वाचस्पत्यम्
ब्र(व्र)ह्मनाल || न० ब्रह्मणो नालमिव । काश्यां मणिकर्णिका समीपस्थे तीर्थभेदे । “पितामहेश्वरं लिङ्गं ब्रह्मनालो- परि स्थितम् । पूजयित्वा नरो भक्त्या ब्रह्मलोक- मवाप्नुयात् । ब्रह्मम्रोतःसमीपे तु कृतं करम शुभा- शुमम् । परामक्षयतामेति शुभमेव ततश्चरेत् । अनल्प- मपि यत् कर्म कृतमत्र शुभाशुभम् । प्रलयेऽपि न तस्यास्ति प्रलयो मुनिसत्तम! । नाभीतीर्थमिदं प्रोक्तं नाभीभूतं यतः क्षितेः । अपि ब्रह्माण्डगोलस्य नाभि रेषा शुभोदया । सा माणिकर्णिकेयीयं नाभिगाम्भीर्य्य- भूमिका । ब्रह्माण्डगोलकं सर्वं यस्यामेति लये लयम् । ब्रह्मनालं परं तीर्थं त्रिषु लोकेषु विश्रुतम् । तत्सङ्गमे नरः स्नातः कोटिजन्ममलं हरेत् । ब्रह्मनाले पतेदुयेषा- मपि कीकसमात्रकम् । ब्रह्माण्डमण्डपान्तस्ते न विशन्ति- कदाचन” काशीख० ६१ अ० ।
शब्दकल्पद्रुमः
ब्रह्मनालं || क्ली (ब्रह्मणो ब्रह्मलोकप्राप्तेर्नालमिव ।)
काश्यां चक्रतीर्थस्य पूर्ब्बभागे पितामहेश्वर- लिङ्गस्याधस्तीर्थविशेषः यथा, —
“पितामहेश्वरं लिङ्गं ब्रह्मनालोपरिस्थितम् । पूजयित्वा नरो भक्त्या ब्रह्मलोकमवाप्नुयात् ॥ ब्रह्मस्रोतःसमीपे तु कृतं कर्म्म शुभाशुभम् । परामक्षयतामेति शुभमेव ततश्चरेत् ॥ अनल्पमपि यत् कर्म्म कृतमत्र शुभाशुभम् । प्रलयेऽपि न तस्यास्ति प्रलयो मुनिसत्तम ! ॥ नाभितीर्थमिदं प्रीक्तं नाभीभूतं यतः क्षितेः । अपि ब्रह्माण्डगोलस्य नाभिरेषा शुभोदया ॥ सा माणिकर्णिकेकीयं नाभिगाम्भीर्य्यभूमिका । ब्रह्माण्डगोलकं सर्व्वं यस्यामेति लयोदयम् ॥ ब्रह्मनालं परं तीर्थं त्रिषु लोकेषु विश्रुतम् । तत्सङ्गमे नरः स्नातः कोटिजन्ममलं हरेत् ॥ ब्रह्मनाले पतेद्येषामपि कीकसमात्रकम् ॥ ब्राह्मण्डमण्डपान्तस्ते न विशन्ति कदाचन ॥” इति स्कन्दपुराणे काशीखण्डे बिन्दुमाधवाग्नि- बिन्दुसंवादे वैष्णवतीर्थभाहात्म्यं नाम ६१ अः ॥