वाचस्पत्यम्
बुस is an alternate of बुष. बुष(स) || न० बुस्यते उत्सृज्यते बुस—उत्सर्गे च पृषो० वा षत्वम् । (आगडा) १ तुच्छवान्ये फलरहितधान्ये अमरः । अयं बोपधः २ उदके वेदनिघण्टुः ततः तृणा- चतुरर्थ्यां स । बुसस तत्समीपादौ त्रि०। पृषो० दीर्थः बूसमप्यत्र ।
वाचस्पत्यम्
बुस || उत्सर्गे दि० पर० सक० सेत् । बुस्यति । इरित् अबुसत् अबोसीत् बुबीस
शब्दकल्पद्रुमः
बुसं || क्ली (बुस्यते तुच्छत्वादुत्सृज्यते इति । बुस्य इरुत्सर्गे + “इगुपधज्ञाप्रीकिरः कः ।” ३ । १ । १३५ । इति कः ।)
तुच्छधान्यम् । आगडा इति भाषा । तत्पर्य्यायः । कडङ्गरः २ । इत्य- मरः । २ । ९ । २२ ॥ बुषम् २ । इति भरतः ॥ बूषम् ४ । इति शब्दरत्नावली ॥ (उदकम् । यथा, ऋवेदे । १० । २७ । २४ । “आविः स्वः कुणुतेगृहते बुसम् ॥” “बुसमुदकम् ॥” इति सायनः ॥)
शब्दकल्पद्रुमः
बुस || य इर् हानौ । इति कविकल्पद्रुमः । (दिवा०- पर०-सक०-सेट् ।)
य बुस्यति जलं मेघः त्यज- तीत्यर्थः । इर् अबुसत् अबोसीत् । अस्मात् पुषादित्वान्नित्यं ङ इत्यन्ये । इति दुर्गादासः ॥