संस्कृत-शब्दकोशः

ब्रह्मचारणी ब्रह्मचारिन्

ब्रह्मचारिणी

वाचस्पत्यम्

ब्र(व्र)ह्मचारिणी ||‍ स्त्री “वेदेषु चरते यस्मात् तेन सा ब्रह्म- चारिणी” देवीपु० ४५ अ० निरुक्तियुक्तायां वेदमात्रगर्म्यायां चिच्छक्तिरूपायां १ दुर्गायां २ ब्रह्मचर्य्ययुतायां स्त्रियाञ्च “आसीतामरणात् क्षान्ता नियतं ब्र(व्र)ह्मचारिणी” मनुः । ३ वारुणीवृक्षे राजनि० । ४ ब्राह्मीशाके रत्नमाला ।


शब्दकल्पद्रुमः

ब्रह्मचारिणी || स्त्री (ब्रह्मणि वेदे चरतीति । ब्रह्म + चर् + णिनिः । स्त्रियां ङीप् ।)
दुर्गा । यथा, देवीपुराणे ४५ अध्याये । “वेदेषु चरते यस्मात्तेन सा ब्रह्मचारिणी ॥” करुणीवृक्षः । इति राजनिर्घण्टः ॥ ब्रह्मीशाकः । इति रत्रमाला ॥ ब्रह्मचर्य्यव्रतधारिणी । यथा, “आसीतामरणात् क्षान्ता नियता ब्रह्म- चारिणी । यो धर्म्म एकपत्नीनां काङ्क्षन्ती तमनुत्तमम् ॥” इति मनुः । ५ । १५८ ॥



Correction: