वाचस्पत्यम्
ब्र(व्र)ह्मरात्र || पु० रात्रेरयम् अण् ६ त० ब्रह्मस्वामिके रात्रि शेषमाशे मुहूर्त्ते “उपावृत्ते ब्रह्मरात्रे” भा० १० । ३३ । ३९ । व्याख्यायां श्रीधरः ।
शब्दकल्पद्रुमः
ब्रह्मरात्रः || पुं, (रात्रेरयं रात्रः । ब्रह्मणो रात्रः ।)
ब्राह्ममुहूर्त्तः । इति श्रीधरस्वामी ॥ यथा, —
“ब्रह्मरात्र उपावृत्ते वासुदेवानुमोदिताः । अनिच्छन्त्यो ययुर्गोप्यः स्वगृहान् भगवत्प्रियाः ॥” इति श्रीभागवते । १० । ३३ । ४९ ॥