संस्कृत-शब्दकोशः

भयकृत् भयडिण्डिम

भयङ्कर

वाचस्पत्यम्

भयङ्कर ||‍ पु० भयं करोति कृ—खच् मुम् च । १ मयजनके २ रस- भेदे ३ डुण्डुलविहगे च पुंस्त्री० स्त्रियां ङीष् । भा० व० ३५ अ० उदा० ४ विश्वदेवगणभेदे पु० भा० अनु० ९१ अ० । ५ कुमारानुचरमातृभेदे स्त्री ङीप् भा० श० ४७ अ० ।


शब्दकल्पद्रुमः

भयङ्करं || त्रि (भयं करोतीति । भय + कृ + “मेघर्त्तिभयेषु कृञः ।” ३ । २ । ४३ । इति खच् । मुम्च ।)
भयजनकम् । तत्पर्य्यायः । भैरवम् २ दारुणम् ३ भीषणम् ४ भीष्मम् ५ घोरम् ६ भीमम् ७ भयानकम् ८ प्रतिभयम् ९ । इत्यमरः । १ । ७ । २० ॥ भयावहम् १० । इति हेम- चन्द्रः ॥ (यथा, मार्कण्डेयपुराणे । १४ । ८६ । “वृकैर्भयङ्करैः पृष्ठं नित्यमस्योपभुज्यते ॥”)
पुं, डुण्डुलपक्षी । इति राजनिर्घण्टः ॥



Correction: