वाचस्पत्यम्
भद्रालपत्रिका || स्त्री भद्रायालति पर्य्याप्नोति अन—अच तादृशं पत्रं यस्याः कप् अत इत्त्वम् । गन्धाल्याम् (गान्धाल) शब्दमा० ।
शब्दकल्पद्रुमः
भद्रालपत्रिका || स्त्री (भद्राय अलति पर्य्याप्नोतीति । अल् + अच् । भद्रालं पत्र यस्याः । कप् । टाप् । अत इत्त्वम् ।)
गन्धाली । इति शब्द- माला ॥