ट्रधर्म्मः सर्व्वे जगस्य जरयौवनधर्षयाति । तुभ्यंपि मातृपितृबान्धवज्ञातिसंघो जरया अमुक्तं न हि अन्यगतिर्जनस्य ॥” बोधिसत्त्व आह । धिक् सारथे ! अबुधबालजनस्य बुद्धि- र्यद्यौवनेन मदत्त जरां न पश्यी । आवर्त्तयाश्विह रथं पुनरहं प्रवेक्ष्ये किं मह्य क्रीडरतिभिर्जरयाश्रितस्य ॥” इति ललितविस्तरे १४ अध्याये । अथ शाक्यसिंहः सारथिं सन्दिदेश रथं सञ्चालयेति । गत्वा नगरस्य दक्षिणे द्वारि व्याधिग्रस्तं यातनापरीतपुरुषमेकमीक्षाञ्चक्रे । ततः स सारथिं पप्रच्छ । तदुक्तं यथा, —
“किं सारथे ! पुरुष रूपविवर्णगात्रः सर्व्वेन्द्रियेभि विकलो गुरु प्रश्वसन्तः । सर्व्वाङ्गशुष्क उदराकुल प्राप्तकृच्छ्रा मूत्रे पुरीष स्वकि तिष्ठति कुत्सनीये ॥” सारथिराह । एषो हि देवपुरुषः परमं गिलानो व्याधीभयं उपगतो मरणान्तप्राप्तः । आरोग्यतेजरहितो बलविप्रहीनो अत्राणवीप्रशरणो ह्यपरायणश्च ॥” बोधिसत्त्व आह । “आरोग्यता च भवते यथ स्वप्नक्रीडा व्याधिर्भयञ्च इम ईदृश घोररूपम् । को नाम विजपुरुषो इम दृष्ट्व यस्थां क्रोडारतिञ्च जनयेच्छुभसंज्ञितां वा ॥” अथ खलु भिक्षवो बोधिसत्त्वः प्रतिनिवर्त्त्य रथवरं पुनरपि पुरवरे प्राविशत् । इति हि भिक्षवो बोधिसत्त्वोऽपरेण कालसम- येन पश्चिमेन नगरद्वारेणोद्यानभूमिमभिनि ष्क्रमन्महता व्यूहेन सोऽद्राक्षीत् पुरुषं मृतं कालगतं मार्गे समारोपितं चेलवितानीकृतं ज्ञातिसङ्घपरिवृतं सर्व्वैरुदद्भिः क्रन्दद्भिः परि- देवमानैः प्रकीर्णकेशैः पार्श्वावकीर्णशिरोभि- रुरांसि ताडयद्भिरुत्क्रोशद्भिः पृष्ठतोऽनुग- च्छद्भिः । दृष्ट्वा च पुनर्बोधिसत्त्वो जानन्नेव सारथिमिदमवोचत् । “किं सारथे ! पुरुष मञ्चोपरिगृहीतो उद्वूत केशनख पांशु शिरे क्षिपन्ति । परिचारयित्व विहरन्तुरस्ताडयन्तो नानाविलापवचनानि उदीरयन्तः ॥” सारहिराह । “एषो हि देवपुरुषो मृतु जम्बुद्बीपे न हि भूय मातृपितृ द्रक्ष्यति पुत्त्रदाराम् । अपहाय भोगगृहमातृपितृमित्रज्ञातिसङ्घं परलोक प्राप्तु न हि द्रक्ष्यति भूय ज्ञातिम् ॥” बोधिसत्त्व आह । “धिग्यौवनेन जरया समभिद्रुतेन आरोग्य धिग्विविधव्याधिपराहतेन । धिग्जीवितेन पुरुषो न चिरस्थितेन धिक्पण्डितस्य पुरुषस्य रतिप्रसङ्गैः ॥ यदि जर न भवेया नैव व्याधिर्न मृत्यु- स्तथपि च महदुःखं पञ्चस्कन्धं धरन्तो किं पुन जरव्याधिमृत्यु नित्यानुबद्धाः साधु प्रतिनिवर्त्त्य चिन्तयिष्ये प्रमोचम् ॥ अथ खलु भिक्षवो बोधिसत्त्वः प्रतिनिवर्त्त्य तं रथवरं पुनरपि पुरं प्राविशत् ॥ इति हि भिक्षवो बोधिसत्त्वस्यापरेण कालसमयेनोत्तरेण नगरद्वारेणोद्यानभूमिमभिनिष्क्रामतस्तरेव देव पुत्त्रैर्बोधिसत्त्वस्यानुभावेनैव तस्मिन् मार्गे भिक्षुरभिनिर्म्मितोऽभूत् ॥ अद्राक्षीद्बोधिसत्त्वस्तं भिक्षुं शान्तं दान्तं संयतं ब्रह्मचारिणमनति क्षिप्तचक्षुर्युगमात्रप्रेक्षिणं प्रासादिकेनेर्ष्यापथेन सम्पन्नं प्रासादिकेनाभिक्रमप्रतिक्रमेण सम्पन्नं प्रासादिकेनालोकितव्यवलोकितेन प्रासादिकेन सङ्घाटीपिण्डपात्रचीवरधारणेन मार्गे स्थितम् । दृष्ट्रा च पुनर्बोधिसत्त्वो जानन्नेव सारथिमिद- मवोचत् । “किं सारथे ! पुरुष शान्त प्रशान्तचित्तो नोत्क्षिप्तचक्षु व्रजते युगमात्रदर्शी । काषायवस्त्रवसनो सुप्रशान्तचारी पात्रं गृहीत्व न च उद्धत उन्नतो वा ॥ सारथिराह । एषो हि देवपुरुष इति भिक्षुनामा अपहाय कामरतयः सुविनीतचारी । प्रव्रज्यप्राप्तः सममात्मन एषमाणो संरागद्वेषविगतो तिष्ठति पिण्डचर्य्या ॥ बोधिमत्त्व आह । साधु सुभाषितमिदं मम रोचते च प्रव्रज्य नाम विदुभिः सततं प्रशस्ता । हितमात्मनश्च परमत्त्वहितञ्च यत्र सुखजीवितं सुमधुरममृतं फलञ्च ॥” इति ललितविस्तरे १४ अः । ततः संक्षुब्धचित्तोऽसौ स्वकीयं शुद्धान्तं विवेश । दिवसेऽस्मिन् राहुलनामा पुत्त्रोऽस्य समजनि । राजा शुद्धोदनः स्वाङ्गजस्य भ्रमण- वृत्तान्तं सर्व्वं निशम्यास्य सन्न्यासग्रहणं शङ्क- मानः चतुर्षु नगरद्वारेषु सेनाव्यूहान् सन्निवेश- यति स्म तस्य परिरक्षणार्थम् । रतिरसाभिज्ञान् युवतिजनानन्तःपुरेषु बहु- तरान् प्रेषयामास बोधिसत्त्वस्य प्रमोहनाय । अथागता रजनी, सिद्धार्थस्य तु चित्तं व्याकु- लितमतीव गेहात् प्रव्रज्य भैक्ष्यग्रहणार्थम् । ततो नृत्यादिप्रमोदात् परं निद्रिताः सर्व्वा युवती र्विलोक्य शयनात् शनैः शनैरुत्थितो व्यलोकयत् । “तत्र काश्चिद्व्यपकृष्टवस्त्राः काश्चिद्- विधुतकेश्यः काश्चिद्विकीर्णाभरणाः काश्चिद्- विभ्रष्टमुकुटाः काश्चिद्बिहतैरंशैर्विगोपितगात्र्यः काश्चिद्विसंस्थितमुखाः काश्चिद्बिपरिवर्त्तित- नयनाः काश्चित् प्रस्रवन्त्यो लालाभिः काश्चि- द्धसन्त्यः काश्चित् प्रहसन्त्यः काञ्चित्प्रलपन्त्यः काश्चिद्दन्तान् कटकटायन्त्यः काश्चिद्बिवर्ण- वदनाः काश्चिद्विसंस्थितरूपाः काश्चित् प्रल- म्बितबाहवः काश्चिद्विक्षिप्तवदनाः काश्चिदुद्- घाटितशीर्षाः काश्चिदवगुण्ठितशीर्षाः काश्चि- द्विपरीतवर्त्तितमुखमण्डलाः काश्चित् प्रध्वस्त- शरीराः काश्चिद्बिभग्नगात्र्यः काश्चिन्निकुब्जाः खुरुखुरायमानाः काश्चिन्मृदङ्गमुपगुह्य परि- वर्त्तितशीर्षशरीराः काश्चिद्बीणावल्लक्याद्यपरि- बुद्धपाणयः काश्चिद्वेणुं दन्तैः कटकटायन्त्यः काश्चित् किम्पलनकुलसम्पताडावकर्षितवाद्य- भाण्डाः काश्चिन्निमेषोन्मेषपरिवर्त्तनयनाः काश्चि- द्विवृत्तास्या एवं तद्विकृतं धरणीतलगतमन्तः- पुरं निरीक्षमाणो बोधिसत्त्वः श्मशानसंज्ञा- मुत्पादयति स्म ।” तत्रेदमुच्यते । “तां दृष्ट्व उद्विग्न स लोकनाथः करुणं विनिश्वस्य इदं जगाद । अहो वता कृच्छ्रगता व्रजेयं कथं रतिं बिन्दति राक्षसीगणैः ॥ अतिमोहतमावृते दुर्म्मति- कामगुणैर्निर्गुणसंज्ञिनः । विहगपञ्जरगत्रा यथा नहि लभन्ति कदाचिद् विनिःसृतम् ॥” इति ललितविस्तरे । १५ अध्याये ॥ अतीतेऽथ निशीधे सिद्धार्थाऽश्वपालमाहूयाह “जरामरणपञ्जरनियतसत्त्वपरिमोचनस्य सम- यो ह्युपस्थितो मे ।” अतएव ग्रहीष्यामि सन्न्यासम् । विस्मितोऽश्वपालोऽब्रवीत् राज- पुत्त्रस्य ते सन्न्यासग्रहणमनुचितं न समर्थोऽसि सन्न्यासाश्रमस्य कष्टानि सोढुम् । सिद्धार्थ आह । “विवर्जिताः सर्पशिरा यथा बुधै- र्विगर्हिता मीढघटा यथाशुचिः । विनाशकाः सर्व्वसुखस्य छन्दक ज्ञात्वा हि कामान्न विजायते रतिः ॥” छन्दक शृणु यानि दुःखशतामार्षिता पूर्व्व- जन्मान्तरे । बन्धनारुन्धनास्ताडनास्तर्ज्जनाः कामहेतो- र्मया नो च निर्व्विदभूत् ॥ संस्कृतमानसं प्रमदवसगतञ्च मोहाकुलं दृष्टिजालावृतम् । अन्धभूतं पुरा आत्मसंज्ञा- ग्रहाकारका वेदनावीतिवृत्ता इमे ॥ घर्म्माज्ञानतः सम्भूता चलचपलाऽ- नित्यमेघैः समा विद्युद्भिः सदृशाः । ओसबिन्दूपमा ऋक्ततुच्छा असाराः अनात्मा च शून्यस्वभावा इमे सर्व्वशः ॥ स्वयमहमभिरुह्य नावामिमात्मानाऽवतीर्य्य संसार ओघैरहं तारयिष्येऽनन्तं जगत् । शोकसंसारकान्ताररोषोर्म्मिरागग्रहा- व्याकुले वैराकुले दुस्तरे एव चित्तं मम ॥ तदात्मनोत्तीर्य्य इदं भवार्णवं सर्वैरदृष्टिर्ग्रहक्लेशराक्षसम् । स्वयं तरित्वा च अनन्तरं जगत् स्थलेऽन्तरीक्षे अजरामरे शिवे ॥” ललितविस्तरे १५ अध्याये । अतश्छन्दक ! प्रव्रजाम्यधुनैव सत्वरमानयाश्वम् । तथानुष्ठिते सिद्धार्थोऽसौ स्त्रीतनयगुरुजनान् सर्व्वान् राज्यमैश्वर्य्यञ्च विहायाश्वमारुह्य निर्गतः । निजनगराद्द्वादशयोजनदूरस्थितं मल्लराज्यं प्राप्य तत्रैव वशिष्ठाश्रमसन्निधौ छन्दकमश्वसहितं विसृज्य कौषेयमपहाय पिधाय बल्कलवाससमेकाकी वैशालीं नाम- नगरीमुपतस्थे । तत्र आराढकालामनामा जिनपुरुषस्त्रिशतकशिष्यैरवात्सीत्, सिद्धार्थो- ऽस्य शिष्योऽभूत् । आहैकदा गुरुः, पवित्रचेता ऋजुर्भक्तिमान् पुरुष एवालं ब्रह्मचर्य्यं ग्रहीतुम्, लब्धुञ्च सर्व्वमैश्वर्य्यम् । हृदि यस्य विमलो निर्व्वाणप्रदीपः प्रदीप्तस्तमः स्तोमग्रसनपटुर्भवस्य । न तस्य सुखदमैश्वर्य्यविजृम्भितगुरुवचनम् । ततः सप्तशतीं शिष्यततिन्दधानस्य रुद्रकनाम्नः साधोः समीपं गत्वा कृत्वानेन सम्भाषणं गय- शीर्षं जगाम । तत्रोद्भावितमनेन यद् ब्राह्मणाः श्रमणाश्च बोधस्वरूपं लब्घुमविशुद्धं कायमानसं नियोजयन्ति तदग्निमुत्पादयितुमार्द्रकाष्ठद्बय- घर्षणमिव वैफल्यं भजते । शुष्ककाष्ठखण्डद्वय- घर्षणेन यथा लब्धमनोरथा मानवास्तद्वत् कायमनसोर्विशुद्धयोः सतोः स्वतश्च बोध- लाभः शक्यः । ततःपरमसौ बोधिसत्त्वो गत्या ग्राममुरुविल्वाख्यं विजनं तत्रैवोषितुं मनो दघे । परमयत्नेनात्रैव कायशुद्धिं चित्तशुद्धिञ्च विधाय आस्फालनाख्यं दुर्द्धरं ध्यानं दधार । अत्रासौ कस्मिंश्चिद्दिवसे वदरीमेकिकां कस्मिं- श्चिद्वा तण्डुलमेकं कदाचिद्बैकमात्रं कलायं भक्षयित्वा कस्मिंश्चिदुपोषणेन वा कालं विलङ्घ्य शुष्कच्छविर्मसीवर्णो बभूव । ततोऽसौ देहमित्थं निभज्य लब्धुं सम्बोधं न समर्थोभवेय- मिति विचिन्त्य पोषणकरमाहारं जग्राह । दिवसेऽस्मिन् शुद्धोदनः स्वप्नं ददर्श प्रियः पुत्त्रो मे मणिमुक्तादिविभूषितवारणरूपेण उदुम्बर- तरुमारुरोह । त्रैलोक्यलोकाः पूजनायास्या- गच्छन्तीव, यशोघरापि गोपापरनाम्नी ददर्श स्वप्नं विविधम् स्वयं शाक्यसिंहश्च पञ्च, यथा जगदखिलं शय्या मे, विम्बफलमिव सुमेरु- शिखरमुपधानीभूतं मे, वामदक्षिणकरद्वयं मे प्राच्यपश्चिमसमुद्रोपरि पादावुभौ मे दक्षि- णाब्धौ प्लवन्ते, नाभिकमलान् मे समुत्थितैः स्थिरिकातृणैश्चापूरितमखिलं नभः । ततश्चो- त्थायासौ ऊरुविल्वोषितायाः सुजातानामि- काया नार्य्याः सकाशात् भिक्षां जग्राह । इतः सिद्धार्थो ध्यानं दधार, निर्व्वाणे पथि तस्य सततं परिपन्थी सन्नपि दुर्निवारो मारः परा- जितो ध्यानवीरेण योगिसिंहेन पलायनं चक्रे । ततस्तस्यैव कन्दर्पस्य तनये यतेते तन्द्रा रतिश्च योगिप्रवरस्य मोहनाय, विफलानि तु जाता- न्यनयोर्मनोरथानि । ततः सर्व्वेभ्यः कृच्छ्रेभ्यो विसुक्तः सिद्धार्थो बोधञ्च विमलं लेभे । तदासा- वधिरूढयोगः मनस्यस्य मुकुरे प्रतिफलितं सकारणमखिलं जगत् । ततश्च चिन्तयामास सः जीवानां जन्म, तेषु च जीषस्य संयोगो वियोग- श्चैव दुःखदुःखान्येतानि । न जानीते मानवस्तन् मोहजालेनावृतो दुर्व्विषहं दुःखं सहत इति । ततः कस्मादागतं जरामरणमिति चेतसा कृते प्रश्नेतेनैव निश्चिनोति सः, यज्जन्मन एवागच्छति जरामरणमिति, कुतस्तर्हि ह्यागतं जन्म किमस्य वा कारणम् ? संसारादस्माज्जाति- रतएव भव एव कारणमत्र । भवस्तर्हि कुत आयतः किमस्य वा कारणं ? उपादानादागतो भवस्तदुपादानमेवास्य कारणम् । कस्मादुपा- दानमायातन्तर्हि किमस्य वा कारणं ? तृष्णाया आगतमुपादानमतस्तृष्णैव कारणमस्येति । तर्हि कुत आयाता तृष्णा कारणं वा किमस्याः ? वेदनाया आगता तृष्णा अतो वेदनव कारण- मस्याः । कुत आयाता वेदना, अस्या वा किं कारणम् ? स्पर्शादायाता वेदना, अतः स्पर्श एव कारणं वेदनाया इति । स्पर्शस्तर्हि कुत आयातः किं वा कारणमस्य ? । षडायतना दागतः स्पर्शस्ततोऽस्य कारणं स एवेति । कुत आयातं षडायतनं कारणं वा किमस्य ? नामरूपाभ्यामागतं षडायतनम् अतएवास्य कारणमेव तैति । कुतस्तर्ह्यायाते नामरूपे कारणं वा किमनयोः ? विज्ञानादागते नाम- रूपेऽतोऽनयोः कारणं विज्ञानमिति । कुत आयतं विज्ञानन्तर्हि कारणं वा किमस्य ? संस्कारादागतं विज्ञानमतोऽस्य कारणं स एवेति । संस्कारस्तर्हि कुत आयातः कारणं वा किमस्य ? अविद्याया आगतः संस्कार स्ततोऽस्य कारणमविद्यैवेति । स्फुटमिदानीमविद्यैव कारणं जगतोऽखिलस्य । ततो विलोमेन प्रकटीभूतं यत् अविद्यायाः संस्कारः संस्काराद् विज्ञानम्, विज्ञानान्नाम- रूपे ताभ्यां नामरूपाभ्यां षडायतनम्, षडाय- तनात् स्पर्शः, स्पर्शाद् वेदना, वेदनायास्तृष्णा तृष्णाया उपादानम् उपादानात् संसारः संसाराज्जातिः जातेर्जरामरणमिति । प्रकारेणानेनोत्पन्नो दुःखद्रुमो जीवानाम् । तदिदानीं प्रतिभातं अविद्यैव मूलमस्य पाद- पस्य निरस्तायामविद्यायां कुतो दुःखप्रसङ्गः क्रमेण तस्मात् जन्मजरामरणं दुःखं चिन्ता- क्लेशः पीडा च सर्व्वे दूरे पलायन्ते । एवं जीवानामुदेति चित्ताकाशे धर्म्मालोकः । उदिते तस्मिन् मनःसंयोगेन ज्ञानं दर्शनं विद्या स्मृतिर्बुद्धिश्च सर्व्वं प्रत्यक्षीभवति । तत इदानीं सिद्ध्वार्थो बुद्धः सञ्जातः । ततश्चागतोऽत्र म्बकानगर्य्या राजा बुद्धस्य श्रीपादपद्मसन्दर्शनाय । सोऽस्मै ह्युपदिदेश “अहिंसा परमो धर्म्मः ।” इत्यतस्त्वमनुतिष्ठ तद्धर्म्मं निर्व्वाणमोक्षञ्चान्विष्येति । ततोऽसौ बुद्धो नैरञ्जननाम्नीं नदीं क्षिरिका- वनञ्च त्यक्त्वा उज्ज्वलमुपवनं प्रतस्थे । अत्र स ऊनपञ्चाशद्वासरानुपोषणमङ्गीकृतवान् । तत स्तस्मात् स्थानान्निर्गत्य गयां नाहालं बुन्दद्विरं लोहितवस्तुकं गन्धपुरं सारथिपुरञ्च क्रमेण गत्वा त्यक्त्वा च काशिकामुपतस्थे, अत्रास्य कौण्डिन्यः सिद्धः शिष्योऽभूत् बुद्धस्तं नाम्ना ज्ञानकौण्डिन्यं चकार । कालेऽस्मिन् बहु- संख्यका लोका आगत्यागत्य बुद्धस्य शिष्या अभवन् । ततः काशीघाम्नः स ऊरुविल्वास्थितं सेनानी- नामकं ग्रामं प्रययौ तत्र नैरञ्जनतीरे नाम्ना उरुविल्वाकाश्यपः शताधिकविंशतिवयाः पञ्च- शतशिष्यैरनुगतः प्रतिवसति स्म । लोका जान- न्त्यमुमहन्निति । बुद्धो गत्वास्य समीपं प्रदा- यास्मै ज्ञानोपदेशं विमलं शिष्यं तं चकार । दृष्ट्वा शक्तिमलौलिकीं बहवो लोका विस्मिता धर्म्मं बौद्धं गृहीतवन्तः । तदा विम्बसारो मगधराजः शुश्राव गयशीर्षं बुद्धदेवः प्राप्त इति । गत्वा समीपं प्रपूज्य च परमया भक्त्यास्य शिष्यत्वं स्वीचकार । ततो मागधो स्वीयां नगरीं गन्तुं निमन्त्रयामास तम् । जग्राहास्य प्रणयं बुद्धः । शारीपुत्त्रोऽत्र मौद्गलायनोऽस्य शिष्योऽभवत् । श्रुतवान् कोशलपतिः प्रसेनजित् बुद्धो देवो राजगृहे जेतवने प्रतिषसत्यधुनेति । गत्वा च तत्र त्वरितं बुद्धसन्निधिमुवाच, पूर्णकाश्यपः परिव्राजकगोशालः वैरापुत्त्रसञ्जयः अजितकेशः कम्बल इत्यते अन्ये च बहवो बुद्धर्षयस्तिष्ठन्ति, न ते लोके कदापि बुद्धनाम्ना परिचाययितुं शेकुस्तर्हि भवान् किं न लज्जते अहं बुद्ध इत्यात्मानं परिचाययितुम् । बुद्धस्तम् ‘कुमार- दृष्टान्तसूत्रं, श्रावयामास तेनोन्मीलितचक्षुः शिष्योऽभूत्तस्य ततः प्रसेनजित् कोशलराजः । दीक्षिते राज्ञि कोशलेश्वरे बुद्धः शुद्धोदनाय संवादं प्रेषयामास “राजन् ! पुत्त्रस्ते पपावि- दानीं मृत्युनिवारणममृतम् । तेनैव सोऽखिलस्य जगतस्तृष्णां पापीयसीं वारयामास, शुद्धोदनः शाक्यपतिराकर्ण्य वृत्तान्तं परां मुदमवाप । आनेतुं पुत्त्रं कपिलवस्तुनगर्य्यामस्मै दूतं पुनः पुनः प्रेषितवान् यो यः प्रयाति दूतोऽस्य सकाशं न स पुनः प्रतिनिवृत्तः स्थितोऽस्य दोक्षितस्तत्रैव । शुद्धोदनः साधुं कालुदायीति- नामानं पत्रेण सह प्रेषितवान् । उदायी प्राग्गमनादङ्गीचकार यदि चाहं दीक्षितोऽप्य- भविष्यम् वारमेकमपि प्रतिन्यवर्त्तिष्ये । उदायी बुद्धस्य समीपं गत्वैव दीक्षितः । बुद्धस्तं प्रतिज्ञा- परिपूरणाय शुद्धोदनस्यान्तिकं प्रेषयामास । उदायी गत्वाह राजानं भो भूप ! देवो बुद्धो ऽत्राजिगमिषुर्नत्ववस्थातुमिच्छुर्नगर्य्याम् विहारे- ऽवस्थातुमियेष सः । राजा जेतवनस्थमिव न्यग्रोधारामं कपिलवस्तुनगरे विरचय्यागमन- मस्य प्रतीक्षाञ्चक्रे । तत्रागत्य बुद्ध्वो न्यग्रोधारामे तस्मिन्नुवास । अत्रागत्य पितृव्यौ शुद्धोदनोऽमृ- तोदनश्चास्य लक्षं लक्षं शाक्यसन्ततयश्च शिष्या अभूवन् । तत्रावस्थानसमये बुद्धस्य पालयित्री गौतमी वनिता यशोधरा च भैक्षाश्रमं गृहीत- वत्यौ पुत्त्रोऽपि राहुलोऽजातकनिष्ठो जनकेन दीक्षितः । ततो बुद्धो गृध्रकूटमागत्य वसतिञ्चक्रे । समये- ऽस्मिन् देवदत्तोऽस्य ज्ञातिजः शत्रुः शिल्पिनं दाक्षिणात्यादानिनाय । तेन च निहन्तुं बुद्धं कूटयन्त्रं निरमायि । अनेनाहतो बुद्धो व्यथां प्राप निक्षेपणावसरे यन्त्रस्य तं बुद्धं रिरक्षिषुः कुम्भीरस्तत्प्रहारेण प्राणांस्त्यत्याज । कालेऽस्मिन् विम्बसारे मागधे पञ्चत्वं गते अजातशत्रुर्लुब्धो दुर्द्दान्तो मगधं शशास, देव- दत्तोऽस्य मित्रमासीत् । एकदाजातशत्रुर्बुद्ध- सन्निधावागत्य पप्रच्छ तं “नानाकर्म्मसु व्यासक्तो मनुष्यो धनमभीष्टमुपार्ज्जयितुं यतते, प्राप्य तु वाञ्छितं धनं सुखी च भवति, धर्म्मे तथा तु निधाय मनस्तद्रूपं मुखं प्रत्यक्षमाप्नुयात् किम् ? बुद्धः प्रत्युवाच किं कर्म्मणा यागेन होमेन वा । न्यायान्यायौ विफलौ अधमानामुत्तमानाञ्च तिरस्कारपुरस्कारौ च तद्बन् निष्फलौ । पितरौ नात्मीयौ च योऽस्मिन् जगति प्राप्तवान् महा- सत्यम्, सत्ये पथि प्रविष्टवांश्च जानाति स एव जन्मैव मृत्युरिति । सोऽस्मिन् जन्मन्येवाक्षयो- ऽव्ययो निर्व्वाणं मोक्षं लभते न पुनरायाति सः । पृथिव्यादिभूतचतुष्टयेऽस्य यथाक्रमं भूतान्ये- कीभवन्ति । इत्थमुपदेशेन बुद्धस्य अजातशत्रो- र्मानसं तत् क्षणादेव प्रवणं बभूव । योऽस्य जुगुप्सापात्रमासीत् स इदानीं भक्तिपात्रमस्या- भूत् । अजातशत्रुर्बुद्धाद् दीक्षां जग्राह । गृध्रकूटाद्बुद्धः पाटलीग्राममाजगाम । कपि- लनामात्र साधुर्बाह्मणोऽनेन व्यलोकि । सम्भाष्य तं पथि गच्छन्नसौ चतुर्द्दिशं निरीक्षाञ्चक्रे, आनन्दोऽस्य परिचरो जिज्ञासयामास किमित्थं निरीक्षसे व्यापारयंश्चक्षुषीति । बुद्ध आह आनन्द ! परिहास्येऽहमिमं लोकमिदानीम् । ततः स आम्रग्रामं जम्बुग्रामं भण्डग्रामं हस्ति- ग्रामम् अन्यांश्च वृजिनां मल्लानाञ्च ग्रामा- नतिक्रम्य भोजनगरं प्राप्तः । स्थानादस्माज्ज- लुकाख्यमहावनमागत्यावस्थितः । अत्र कुण्ड- नाम्नो धातुगालकाद् बणिग्विशेषादाहार्य्यं गृहीतवान् । ततोऽसावानन्दं सम्बोघयामास भो नगरीं कुशीं गन्तास्मि । अतःपरं तथागतो नगरीं पावा- मतिक्रम्य नदीं हिरण्वतीं तीर्त्वा निविडं वनमेकं प्राप्तः । अत्रानन्दं प्राह पार्श्वयोरहन्तीव्रवेदनया समाक्रान्तोऽस्मि, अतोऽहमत्रैव तिष्ठामीति । आनन्दो जलमानिनाय प्रक्षाल्य पादौ बुद्धो ध्यानं समाललम्बे । कालेऽस्मिन्नागत्य पुक्कशो मल्लराजः पादौ बुद्धस्य प्रपूजयामास । बुद्धोऽस्य दीक्षां चकार । सोऽस्मै दत्तवान् सौवर्णानल- ङ्कारान् प्रणम्य च प्रस्थितः । गते मल्लराजे आनन्दं प्राह बुद्धः प्रेयान् मे आनन्द ! त्वं परि- धापयालङ्कारान् सौवर्णानङ्गेष्विति । तथानु- ष्ठिते तदानीं देहस्य ज्योतिषास्याखिलं जगद् व्यालोकितमिवासीत् । भक्तिभरेणानन्दः प्राह भगवन् ! न दृष्टं कदापि मयात्रभवतामेतादृश- मौज्ज्वल्यं देहस्य । दयस्व तावत् कथय कारणञ्चात्रेति । चकार प्रत्युत्तरं बुद्धो देवो निबोध आनन्द ! निर्व्वास्यतः प्रदीपस्य शिखे- वाङ्गकान्तिर्मे व्युत्क्रान्तेत्यत्र कारणम् । अनन्तरमुभौ मिलित्वा हिरण्वत्यास्तीरे आज- ग्मतुः । बुद्धस्तत्र स्वीयं समस्तं परिच्छदं परि- हायैकवसनो नद्या हिरण्वत्याः कुश्याश्च नगर्य्या उभययोर्मध्यदेशस्थं वनं विविक्तं विवेश । पथि प्राह चानन्दं क्लान्तस्य मे शय्यां विधत्- स्वेति । आनन्दः शय्यां सज्जीचकार, सुप्तो- त्थितो बुद्ध आनन्दाय भिक्षुकाणां कर्त्तव्यं सूत्रान्तं विनयं मातृकादीनि धर्म्मतत्त्वाम्युप- दिदेश । आनन्दस्तत्सर्व्वं समाहितेन मनसा जग्राह । तत आनन्दमादिदेश सालमहि- रुहयोर्मध्ये शय्यां स्थापय निशीथेऽद्य मे शेषं विजानीहीति । ततो बुद्धस्तत्रैव समाधिमाधाय ह्यपार्थिवं ज्योतिरवलोकयामास ततोऽसौ चिन्तयति स्म निर्व्वाणम् । भक्तः परमानन्दो रुरोद गण्डं संप्लाव्यास्य विगलितश्चाश्रुप्रवाहोऽविरलधारया तमाह बुद्ध आनन्द ! संसारोऽयमसारः सारो निर्व्वाण- मेव तदर्थं यतस्वेति । इत्थं परमकृपालुर्बुद्धदेवो निर्व्वाणं प्राप । इत्थं स हरेरवतारः —
“विकीर्य्य विज्ञानमयीं प्रभां प्रभु- र्जगत्प्रदीपः प्रथितः प्रभाकरः । बुद्धः स राशिर्महसां महोज्ज्वलो ज्वलंश्च निर्व्वाणपदं परं गतः ॥ प्रक्षाल्य त्रैलोक्यमलं मलीमसं प्रवृद्धहिंसारसदूषितं विभुः । प्रबोधधाराधरभूरिवारिभी रराज देवो भुवि बोधभास्करः ॥” कुशीनगरस्थिते मुकुटबन्धनचैत्येऽस्य शिष्याः देहं भस्मीभूतं चक्रुः । शिष्यव्यूहेनास्य पवित्र- देहभस्मावशेषार्थं विवदमानेन निरणा भस्मभिरेभिरष्टप्रदेशेव्वष्टौ चैत्या निर्म्मिता भवन्त्विति ॥)



Correction: