वाचस्पत्यम्
ब्रा(व्रा)ह्मणायन || पुंस्त्री० ब्राह्मणापत्यं नडा० फक् । विप्र- गोत्रापत्ये शुद्धवंशजाते विप्रे त्रिका० ।
शब्दकल्पद्रुमः
ब्राह्मणायनः || पुं, (ब्राह्मणस्यापत्यम् । “नडादिभ्यः फक् ।” ४ । १ । ९९ । इति फक् ।)
शुद्ध- सन्तानजो विप्रः । इति त्रिकाण्डशेषः ॥