वाचस्पत्यम्
भरताग्रज || पु० ६ त० । दाशरथौ श्रीरामे ।
शब्दकल्पद्रुमः
भरताग्रजः || पुं, (भरतस्य अग्रजः ।)
श्रीरामचन्द्रः । यथा, वोपदेवः । “शेते स चित्तशयने मम मीनकूर्म्म- कोलोऽभवन्नृहरिवामनजामदग्न्यः । योऽभूद्बभूव भरताग्रजकृष्णबुद्धः कल्की सताञ्च भविता प्रहरिष्यतेऽरीन् ॥”