संस्कृत-शब्दकोशः

ब्रह्मयोनी ब्रह्मराक्षस

ब्रह्मरन्ध्र

वाचस्पत्यम्

ब्र(व्र)ह्मरन्ध्र ||‍ न० उत्तमाङ्गस्य रन्ध्रभेदे । “तयोर्द्धमायन्नमृत- तमेति” श्रुत्या तद्रब्ध्रेण प्राणोत्क्रमणे ब्रह्मलोकप्राप्ते- रुक्तत्वात् तथात्वम् ।


शब्दकल्पद्रुमः

ब्रह्मरन्ध्रं || क्ली (ब्रह्मणः परमात्मनः अधिष्ठानाय- रन्ध्रं आकाशः यद्वा, ब्रह्मणे ब्रह्मप्राप्तये रन्ध्रम् । एतद्रन्ध्रेण प्राणोत्क्रमणे ब्रह्मलोकप्राप्तेरस्य तथात्वम् ।)
उत्तमाङ्गम् । ब्रह्मतालु इति भाषा । यथा । अं नमः ब्रह्मरन्ध्रे । इति तन्त्रसारः ॥ अपि च । ब्रह्मरन्ध्रसरसीरुहोदरे इत्यादि गुरुपादुकास्तोत्रम् ॥ (यथा च हठयोग- प्रदीपिकायाम् । ४ । १६ । “ज्ञात्वा सुषुम्नासद्भेदं कृत्वा वायुञ्च मध्यगम् । स्थित्वा सदैव सुस्थाने ब्रह्मरन्ध्रेनिरोधयेत् ॥”)



Correction: