संस्कृत-शब्दकोशः

भङ्गाकट भङ्गारी

भङ्गान

वाचस्पत्यम्

भङ्गान ||‍ पुंस्त्री भङ्गेन तरङ्गेण अनिति अन—अच् । (भा- ङ्गन) मत्स्यभेदे शब्दमा० स्त्रियां जातित्वात् ङीष् ।


शब्दकल्पद्रुमः

भङ्गानः || पुं, (भङ्गेन अनिति इति । अन् + अच् ।)
मत्स्यविशेषः । भाङ्गन इति भाषा । तत्- पर्य्यायः । दीर्घजङ्गलः २ । इति शब्दमाला ॥



Correction: