संस्कृत-शब्दकोशः

ब्रह्मस्व ब्रह्महत्यासम

ब्रह्महत्या

वाचस्पत्यम्

ब्र(व्र)ह्महत्या ||‍ स्त्री० हन—क्यप् ६ त० । विप्रहनने । तस्य म- हापातकत्वमुक्तं मनुना “ब्रह्महत्या सुरापानं स्तेयं गुर्व- ङ्गनागमः । महान्ति पातकान्येव संसर्गश्चापि तैः सह” तदधिष्ठातृस्वरूपमुक्तं ब्रह्मवै० पु० जन्म० ४७ अ० यथा “रक्तवस्त्रपरीधाना वृद्धा स्त्रीवेशधारिणी । सप्तताल- प्रमाणा सा शुष्ककण्ठौष्ठतालुका । ईशाप्रमाणदशना महाभीतञ्च कातरम् । धावन्तं परिधावन्ती बलिष्ठाहत- चेतनम् । खङ्गहस्ता हतास्त्रं तं दयाहीना च मूर्च्छि- तम् । इन्द्रो दृष्ट्वा च तां घोरां स्मारं स्मारं गुरोः पदम् । विवेश मानससरो मृणालसूक्ष्मसूत्रतः । तत्र गन्तुं न शक्ता सा ब्रह्मणः शापकारणात्” । वृत्रा सुरवधनिमित्तकब्रह्महत्यापनोदनार्थं शक्रेणाश्वमेधे- कृते तस्या विभज्य स्थानविशेषे संक्रामणकथा भा० उ० उ० १२ अ० यथा “तत्राश्वमेधः सुमहान् महेन्द्रस्य महात्मनः । ववृते पावनार्थं वै ब्रह्महत्यापहो नृप! । विभज्य ब्रह्महत्यां तु वृक्षेषु च नदीषु च । पर्वतेषु पृथिव्याञ्च स्त्रीषु चैव युधिष्ठिरः!” आतिदेशिकब्रह्महत्याः कतिचित् ब्रह्मवै० प्रकृ० २७ अ० उक्ता यथा “श्रीकृष्णे च तदर्च्चायां तन्मय्यां प्रकृतौ तथा । शिवे च शिवलिङ्गे वा सूर्य्ये सूर्य्यतनौ तथा । गणेशे वा तदर्च्चायामेवं सर्वत्र सुन्दरि! । यः करोति भेदबुद्धिं ब्रह्महत्यां लभेत् तु सः । स्वगुरौ स्वेष्टदेवेषु जन्मदा- तरि मातरि । करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत् तु सः । वैष्णवेष्वन्यभक्तेषु, ब्राह्मणेष्वितरेषु च । करोति स- मतां यो हि ब्रह्महत्यां लभेत् तु सः । हरेः पादो- देकेष्वन्यदेवपादोदके तथा । करोति समतां यो हि ब्रह्महत्यां लभेत् तु सः । विमूढो विष्णुनैवेद्ये चान्य- नैवेद्यके तथा । करोति समतां यो हि ब्रह्महत्यां लभेत् तु सः । सर्वेश्वरेश्वरे कृष्णे सर्वकारणकारणे । सर्वाद्ये सर्वदेवानां सेव्ये सर्वात्मनात्मनि । मायया मेकरूपे वाप्येकत्रैव हि निर्गुणे । करोत्यनेन समतां ब्रह्महत्यां लभेत् तु सः । पितृदेवार्च्चनं पौर्वापरं वेदविनिर्मितम् । यः करोति तन्निषेधं ब्रह्महत्यां स विन्दति । ये निन्दन्ति हृषीकेशं तन्मन्त्रोपासकं तथा । पवित्राणां पवित्रञ्च ब्रह्महत्यां लभन्ति ते । ये निन्दन्ति विष्णुमायां विष्णुभक्तिप्रदां सतीम् । सर्वशक्तिस्वरूपाञ्च प्रकृतिं सर्वमातरम् । सर्वदेवस्वरूपाञ्च सर्वाद्यां सर्व- वन्दिताम् । सर्वकारणरूपाञ्च ब्रह्महत्यां लभन्ति ते । कृष्णजन्माष्टमीं रामनवमीं पुण्यदां पराम् । शिव- रात्रिं तथा चैकादशीं वारं रवेस्तथा । पञ्च पर्वाणि पुण्यानि ये न कुर्वन्ति मानवाः । लभन्ते ब्रह्महत्यां ते चाण्डालाधिकपापिनः । अम्बुवाच्यां भूखननं जले शौचादिकञ्च ये । कुर्वन्ति भारते वर्षे ब्रह्महत्यां लभन्ति ते । गुरुञ्च मातरं तातं साध्वीं भार्य्यां सुतं सुताम् । अनाथां यो न पुष्णाति ब्रह्महत्यां लभेत् तु सः । विवाहो यस्य न भवेत् न पश्यति सुतन्तु यः । हरिभक्तिविहीनो यो ब्रह्महत्यां लभेत् तु सः । हरेर- नैवेद्यभोजी नित्यं विष्णुं न पूजयेत् । पुण्यं पार्थिव- लिङ्गं वा ब्रह्महत्यां लभेत् तु सः” । आतिदेशिक्या- स्तस्या विनाशनं हरिस्मरणगङ्गास्नानादि ।


शब्दकल्पद्रुमः

ब्रह्महत्या || स्त्री ब्रह्मणो हननम् ॥ (हनस्त च । ३ । १ । १०८ । इति भावे क्यप् तकारोऽन्तादे- शश्च । स्त्रीत्वं लोकात् ।)
ब्राह्मणवधः । यथा, “एकदा च गुरोः कोपात् प्रकृतेरवहेलनात् । ब्रह्महत्या वज्रभृतो बभूव हतचेतसः ॥” तस्या रूपं यथा, —
“रक्तवस्त्रपरीधाना वृद्धा स्त्रीवेशधारिणी । सप्ततालप्रमाणा सा शुष्ककण्ठौष्ठतालुका ॥ ईशाप्रमाणदशना महाभीतञ्च कातरम् । धावन्तं परिधावन्ती बलिष्ठा हतचेतनम् ॥ खड्गहस्ता हतास्त्रं तं दयाहीना च मूर्च्छि- तम् ॥ इन्द्रो दृष्ट्वा च तां घोरां स्मारं स्मारं गुरोः पदम् ॥ विवेश मानससरो मृणालसूक्ष्मसूत्रतः । तत्र गन्तुं न शक्ता सा ब्रह्मणः शापकारणात् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे । ४७ अः ॥ आतिदेशिकब्रह्महत्या यथा, — यम उवाच । “श्रीकृष्णे च तदर्च्चायां मृण्मव्यां प्रकृतौ यथा । शिवे च शिवलिङ्गे वा सूर्य्ये सूर्य्यमणौ यथा ॥ गणेशे वा तदर्च्चायामेवं सर्व्वत्र सुन्दरि ! । यः करोति भेदबुद्धिं ब्रह्महत्यां लभेत्तु सः ॥ स्वगुरौ स्वेष्टदेवेषु जन्मदातरि मातरि । करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत्तु सः ॥ वैष्णवेष्वन्यभक्तेषु ब्राह्मणेष्वितरेषु च । करोति समतां यो हि ब्रह्महत्यां लभेत्तु सः ॥ हरेः पादोदकेष्वन्यदेवपादोदके तथा । करोति समता यो हि ब्रह्महत्यां लभेत्तु सः ॥ यो मूढो विष्णुनैवेद्ये चान्यनैवेद्यके तथा । करोति समतां यो हि ब्रह्महत्यां लभेत्तु सः ॥ सर्व्वेश्वरेश्वरे कृष्णे सर्व्वकारणकारणे । सर्व्वाद्ये सर्व्वदेवानां सेव्ये सर्व्वात्मनात्मनि ॥ माययानेकरूपे वाप्येक एव हि निर्गुणे । करोत्यन्येन समतां ब्रह्महत्यां लभेत्तु सः ॥ पितृदेवार्च्चनं पौर्व्वापरं वेदविनिर्म्मितम् । यः करोति निषेधञ्च ब्रह्महत्यां स बिन्दति ॥ ये निन्दन्ति हृषीकेशं तन्मन्त्रोपासकं तथा । पवित्राणां पवित्रञ्च ब्रह्महत्यां लभन्ति ते ॥ ये निन्दन्ति विष्णुमायां विष्णुभक्तिप्रदां सतीम् । सर्व्वशक्तिस्वरूपाञ्च प्रकृतिं सर्व्वमातरम् ॥ सर्व्वदेवीस्वरूपाञ्च सर्व्वाद्यां सर्व्ववन्दिताम् । सर्व्वकारणरूपाञ्च ब्रह्महत्यां लभन्ति ते ॥ कृष्णजन्माष्टमीं रामनवमीं पुण्यदां पराम् । शिवरात्त्रिन्तथा चैकादशीं वारं रवेस्तथा ॥ पञ्च पर्व्वाणि पुण्यानि ये न कुर्व्वन्ति मानवाः । लभन्ते ब्रह्महत्यां ते चाण्डालाधिकपापिनः ॥ अन्बुवाच्यां भूखननं जले शौचादिकञ्च ये । कुर्व्वन्ति भारते वर्षे ब्रह्महत्यां लभन्ति ते ॥ गुरुञ्च मातरं तातं साध्वीं भार्य्यां सुतं सुताम् । अनाथां यो न पुष्णाति ब्रह्महत्यां लभेत्तु सः ॥ विवाहो यस्य न भवेत् न पश्यति सुतन्तु यः । हरिभक्तिविहीनो यो ब्रह्महत्यां लभेत्तु सः ॥ हरेरनैवेद्यभोजी नित्यं विष्णुं न पूजयेत् । पुण्यं पार्थिवलिङ्गं वा ब्रह्महत्यां लभेत्तु सः ॥ अवीरान्नञ्च यो भुङ्क्ते योनिजीवी च ब्राह्मणः । यस्त्रिसन्ध्याविहीनश्च ब्रह्महत्यां लभेत् तु सः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे । ३० । १४४-१५९ ॥ तथा च मनुः । ११ । ५४-५५ । “ब्रह्महत्या मुरापानं स्तेयं गुर्व्वङ्गनागमः । महान्ति पातकान्याहुः संसर्गश्चापि तैः सह ॥ अनृतञ्च समुत्कर्षे राजगामि च पैशुनम् । गुरोश्चालीकनिर्व्वन्धः समानि ब्रह्महत्यया ॥” तथा च चिन्तामणिधृतदेवीभागवतवचनम् । “निद्राभङ्गः कथाच्छेदो दम्पत्योः प्रीतिभेदनम् । शिशुमातृविभेदश्च ब्रह्महत्या समं स्मृतम् ॥”)
ब्रह्महत्याप्रायश्चित्तं प्रायश्चित्तशब्दे महापातक- प्रायश्चित्तव्यवस्थायामादौ द्रष्टव्यम् ॥



Correction: