संस्कृत-शब्दकोशः

भद्रवट भद्रवत्

भद्रवती

वाचस्पत्यम्

भद्रवती ||‍ स्त्री भद्राणि पर्णानि सन्त्यस्या मतुप् मस्य वः ङीप् । १ गाम्भार्य्याम् । नाग्नजितीजातायां भरत- कन्यायां स्त्री हरिवं० १६१ अ० ।


शब्दकल्पद्रुमः

भद्रवती || स्त्री (भद्रं विद्यतेऽस्याम् । भद्र + मतुप् । मस्य वः । ङीप् ।)
भद्रपर्णी । इति जटाधरः ॥ (कट्फलः । अस्य पर्य्यायो यथा, —
“कट्फलः सोमबल्कश्च कैटर्य्यः कुम्भिकापि च । श्रीपर्णी काकुमुदिका भद्रा भद्रवतीति च ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ कल्याणविशिष्टे, त्रि । यथा, महाभारते । ४ । २४ । १८ । “इमाञ्च नः प्रियां वीर ! वाचं भद्रवतीं शृणु ॥” श्रीकृष्णस्य नाग्नजितीगर्भजाता कन्या । यथा, हरिवंशे । १६० । १०-११ । “मित्रबाहुः सुनीथश्च नाग्नजित्याः प्रजाः शृणु । भद्रकालो भद्रबिन्दः कन्या भद्रवती तथा ॥” मधोर्माता । यथा, हरिवंशे । ३६ । ३ । “आसीन्मरुवसः पुत्त्रः पुरुद्वान् पुरुषोत्तमः । मधुर्जज्ञेऽथ वैदर्भ्यां भद्रवत्यां कुरूद्वह ! ॥”)



Correction: