संस्कृत-शब्दकोशः

ब्रह्मज्ञ ब्रह्मज्ञानी

ब्रह्मज्ञान

वाचस्पत्यम्

ब्र(व्र)ह्मज्ञान ||‍ न० ब्रह्मणो ज्ञानं तेन सह आत्माभेदज्ञानम् । ब्रह्मविद्यायां तच्च अहं ब्रह्मास्मीत्येवंरूपम् “आत्मानं चेत् विजानीयादयमस्मीति पुरुषः । किमिच्छन् कस्य कामाय किमर्थमनुसंज्वरेत्” श्रुत्या तदभेदज्ञानस्यैव मोक्ष- हेतुत्वमुकं “वेदान्तसाङ्ख्यसिद्धाब्रह्मज्ञानं वदाम्यहम् । अहंब्रह्म परं ज्योतिः विष्णुरित्येव चिन्तयेत् । सूर्य्ये हृद्व्योम्नि वह्नौ च ज्योतिरेकं त्रिधा स्थितम् । यथा सर्पिः शरीरस्थं गवां न कुरुतेबलम् । निर्गतं कर्मसंयुक्तं दत्ते तासां महाबलम् । तथा विष्णुः शररीरस्थो न करोति हितं नृणाम् । विनाऽऽराधनया देवः सर्वपः परमेश्वरः । आरुरुक्षुयतीनाञ्च कर्मज्ञानमुदाहृतम् । आरूडयोगवृक्षाणां ज्ञानं योगः परं मतम्” गरुड्पु० २४० अ० । न्यायादिमते तच्चारोपज्ञानं वेदान्तिमते प्रमारूपम् । तत्त्वमसि अहंब्रह्मास्मीत्यादोवाक्यजन्यमपि तज्ज्ञानं मनननिदिध्यासनादिना पश्चात् प्रत्यक्षसुत्पद्यते । तज्ज्ञानाभिलापादिकं विवेकचू० दर्शितं यथा “अव्यक्तादिस्थूलपर्य्यन्तमेतदुमेतदुविश्वं यत्राभाममात्रं प्रती- तम् । व्योमप्रख्यं सूक्षममाद्यन्तहीनं ब्रहावैतं यत्तदेवाह- मस्नि । सर्वाधारं सर्ववस्तुप्रकाशं सर्वाकारं सर्वगं सर्वम्शून्यम् । नित्यं शुद्धं निश्चलं निर्विकल्पं ब्रह्माद्वैतं यत् तदेवाहसस्मि । यस्मिन्नस्ताशेषमायाविशेषं प्रत्यग्- रूपं प्रत्ययागम्यमानम् । सत्यज्ञानानन्दमानन्दरूपं ब्रह्माद्वैतं यत् तदेवाहमस्मि । निष्क्रियोऽस्म्यविकारो- ऽस्मि निष्कलोऽस्मि निराकृतिः । निर्विकल्पोऽस्मि नित्योऽस्मि निरालम्बोऽस्मि निर्द्वयः । सर्वात्मकोऽहं सर्वोऽह सर्यातीतोऽहमद्वयः । केवलाखण्डवोधोऽहमा- नन्दोऽहं निरन्तरम्” ।


शब्दकल्पद्रुमः

ब्रह्मज्ञानं || क्ली (ब्रह्मणि ब्रह्मविषये यज्ज्ञानम् ।)
ब्रह्मविषयकज्ञानम् । इति समञ्जसावृत्तिः ॥ * ॥
तत्त्वमस्यादिवाक्यजन्यप्रतिफलितवृत्त्यारूढ- ज्ञानम् । इति वेदान्तलघुचन्द्रिका ॥ “मिथ्या- वासनाविरहविशिष्टमात्मभिन्नभिन्नज्ञानम् ॥ इतिमुक्तिवादः ॥ * ॥
“क्लेशकर्म्मविपाकाशय- निवर्त्तकहिरण्यगर्भविषयकं ज्ञानम् ।” इति वैजयन्तीधृतपातञ्जलमतम् ॥ * ॥
“प्रकृतिपुरु- षयोर्विवेकविषयज्ञानम् ।” इति तत्रैव सांख्य मतम् ॥ तथा च । सूत उवाच । “वेदान्तसांख्यसिद्धान्तब्रह्मज्ञानं वदाम्यहम् ॥ अहं ब्रह्म परं ज्योतिर्विष्णुरित्येव चिन्तयन् । सूर्य्ये हृद्व्योम्नि वह्रौ च ज्योतिरेकं त्रिधा स्थितम् ॥ यथा सर्पिः शरीरस्थं गवां न कुरुते बलम् । निर्गतं कर्म्मसंयुक्तं दत्तं तासां महाबलम् ॥ तथा विष्णुः शरीरस्थो न करोति हितं नृणाम् । विनाराधनया देवः सर्व्वगः परमेश्वरः ॥ आरुरुक्षुमतीनान्तु कर्म्मज्ञानमुदाहृतम् । आरूढयोगवृक्षाणां ज्ञानं त्यागः परं मतम् ॥ ज्ञातुमिच्छति शब्दादीन् रागद्वेषोऽथ जायते । लोभो मोहः क्रोध एतैर्युक्तः पापं नरश्चरेत् ॥ हस्तावुपस्थमुदरं वाक् चतुर्थी चतुष्टयम् । एतत् सुसंयतं यस्य स विप्रः कथ्यते बुधैः ॥ परवित्तं न गृह्णाति हिंसां न कुरुते तथा । नाक्षक्रीडारतो यस्तु तस्य हस्तौ सुसंयतौ ॥ परस्त्रीवर्जनपरस्तस्योपस्थं सुसंयतम् । अलोलुपो मितं भुङ्क्ते जठरं तस्य संयतम् ॥ सत्यं हितं मितं ब्रूते यः सदा तस्य वाग् यता । यस्य संयतान्येतानि तस्य किं तपसाध्वरैः ॥ ऐक्यं यद्बुद्धिमनसोरिन्द्रियाणाञ्च सर्व्वदा । विश्वेश्वरे परे देवे ध्यानमेतत् प्रकीर्त्तितम् ॥ भ्रुवोर्मध्ये स्थितां बुद्धिं विषयेषु युनक्ति यः । जीवो जाग्रदवस्थायामेवमाहुर्विपश्चितः ॥ इन्द्रियाणामुपरमे मनसि ह्यव्यवस्थिते । स्वप्नान् पश्यत्यसौ जीवो वाह्यानाभ्यन्तरानथ ॥ हृदि स्थितः स तमसा मोहितो न स्मरत्यपि । यदा कस्य कुतो वेत्ति सुसुप्तिरिति कथ्यते ॥ जाग्रतो यस्य नो तन्द्रीर्न मोहो न भ्रमस्तथा । उत्पद्यते न जानाति शब्दादिविषयान् वशी ॥ इन्द्रियाणि समाहृत्य विषयेभ्यो मनस्तथा । बुद्ध्याहङ्कारमपि च प्रकृत्या बुद्धिमेव च ॥ संयम्य प्रकृतिञ्चापि चिच्छक्त्या केवले स्थितः । पश्यत्यात्मनि चात्मानमात्मनात्मप्रकाशकम् ॥ चिद्रूपममृतं शुद्धं निष्क्रियं व्यापकं शिवम् । तुरीयायामवस्थायामास्थितोऽसौ न संशयः ॥ शब्दादयो गुणाः पञ्च सत्त्वाद्यास्तु गुणास्त्रयः । पुर्य्यष्टकस्य पद्मस्य पत्राण्यष्टौ च तानि हि ॥ साम्यावस्था गुणकृता प्रकृतिस्तत्र कर्णिका । कर्णिकायां स्थितो जीवो देहे चिद्रूप एव हि ॥ पुर्य्यष्टकं परित्यज्य प्रकृतिञ्च गुणात्मिकाम् । यदा याति तदा जीवो याति मुक्तिं न संशयः । शरीरेण चतुर्भागः कर्म्म बुद्धीन्द्रियाणि च । त्रिपञ्चकं विनश्येत याति पुर्य्यष्टकं सदा । सन्धार्य्यञ्चैव जीवेन योगसेवी हि मुक्तिभाक् ॥ प्राणायामो जपश्चैव प्रत्याहारोऽथ धारणा । ध्यानं समाधिरित्येते षड्योगस्य प्रसाधकाः ॥ पापक्षयो देवतानां प्रीतिरिन्द्रियसंयमः । मनसः स्थिरता तेभ्यस्तत्त्वालोकश्च सर्व्वदा ॥ गायत्त्र्या प्रणवेनाथ मात्रया प्राणसंयमः । जपध्यानयुतो गर्भस्तेन हीनस्त्वगर्भकः ॥ षट्त्रिंशन्मात्रिकः श्रेष्ठश्चतुर्विंशतिमात्रिकः । मध्या द्वादशमात्रास्तु ॐकारं सततं जपेत् ॥ श्रुत्वा यथास्वरं सम्यक् शब्दं गौर्याति संमुखी । प्रणवे च कृते तद्वत् परं ब्रह्म न संशयः ॥ चारके प्रणवे जप्ते परं ब्रह्म प्रसीदति । अष्टाक्षरश्च जप्तव्यो गायत्त्री द्वादशाक्षरा ॥ सर्व्वेषामिन्द्रियाणान्तु प्रवृत्तिर्विषयेषु या । निवृत्तिर्मनसा तस्यां प्रत्याहारः प्रकीर्त्तितः ॥ इन्द्रियाणीन्द्रियार्थेभ्य समाहृत्य स्थितो हि सः । मनसा सह बुद्ध्या च प्रत्याहारेषु संस्थितः ॥ प्राणायामैर्द्वादशभिर्यावत् कालकृतो भवेत् । यस्तावत् कालपर्य्यन्तं मनो ब्रह्मणि धारयेत् ॥ तस्यैव ब्रह्मणा प्रोक्तं ध्यानं द्वादश धारणाः । तुष्टे तु नियतो युक्तः समाधिः सोऽभिधीयते ॥ ध्यायन्न चलते यस्य मनोऽभिध्यायते भृशम् । प्राप्यावधिकृतं कालं यावत् सा धारणा स्थिता । ध्येये सक्तं मनो यस्य ध्येयमेवानुपश्यति । नान्यं पदार्थं जानाति ध्यानमेतत् प्रकीर्त्तितम् ॥ ध्येये मनो निश्चलतां याति ध्येयं विचिन्तयन् । यत्तत् ध्यानं परं प्रोक्तं मुनिभिर्ध्यानचिन्तकैः ॥ ध्येयमेव हि सर्व्वत्र ध्येयस्तल्लयतां गतः । पश्यति द्वैतरहितं समाधिः सोऽभिधीयते ॥ मनः संकल्परहितमिन्द्रियार्थांस्तु चिन्तयन् । यस्य ब्रह्मणि संलीनं समाधिस्थः स कीत्तितः ॥ ध्यायतः परमात्मानमात्मस्थं यस्य योगिनः । मनस्तल्लयतां याति समाधिस्थः स कीर्त्तितः ॥ चित्रस्यास्थिरता भ्रान्तिदौर्मनस्यं प्रमादता । योगिनां कथिता दोषा योगविघ्नप्रवर्त्तकाः ॥ स्थित्यर्थं मनसः सर्व्वं स्थूलरूपं विचिन्तयेत् । तद्ब्रतं निश्चलीभूतं सूर्य्यस्थं स्थिरतां व्रजेत् ॥ न विना परमात्मानं किञ्चिज्जगति विद्यते । विश्वरूपं तमेवेह इति ज्ञात्वा न मुह्यति ॥ ॐ कारं परमं ब्रह्म ध्यायेदब्जस्थितं विभुम् । क्षेत्रक्षेत्रज्ञरहितं जपेन्मात्रार्थयान्वितम् ॥ हृदि सञ्चिन्तयेत् पूर्ब्बं प्रधानं तस्य चोपरि । तमो रजस्तथा सत्त्वं मण्डलत्रितयं क्रमात् ॥ कृष्णरक्तसितं तस्मिन् पुरुषं जीवसंज्ञितम् । तस्योपरि गुणैश्वर्य्यमष्टपत्रं सरोरुहम् ॥ ज्ञानन्तु कर्णिका तत्र विज्ञानं केशरं स्मृतम् । वैराग्यं नालं तत्कन्दो वैष्णवो धर्म्म उत्तमः ॥ कर्णिकायां स्थितं चक्रं जीववन्निश्चलं विभुम् । ध्यायेदुरसि संयुक्तमोङ्कारं मुक्तिसाधकम् ॥ व्यक्ताव्यक्ते च षुरुषस्तिस्रो मात्राः प्रकीर्त्तिताः । अर्द्धमात्रा परं ब्रह्म ज्ञेयोऽध्यात्मविदुत्तमैः ॥ ध्यायन् यदि त्यजेत् प्राणान् याति ब्रह्मण्य- सैनिकम् । हरिं संस्थाप्य देहेऽब्जे ध्यायन् योगी च मुक्तिभाक् ॥ आत्मानमात्मना केचित् पश्यन्ति ध्यानचक्षुषः । सांख्यबुद्ध्या तथैवान्ये योगेनान्ये तु योगिनः ॥ ब्रह्मप्रकाशकं ज्ञानं भवबन्धविभेदकम् । तत्रैकचित्ततायोगो मुक्तिदो नात्र संशयः ॥ जितेन्द्रियान्तःकरणो ज्ञानतृप्तो हि यो भवेत् । स मुक्तः कथ्यते योगी परमात्मन्यवस्थितः ॥ आसनस्थानविधयो न योगस्य प्रसाधकाः । विलम्बजनकाः सर्व्वे विस्ताराः परिकीर्त्तिताः ॥ शिशुपालः सिद्धिमागात् स्मरणाभ्यासमौरवात् । आश्रमाः सर्व्व एवेह पूर्ब्बरात्रे परे तथा ॥ योगाभ्यासं प्रकुर्व्वन्तः पश्यन्त्यात्मानमात्मना । सर्व्वभूतेषु कारुण्यं विद्बेषं विषयेषु च ॥ गुप्तशिश्नोदरादिञ्च कुर्व्वन् योगी विमुच्यते । इन्द्रियैरिन्द्रियार्थांस्तु न जानाति नरो यदा ॥ काष्ठवत् ब्रह्मसंलीनो योगयुक्तस्तदा भवेत् ॥ सर्व्वे वर्णाः स्त्रियः सर्व्वाः कृत्वा पापानि भस्मसात् । ध्यानाग्निनामलाः सन्तो लभन्ते परमां गतिम् । मथनात् दृश्यते ह्मग्निस्तद्बत् ध्यानेन वै हरिः ॥ ब्रह्मात्त्मनोर्यदेकत्वं स योगश्चोत्तमोत्तमः ॥ वाह्यैरुपायैर्मुक्तिर्न नान्तःस्थैः स्याद्यमादिभिः । सांख्यज्ञानेन योगेन वेदान्तश्रवणेन च । प्रत्यक्षतात्मनो या हि सा मुक्तिरभिधीयते ॥ अनात्मन्यात्मरूपत्वमसतः सत्स्वरूपता । दुःखाभावे तथा सौख्यं माया विद्याविना- शिनी ॥” इति गारुडे ब्रह्मज्ञाने २४० अध्यायः ॥



Correction: