संस्कृत-शब्दकोशः

बुबुर बुभुक्षित

बुभुक्षा

वाचस्पत्यम्

बुभुक्षा ||‍ स्त्री० भुज—सन्—भावे अ । भोजनेच्छायां क्षुधायाम् सा च प्राणधर्मः यथोक्तं शा० ति० “बुभुक्षा च पिपाषा च प्राणस्य” ऊर्मिशब्दे दृश्यम् । अश्चेऽजीर्णे च सा न भवति अथ मवति चेत् अनिष्टदा यथोक्तं सुश्रुते “उद्गा- रशुद्धावपि भक्तकाङ्क्षा न जावते हृद्गुरुता च नस्य” “सल्पं यदा दोषविवृद्धमामं लीनं न तेजः पथ- ग्रावृणोति । भवत्यजीर्णेऽपि तदा पुमुक्षा षा मन्दबुद्धिं विषवन्निहन्ति” । छवादि० शीलार्थे अण् । बौभुक्षतच्छीले त्रि०


शब्दकल्पद्रुमः

बुभुक्षा || स्त्री (भोक्तुमिच्छा । भुज धौ भक्षे + “घातोः कर्म्मणः समानकर्त्तृकादिच्छायां वा ।” ३ । १ । ७ । इति सन् । ततः “अः प्रत्ययात् ।” ३ । ३ । १०२ । इत्यस्ततष्टाप् ।)
क्षुधा । इत्य- मरः । २ । ९ । ५४ ॥ (यथा, रामायणे । २ । २८ । १८ । “अतीववातस्तिमिरं बुभुक्षा चास्ति नित्यशः । भयानि च महान्त्यत्र ततो दुःखतरं वनम् ॥”)



Correction: