वाचस्पत्यम्
भक्ष्यकार is an alternate of भक्षकार. भक्ष(क्ष्य)कार || पु० भ(क्ष)क्ष्यं वा करोति कृ—अण् । भक्ष्य- पिष्टकादिविक्रयोपजीविनि आपूपिके भरतः ।
शब्दकल्पद्रुमः
भक्ष्यकारः || त्रि (भक्ष्यं भक्ष्यद्रव्यं करोतीति । कृ + “कर्म्मण्यण् ।” ३ । २ । १ । इति अण् ।)
पिष्टकविक्रयजीवी । पिष्टकशिल्पी । इतिभरतः ॥ तत्पर्य्यायः । आपूपिकः २ कान्दविकः ३ । इत्यमरः । २ । ९ । २८ ॥ पूपिकः ४ पूपविक्रयी ४ मोदकादिविक्रयी ६ । इति शब्दरत्नावली ॥