वाचस्पत्यम्
ब्र(व्र)ह्मदर्भा || स्त्री ब्रह्मणो दर्भो ग्रन्थतमस्याः । यमानिकायाम् अमरः ।
शब्दकल्पद्रुमः
ब्रह्मदर्भा || स्त्री (ब्रह्मणे हितो दर्भो यस्याः ।)
यमानिका । इत्यमरः । २ । ४ । १४५ ॥ (यथास्याः पर्य्यायः । “यमानिकोग्रगन्धा च ब्रह्मदर्भाजमोदिका । सैवोक्ता दीप्यका दीप्या तथा स्याद्यवसा- ह्वया ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)