वाचस्पत्यम्
ब्र(व्र)ह्मबन्धु || पु० ब्रह्मा विप्रो बन्धुरुत्पादको यस्य ब्रह्मणो विप्रस्य बन्धरिव वा । १ विप्राचाररहिते निन्द्यकर्मकारिणि जात्या विप्रे २ विप्रतुल्ये भट्टादौ च । “अस्मत्कुलीनो- ऽननूच्य ब्रह्मबन्धुरिव भवति” छा० उ० । “हे सौम्या- ऽननूच्यानधीत्य ब्रह्मवन्धिर्व भवतीति ब्राह्मणान् बन्धून् व्यपदिशति न स्वयं ब्राह्मणवृत्तः” इति भा० । विप्र- वंश्यापकृष्टब्राह्मणस्यापि दैहिकदण्डनिषेधो यथा “वपनं द्रविणादानं स्थानान्निर्वासनन्तथा । एष हि ब्रह्मबन्धूनां बधो नान्योऽस्ति दैहिकः” भाग० १ स्क०
शब्दकल्पद्रुमः
ब्रह्मबन्धुः || पुं, (ब्रह्मणो बन्धुरिव ।)
अधिक्षेपः । निन्दितब्राह्मणः । निर्द्देशः । अग्राह्यनामक- ब्राह्मणः । इत्यमरः । ३ । ३ । १०३ ॥ तथा हि । अधिक्षेपे निन्दायां गम्ये अधिक्षेप्यो ब्रह्मबन्धुः । यथा ब्रह्मबन्धो ! किमेतत्ते इति । अधिक्षिप्यते- ऽसौ अधिक्षेपोऽधिक्षेप्यः कर्म्मणि घञ् वा । ब्रह्मैव बन्धुरस्य नान्यः । ब्रह्मकर्म्माभावात् निन्दा अधिक्षेपे समासोऽभिधानात् । ब्रह्मबन्धुः निर्द्देशे यस्य द्वेषान्नाम न गृह्यते स ब्रह्मबन्धुरितिनिर्द्दि- श्यते इत्यर्थः । स्त्रियां (“ऊङुतः ।” ४ । १ । ६६ । इति ऊङ् ।)
ब्रह्मबन्धूः । ब्रह्मबन्धुर्ब्राह्मणजाति- विशेषे च । ब्राह्मणजातिविशेषे निर्द्देशे ब्रह्म- बन्धुरधिक्षेपे इति वोपालितः । इति भरतः ॥ * ॥
(यथा, मार्कण्डेये । ७५ । ६० । “ब्रह्मबन्धोः सुता न त्वं बाले ! नैव तपस्विनः । सुता त्वं मम यो देवान् कर्त्तुमन्यान् समुत्- सहे ॥”)
तस्य दैहिकवधनिषेधो । यथा, भागवते १ स्कन्धे । “वपनं द्रविणादानं स्थानान्निर्यापणन्तथा । एष हि ब्रह्मबन्धूनां वधो नान्योऽस्ति दैहिकः ॥”