संस्कृत-शब्दकोशः

ब्रह्मिष्ठा ब्रह्मीघृत

ब्रह्मी

वाचस्पत्यम्

ब्र(व्र)ह्मी ||‍ स्त्री ब्रह्मणे हिता मेधाजनकतया अण् टिलोपः बा० न वृद्धिः ङीप् । (वामनहाटि) स्वनामख्याते लताभेदे त्रिका० ।


शब्दकल्पद्रुमः

ब्रह्मी || स्त्री (मेधाजनकत्वात् ब्रह्मणे हिता । ब्रह्म + अण् । बाहुलकात् न वृद्धिः । ततो ङीप् ।)
पङ्कगडकमत्स्यः । इति त्रिकाण्ड- शेषः ॥ पाँकाल इति भाषा । फञ्जिकावृक्षः । शाकभेदः । ब्रमी इति भाषा । इति मेदिनी । मे, १९ ॥ ब्रह्मीशाकस्य पर्य्यायः । मत्स्याक्षी २ सुरसा ३ वयस्था ४ ब्रह्मचारिणी ५ । इति रत्नमाला ॥ (यथा, भैषज्यरत्नावल्यां कुष्ठरोग चिकित्सायाम् । “तैलतुल्यं प्रदातव्यं स्वरसञ्च पृथक् पृथक् । महाकालवचाब्रह्मी तुम्ब्यग्निगृहपुत्रिका ॥”)
अस्या गुणाः । भेदकत्वम् । स्वरकारित्वम् । पित्तकफनाशित्वञ्च । इति राजवल्लभः ॥ अस्याः पर्य्यायान्तरं गुणाश्च ब्राह्मीशब्दे द्रष्टव्याः ॥



Correction: