संस्कृत-शब्दकोशः

बुधिल बुध्न्य

बुध्न

वाचस्पत्यम्

बुध्न ||‍ पु० बन्ध—नक् बुधादेशः । १ मूले अमरः २ शिवे गरतः ३ अन्तरीक्षे ऋ० ४ । १९ । ४ भाष्यम् । “पृथुबुध्नोदरा- कृतिः” वेदान्तप० । “अर्वाग्बिधश्चमस ऊर्द्ध्व बुधः” शा० भा० धृता श्रुतिः । निरुक्ते तु बुद्धा अस्मिन् धृता आप इति अन्तरिक्षं बुध्नम्” तस्य निरुक्तिरुक्ता ।


शब्दकल्पद्रुमः

बुध्नः || पुं, (बध्नातीति । बन्धबन्धने “बन्धेर्व्रधिबधी च ।” उणा० ३ । ५ । इति नक् बुधादेशश्च ।)
वृक्षमूलम् । इत्यमरः । २ । ४ । १२ ॥ (मूलदेशः । अग्रभागः । यथा, अथर्व्ववेदे । २ । १४ । ४ । “गृहस्य बुध्न आसीनास्ता इन्द्रो वज्रेणाधि- तिष्ठतु ।”)
शिवः । यथा, —
“निवेश्य बुध्ने चरणं स्मितानना गुरुं समारोढु मथोपचक्रमुः ।” इति हरविलासे राजशेस्वरः । इति भरतः ॥



Correction: