वाचस्पत्यम्
बुधान || पु० वुध—आनच् किच्च । १ आचार्य्ये पुरौ २ विज्ञे मेदि० । ३ कवौ जटा० । ४ ब्रह्मवादिनि ५ प्रियवादिनि त्रि० उणादिकोषः ।
शब्दकल्पद्रुमः
बुधानः || पुं, (बोधयति बुध्यते वा । बुध बोधने + युधिबुधिदृशः किच्च ।” उणा० २ । ९० । इति आनच् किच्च ।)
गुरुः । विज्ञः । इति मेदिनी । ने, २९ ॥ ब्रह्मवादी । प्रियवादी । इत्युणादि- कोषः ॥ कविः । इति जटाधरः ॥