वाचस्पत्यम्
भद्रनिधि || पु० दानार्थकल्पिते ताम्रादिघटितघटे तद्दानविधिश्च हेमा० दा० वामनपु० उक्तो यथा “पुण्यान्तिथिं प्राप्य तु पौर्णमास्यां तथोपरागे शशि- सूर्य्ययोर्वा । चतुर्युगादिष्वयनद्वये वा प्रबोधने प्रस्व- पनेऽथ तिष्णोः । कुर्य्यादथौदुम्बरमेव कुम्भं हिरण्य- भारेण यथात्मशक्त्या । तथाविधानञ्च सुराजतं स्या- द्धिरण्यभारेण तु पूरयेत् तम् । तदर्द्धतोऽर्द्धेन तद- र्द्धती वा स्वशक्तितः स्वर्णपलैः शतेन । तदर्द्धमर्द्धेन तु वित्तशक्त्या पलत्रयादूर्द्धमपि प्रकुर्य्यात् । तत्ताम्र- भाण्डे कनकं निधाय सवज्रनीलोत्पलपद्मरागम् । समु- क्तवैद्रूर्य्यसविद्रुमञ्च तद्राजतं पात्रमधोमुखं स्यात् । एवन्तु तं भद्रनिधिं सुविद्वान् कृत्वासने प्रावरणोप- युक्ते । कुशोत्तरे दर्पणचामराणे सपादुकोपानहछत्र- युक्तम् । सत्क्षौमवस्त्रोत्तमयुग्मयुक्तं संपूजयेन्मन्त्रवरै- रथैतैः” “आदौ तु पञ्चामृतकेन विष्णुं संस्नाप्य संसा- रहरं समर्च्य । तथेश्वरं पावकमेव हुत्वा आमन्त्र- येद्भद्रनिधिं ततस्तम् । श्रीखण्डकर्पूरसकुङ्मुमेन पञ्चा- क्षरं नाम श्रियः प्रलिख्य । नमस्तथोङ्कारयुतं च पात्रे तद्राजतेऽप्येवमथार्चयेत । त्वया समस्तामर- सिद्धयक्षविद्याधरेन्द्रोरगकिंनरेन्द्रैः । गन्धर्वविद्याधर- दानवेन्द्रैर्युतं धृतं विश्वमिदं नमस्ते । समस्तससार- करी त्वमेव विभोः सदानन्दमयी च माया । समस्त- कल्याणनिधिः समाधिः । हरिप्रिये! भद्रनिधिर्नमस्ते । एवं पूज्य विधानेन ततो विप्रमथार्चयेत् । किरीटा- ङ्गदनिष्काग्र्यकुण्डलाङ्गुलिभूषणैः । अलङ्कृत्य हरिं तद्वत् पीताम्बरधरं ततः । पूजयेदच्युतं ध्यात्वा मन्त्रेणा- नेन भक्तिमान् । भूदेवोऽसीत्यतो नित्यं नित्यानन्दमयो हरे! । हर मे दुष्कृतं कृष्ण! कृपाकर! नमस्त ते । भूदेव! भगवद्धर्म! भवभङ्गकरेश्वर! । भवभूतिकरोजिष्णो! प्रमविष्णुर्नमोऽस्तु ते । एवं पूज्य हृदि ध्यात्वा तं द्विजं विष्णु—रूपिणम् । ततो भद्रनिधिं दद्यान्मन्त्रेणानेन मानवः । स्वगोत्रोच्चारणेनादौ वपुर्नाम तथात्मनः । यवदर्भतिलै सार्द्धमुदकं संपरित्यजेत् । पितृसन्तार- णार्थाय नित्यानन्दविवृद्धये । सर्वाघौघविनाशाय विष्णो- र्दानं मया कृतम् । तदनेन सरत्नेन धातुत्रययुतेन प । सक्षौमाम्बरयुक्तेन सादर्शपादुकेन च । आसनेन सच्छत्रेण चामरोपानहेन च । सदानन्दविधानेन प्रीयतां विष्णुरीश्वरः । एवमुच्चार्य्य तन्दद्याद् द्विजाय हरि- रूपिणे । गोप्येन विधिना दद्याद्धेमसंख्यां न कीर्त्त- येत् । अकीर्त्तिते कोटिगुणायुतं फलं प्रगोपिते कल्प- गुणैर्न संशयः । इतीदमन्यस्य न कीर्त्तयेत् सुधीः निधानमध्ये निहितञ्च यद्वसु । एवंकृते स्यान्मनुजः कृतात्मा तपेन्नवा स्यान्मरणं कदाचित् । प्रयाति विष्णोः पदमव्ययं तत् शिवात्मकानन्दमयं स्वसंस्थम्” ।
शब्दकल्पद्रुमः
भद्रनिधिः || स्त्री (भद्रा निधयोऽत्र ।)
महादान- विशेषः । यथा, — इन्द्र उवाच । “विधानं ब्रूहि मे ब्रह्मन् ! दानस्यास्य महानिधेः । यथा देव ! विशेषेण विष्णोरानन्दकारकम् ॥” ब्रह्मोवाच । “पुण्यां तिथिं प्राप्य तु पौर्णमास्यां तथोपरागे शशिसूरयोर्वा । चतुर्युगादिष्वयनद्बये वा प्रबोधने प्रस्वपनेऽथ विष्णोः ॥ कुर्य्यादथौडुम्बरमेव कुम्भं हिरण्यमानेन यथात्मशक्त्या । तथा पिधानञ्च सुराजतं स्याद्- हिरण्यभारेण तु पूरयेत्तत् ॥ तदर्द्धतोऽर्द्धेन तदर्द्धतो वा स्वशक्तितः स्वर्णपलैः शतेन । तदर्द्धमध्येन तु वित्तशक्त्या पलत्रयादूनमथो न कुर्य्यात् ॥ तत्ताम्रभाण्डे कनकं निधेयं सवज्रनीलोत्तमपद्मरागम् । सुमुक्तवैदूर्य्यसविद्रुमञ्च तद्राजतं पात्रमधोमुखं स्यात् ॥ एवन्तु तं भद्रनिधिं सुविद्वान् कृत्वासने प्रावरणोपयुक्ते । कुशोत्तरे दर्पणचामराढ्यं सपादुकोपानहच्छत्रयुक्तम् । तं क्षौमवस्त्रोत्तमयुग्मयुक्तं सम्पूजयेन्मन्त्रवरैरथैतम् ॥ आदौ तु पञ्चामृतमाप्य विष्णुं संस्नाप्य संसारतरं समर्च्च्य । तथेश्वरं पावकमेव हुत्वा आमन्त्रयेद्भद्रनिधिं ततस्तम् ॥ श्रीखण्डकर्पूरसकुङ्कुमेन पञ्चाक्षरं नाम श्रियः प्रलिख्य । नमस्तथोङ्कारयुतञ्च पात्रे तद्राजतेऽप्येवमथार्च्चयेत्ताम् ॥ त्वया समस्तामरसिद्धयक्ष- विद्याधरेन्द्रोरगकिन्नरेन्द्रैः । गन्धर्व्वदिव्याप्सरदानवेन्द्रै- र्युतं वृतं विश्वमिदं नमस्ते ॥ समस्तसंसारकरी त्वमेव विभोः सदानन्दमयी च माया । समस्तकल्याणनिधिः समाधि- र्हरिप्रिये ! भद्रनिधे ! नमस्ते ॥ एवं संपूज्य विधिना ततो विप्रमथार्च्चयेत् । किरीटाङ्गदनिष्काग्य्रकुण्डलाङ्गुलिभूषणैः ॥ अलंकृत्य हरिं यद्वत् पीताम्बरधरं ततः । पूजयेदच्युतं ध्यात्वा मन्त्रेणानेन भक्तिमान् ॥ भूदेवोऽसि विभो ! नित्यं नित्यानन्द मयो हरे ! । हर मे दुष्करं कृष्ण ! कृपाकर ! नमोऽस्तु ते ॥ भूदेव ! भगवान् भर्ग भवभङ्गकरेश्वर ! । भवभूतिकरो जिष्णो ! प्रभविष्णो नमोऽस्तु ते ॥ एवं पूज्य हृदि ध्यात्वा तं द्विजं ब्रह्मरूपिणम् । ततो भद्रनिधिं दद्यान्मन्त्रेणानेन वासव ! ॥ स्वगोत्रोच्चारणेनादौ विप्रनाम तथात्मनः । यवदर्भतिलैः सार्द्धमुदकं संपरित्यजेत् ॥ पितृसन्तारणार्थाय नित्यानन्दविवृद्धये । सर्व्वाघौघविघाताय विष्णोर्दानं मया कृतम् ॥ तदनेन सरत्नेन धातुत्रययुतेन च । सक्षौमाम्बरयुक्तेन सादर्शपादुकेन च ॥ सासनेन सच्छत्रेण चामरोपानहेन च । सदानन्दनिधानेन प्रीयतां विष्णुरीश्वरः ॥ एवमुच्चार्य्य तं दद्याद्द्विजाय हरिरूपिणे । गोप्येन विधिना दद्याद्धेमसंख्यां न कीर्त्तयेत् ॥ प्रकीर्त्तिते कोटियुगायुतं फलं प्रगोपिते कल्पगणैर्न संक्षयः । इतीयमज्ञो न तु कीर्त्तयेत् सुधी- र्निधानमध्ये निहितञ्च यद्बसु ॥ एवं कृते स्यान्मनुजः कृतात्मा तपेन्न च स्वामरणं कदाचित् । प्रयाति विष्णोः पदमव्ययं तत् शिवात्मकानन्दमयं सदाख्यम् ॥” इत्याद्ये वह्रिपुराणे भद्रनिघिदाननामाध्यायः ॥