वाचस्पत्यम्
बृहस्पतिचक्र || न० वृहस्पतेः सञ्चारकाले नराकारचक्रस्य मूर्द्धादिषु स्वनक्षत्रस्य पातेन शुभाशुभसूचके चक्रभेदे तच्च ज्यो० त० उक्तं यथा “शीर्षे चत्वारि रान्त्यं जलधिरपि करे दक्षिणे चापि सोख्यं चैकं कण्ठे विभूतिं मदन- शरमितं वक्षसि प्रीतिसिद्धिम् । पादस्याः षट् च पीडां पुनरपि जलधिर्वामहस्ते च मृत्युं नेत्रे त्रीणि प्रदद्युः सुखमथ निजभे बाक्पतेः संक्रमर्ध्यात्” ।
शब्दकल्पद्रुमः
बृहस्पतिचक्रं is an alternate of वृहस्पतिचक्रं. वृ(बृ)हस्पतिचक्रं || क्ली (वृहस्पतेः चक्रम् ।)
नृणां शुभाशुभज्ञानार्थं वृहस्पतिसञ्चारकालीन- अश्विन्यादिसप्तविंशतिनक्षत्रयुक्तनराकारचक्रम् । यथा, —
“शीर्षे चत्वारि राज्यं जलधिरपि करे दक्षिणे चापि सौख्यं चैकं कण्ठे विभूतिं मदनशरमितं वक्षसि प्रीतिसंहम् । पादस्थाः षट् च पीडां पुनरपि जलधिर्वामहस्ते च मृत्युं नेत्रे त्रीणि प्रदद्युः सुखमथ निजभे वाक्पतेः संक्रमर्क्षात् ॥” इति ज्योतिस्तत्त्वम् ॥