वाचस्पत्यम्
ब्र(व्र)ह्मवृत्ति || स्त्री ६ त० । १ ब्राह्मणस्य जीवनोपाये “स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेत्तु यः । षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः” भाग० । २ ब्रह्माकारान्तःकरण- वृत्तौ च ।
शब्दकल्पद्रुमः
ब्रह्मवृत्तिः || स्त्री (ब्रह्मणो ब्राह्मणस्य वृत्तिर्जीव- नोपायः ।)
ब्राह्मणस्य जीवनोपायः । यथा, —
“स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेत्तु यः । षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः ॥” इति श्रीभागवतम् ॥