वाचस्पत्यम्
भण्डीर || पु० भण्डि वा० ईर । १ समष्ठिलक्षुपे २ तण्डुलीयशाके ३ शिरीषवृक्षे च राजनि० हरिवं० ६५ अ० । तद्वनवर्णनम्
शब्दकल्पद्रुमः
भण्डीरः || पुं, (भण्डि + बाहुलकात् ईरन् ।)
समष्ठिलक्षुपः । तण्डुलीयशाकः । (यथा, —
“तण्डुलीयो मेघनादः काण्डेरस्तण्डुलेरकः । भण्डीरस्तण्डुली बीजो विषघ्नश्चाल्पमारिषः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
शिरीषवृक्षः । इति राजनिर्घण्टः ॥ (वटवृक्षः । यथा, रामायणे । ३ । ७५ । २४ । “मालतीकुन्दगुल्मैश्च भण्डीरैर्निचुलैस्तथा । अशोकैः सप्तपर्णैश्च केतकैरतिमुक्तकेः ॥” “भण्डीरो वटः ।” इति तट्टीकायां रामानुजः ।)