वाचस्पत्यम्
भक्तकार || त्रि० भक्तं करोति कृ—अण् उप० स० । पाचके सूपकारे हेमच० ।
शब्दकल्पद्रुमः
भक्तकारः || त्रि (भक्तमन्नं करोतीति । कृ + “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।)
पाचकः । भक्तमन्नं करोति पचति यः । तत्पर्य्यायः । सूदः २ औदनिकः ३ गुणः ४ भक्ष्यंकारः ५ सूपकारः ६ सूपः ७ आरालिकः ८ वल्लवः ९ । इति हेमचन्द्रः ॥