संस्कृत-शब्दकोशः

भगाधान भगालिन्

भगाल

वाचस्पत्यम्

भगाल ||‍ न० भज—कालन् न्यङ्क्वा० कुत्वम् । १ नरमस्तके २ नरक- पाले उज्ज्वलः । ततः अस्त्यर्थे इनि । भगालिन् कपालधारके शिवे त्रिका० भगालशब्दे परे द्विगौ पूर्व- पदप्रकृतिस्वरः पञ्चभगालः । द्विगुभिन्ने तत्पुरुषे प्रकृति- स्वरस्तेन अन्तोदात्ततास्य ।


शब्दकल्पद्रुमः

भगालं || क्ली (भजति मुखदुःखादिकं कर्म्मजन्यमने- नेति भज्यते अनेनेति वा । भज + “पीयु- क्वणिभ्यां कालनिति ।” उणा० ३ । ७६ । बाहुलकाद् भजेरपीति उज्ज्वलदत्तः इति कालन् । नङ्क्वादित्वात् कुत्वञ्च ।)
नृकरोटिः । यथा । भगालं नरमस्तकम् । इति कश्चित् जटाधरः ॥ भगस्य महादेवस्य अलं भूषणमितिव्युत्पत्तिः ॥



Correction: