वाचस्पत्यम्
ब्र(व्र)ह्मभूय || न० भू—भावे ख्यप् ६ त० । ब्रह्मभावे शुद्धचैतन्य- स्वरूपप्राप्तौ अमरः ।
शब्दकल्पद्रुमः
ब्रह्मभूयं || क्ली (ब्रह्मणो भावः । ब्रह्म + भू + “भुवो भावे ।” ३ । १ । १०७ । इति क्यप् ।)
ब्रह्मत्वम् । इत्यमरः । २ । ७ । ५२ ॥ (यथा मनुः । १२ । १०२ । “वेदशास्त्रार्थतत्त्वज्ञो यत्र तत्राश्रमे वसन् । इहैव लोके तिष्ठन् स ब्रह्मभूयाय कल्पते ॥” “अस्मिन्नेव लोके तिष्ठन् ब्रह्मभूयाय ब्रह्मत्वाय कल्पते ।” इति तट्टीकायां कुल्लूकभट्टः ॥ मोक्षः । यथा गीतायाम् । १४ । २६ । “माञ्च योऽव्यभिचारेण भक्तियोगेन सेवते । सगुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते ॥” “ब्रह्मभूयाय बृह्मभावाय मोक्षायकल्पते समर्थो भवति ।” इति तट्टीकायां स्वामी ॥)