वाचस्पत्यम्
भद्रतुरग || न० भद्रास्तुरगा यत्र । जम्बुद्वीपस्य नववर्षमध्ये वषभेदे । “माल्यवज्जलधिमध्यवर्त्तियत्तत्त भद्रतुरग जगुबुधाः” सि० शि० जम्बुद्वीपशब्दे भद्राश्वशब्दे च विवरणं दृश्यम् ।
शब्दकल्पद्रुमः
भद्रतुरगं || क्ली (भद्रा तुरगा अत्र ।)
जम्बू- द्बीपस्य नववर्षान्तर्गतवर्षविशेषः । यथा, —
“माल्यवज्जलधिमध्यवर्त्ति यत्तत्तु भद्रतुरगं जगुर्बुधाः ।” इति सिद्धान्तशिरोमणौ गोलाध्यायः ॥