संस्कृत-शब्दकोशः

भङ्गुरा भचक्र

भङ्ग्य

वाचस्पत्यम्

भङ्ग्य ||‍ न० भङ्गानां भवनं क्षेत्रं तमर्हति बा यत् । भङ्गाभवनयोग्ये क्षेत्रे २ भङ्गार्हे त्रि० ।


शब्दकल्पद्रुमः

भङ्ग्यं || क्ली (भङ्गाया भवनं क्षेत्रमिति । भङ्ग + “विमाषा तिलमाषोमाभङ्गाणुभ्यः ।” ५ । २ । ४ । इति पक्षे यत् ।)
भङ्गाक्षेत्रम् । तत्पर्य्यायः । भाङ्गीनम् २ । इत्यमरभरतौ ॥ (भङ्गमर्हतीति । भङ्ग + दण्डादित्वाद् यत् । भङ्गार्हे त्रि ॥)



Correction: