वाचस्पत्यम्
भद्रकुम्भ || पु० भद्रकारकः कुम्भः शा० त० । पूर्णकुम्भे जलपूर्णघटे अमरः ।
शब्दकल्पद्रुमः
भद्रकुम्भः || पुं, (भद्रस्य भद्राय वा कुम्भोऽथवा भद्रः कुम्भः ।) पूर्णकुम्भः । इत्यमरः । २ । ८ । ३२ ॥