संस्कृत-शब्दकोशः

ब्रह्मसू ब्रह्मसूनु

ब्रह्मसूत्र

वाचस्पत्यम्

ब्र(व्र)ह्मसूत्र ||‍ न० ब्रह्मणि वेदग्रहणकाले उचितं सूत्रम् । १ यज्ञोपवीते त्रिका० । २ ब्रह्मप्रतिपादके शारीरकसूत्रे च । “ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितम्” गीता ।


शब्दकल्पद्रुमः

ब्रह्मसूत्रं || क्ली (ब्रह्मणि वेदग्रहणकाले उपनयन- समये इत्यर्थः धृतं यत् सूत्रम् ।)
यज्ञसूत्रम् । तत्पर्य्यायः । पवित्रम् २ यज्ञोपवीतम् ३ द्बिजा- यनी ४ । इति त्रिकाण्डशेषः ॥ उपवीतम् ५ सावित्रम् ६ सावित्रीसूत्रम् ७ । इति शब्द- रत्नावली ॥ (यथा भागवते । ८ । १८ । १४ । “तस्योपनीयमानस्य सावित्रीं सविताब्रवीत् । बृहस्पति र्ब्रह्मसूत्रं मेखलां कश्यपोऽददात् ॥” तटस्थलक्षणपरं उपनिषद्वाक्यम् । ब्रह्मनिर्णय- सूत्रम् । यथा गीतायाम् । १३ । ४ । “ऋषिभिर्बहुधागीतं छन्दोभिर्विविधैः पृथक् । ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥” अस्य व्याख्याने श्रीधरस्वामिना यदुक्तं तदुच्यते । “ऋषिभिर्वशिष्ठादिभिर्योगशास्त्रेषु ध्यानधार- णादिविषयत्वेन वैराग्यादिस्वरूपेण बहुधा गीतं निरूपितम् । विविधैर्विचित्रैर्नित्यनैमित्तिक- काम्यकर्म्मादिविषयैञ्छन्दोभिर्वेदैर्नानापूजनीय- देवतारूपेण गीतं ब्रह्मणः सूत्रैः पदैश्च ब्रह्म सूत्र्यते सूच्यते एभिरिति ब्रह्मसूत्राणि यतो वा इमानि भूतानि जायन्त इत्यादीनि तटस्थलक्षणपराणि सत्यं ज्ञानमनन्तं ब्रह्मे- त्यादीनि तैश्च बहुधा गीतम् । किञ्च हेतु- मद्भिः सदेव सौन्येदमग्र आसीत् कथमसतः सदजायत इति । को ह्येवान्यात् कः प्राण्यात् यदेष आकाश आनन्दो न स्यात् एष ह्येवानन्द- यातीत्यादि युक्तिमद्भिः । अन्यात् अपानचेष्टां कः कुर्य्यात् प्राण्यात् प्राणव्यापारं वा कः कुर्य्यादिति श्रुतिपदयोरर्थः । विनिश्चितैरुप- क्रमोपसंहारैकवाक्यतया असन्धिग्धार्थप्रति- पादकैरित्यर्थः । तदेवमेतैर्विस्तरेणोक्तं दुःसं- ग्रहं संक्षेपतस्तुभ्यं कथयिष्यामि तत् शृण्वि- त्यर्थः । यद्वा “अथातो ब्रह्मजिज्ञासा” इत्या- दीनि ब्रह्मसूत्राणि गृह्यन्ते तान्येव ब्रह्म पद्यते निश्चीयते एभिरिति पदानि तैर्हेतुमद्भिरीक्ष- तेर्ना शब्दं आनन्दमयोऽभ्यासादित्यादि युक्ति- मद्भिर्विनिश्चितार्थैः ॥)



Correction: