वाचस्पत्यम्
ब्रह्मवैवर्त्त || न० अष्टादशसहापुराणमध्ये अष्टादशसहस्रसंख्यके १ महापुराणभेदे तत्प्रतिवाद्यविषयादिकं वृहन्नारदीये ४ पादे १०१ अ० उक्तं यथा “ब्रह्मा उवाच । शृणु वत्स! प्रवक्ष्यामि पुराणं दशमं तव । ब्रह्मवैवर्त्तकं नाम वेदमार्गानुदर्शकम् । सावर्णिर्यत्र भगवान् साक्षाद्देवर्षयेऽर्थितः । नारदाय पुराणार्थं प्राह सर्वमलौकिकम् । धर्मार्थकाममोक्षाणां सारः प्रीतिर्हरौ हरे । तयोरभेदसिद्ध्यर्थं ब्रह्मवैवर्त्त- मुत्तमम् । रथन्तरस्य कल्पस्य वृत्तान्तं यन्मयोदितम् । शतकोटिपुराणं तत् संक्षिप्य प्राह वेदवित् । व्यासश्चतुर्द्धा संव्यस्य ब्रह्मवैवर्त्तसज्ञितम् । अष्टादशसहस्रन्तत् पुराणं परिकोर्त्तितम् । ब्रह्म १ प्रकृति २ विघ्नेश ३ कृष्णखण्ड ४ समा- चितम् । तत्र सुतर्षिसंवादः पुराणोपक्तमो मतः” । तत्र प्रथमे ब्रह्मखण्डे । “सृष्टिप्रकरणं त्वाद्यं ततो नारद- बेधसो । विवादः सुमहान् यत्र द्वयोरासीत् पराभवः । शिवलोकगतिः पश्चाज्ज्ञानसाभः शिवान्मुनेः । शिव- वाक्येन तत् पश्चात् मरीचेर्नारदस्य । तु मननञ्चैव सावर्णिर्ज्ञानार्थं सिद्धसेविते । आश्रमे सुमहापुण्ये त्रैलोक्याश्चर्य्यकार्तिणि । एतद्धि ब्रह्मखण्डं हि श्रुतं पाप- विनाशनम्” । द्वितीये प्रकृतिखण्डे “ततः सावर्णि- सवादा नारदस्य समीरितः । कृष्णमाहात्म्यसंयुक्तो नानाख्यानकथोत्तरः । प्रकृतरशभूतानां कलानाञ्चा पि वर्णितम् । माहात्म्यं, पूजनाद्यञ्च विस्तरेण यथास्थि- तम् । एतत् प्रकृतिखण्डं हि श्रुतं भूतिविधायकम् । तृतीये गणेशखण्डे । “गणेशजन्मसंप्रश्नः सपुण्यक- महाव्रतम् । पार्वत्याः कार्त्तिकेयेन सह विघ्नेशसम्भवः । चरितं कार्त्तवीर्य्यस्य जामदग्नस्य चाद्भुतम् । विवादः सुमहान् पश्चाज्जामदग्न्यगणेशयोः । एतद्विघ्नेशखण्डं हि सर्वविघ्नविनाशनम्” चतुर्थे श्रीकृष्णजन्मखण्डे “श्रीकृष्णजन्मसम्प्रश्नो जन्माख्यानं ततोऽद्भुतम् । गोकुले गमनं पश्चात् पूतनादिबधोऽद्भुतः । बाल्यकौमारजा लीला विविधास्तत्र वर्णिताः । रासक्रीडा च गोपीभिः शारदी समुदाहृता । रहस्ये राधया क्रीडा वर्णिता बहुविस्तरा । सहाक्रूरेण तत्पश्चान्मथुरागमनं हरेः । कसादीनां बधे वृत्ते सदस्यद्विजसंस्कृतिः । काश्य सान्दीपनेः पश्चाव्विद्योपादानमद्भुतम् । यवनस्य बधः पश्चाद्द्वारकागमनं हरेः । नरकादिबधस्तत्र कृष्णेन विहितोऽद्भुतः । कृष्णखण्डमिदं विप्र! नृणां संसार- श्चण्डनम्” तत्फलश्रुतिः “पठितञ्च श्रुतं ध्यातं पूजितं चाभिवर्णितम् । इत्येतद्व्रह्मवैवर्त्तं पुराणं चात्य- लौकिकम् । व्यासोक्तं चादिसम्भूतं पठन् शृण्वन् विमुच्यते । विज्ञानज्ञानशमनात् घोरात् संसारसाग रात् । लिस्वित्वेदञ्च यो दद्यान्माघ्यां धेनुसमा- चितम् । व्रह्मलोकमवाप्नोति स मुक्तोऽज्ञानबन्धनात् । यश्चानुक्रमणीं वापि पठेद् वा शृणुयादपि । सोऽपि कृष्णप्रसादेन लभते वाञ्छितं फलम्” । विवर्त्त उपादान विषमसत्ताकं कार्य्यं स्वार्थे अण् ६ त० । २ व्रह्मणोऽतुल्य- सत्ताके कार्य्ये च ।
शब्दकल्पद्रुमः
ब्रह्मवैवर्त्तं || क्ली (विवृतिरेव वैवर्त्तम् । स्वार्थे अण् । ब्रह्मणो वैवर्त्तं विशेषेण विवृतिर्यत्र ।)
यथा च ब्रह्मवैवर्त्ते ब्रह्मखण्डे । १ । ५८ । “विवृतं ब्रह्म कार्त् सेन कृष्णेण यत्र शौनक ! । ब्रह्मवैवर्त्तकं तेन प्रवदन्ति पुराविदः ॥”)
अष्टादशमहापुराणान्तर्गतदशमपुराणम् । यथा, “अष्टादशसहस्रञ्च ब्रह्मवैवर्त्तमीप्सितम् । सर्व्वेषाञ्च पुराणानां सारमेव विदुर्बुधाः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १३२ अः ॥