वाचस्पत्यम्
भर्ग || पु० भ्रस्ज—घञ् भर्जादेशे कुत्वम् । १ शिवे २ ज्योतिः- पदार्थे ३ आदित्यान्तर्गते ऐश्वरे तेजसि, “आदित्यान्तर्गतं वर्चा भर्गाख्यं तन्मुमुक्षिभिः । जन्ममृत्युविनाशाय दुःखस्य त्रितयस्य च । ध्यानेन पुरुषैर्यच्च द्रष्टव्यं सूर्य्य- मण्डले” योगियाज्ञ० । तस्य तेजस ऐश्वरत्वञ्च “यदा- दित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि य- च्चाग्नौ तत्तेजो विद्धि मासकम्” इति गीतायामुक्तम् । भावे घञ् । ४ भर्जने च । ५ धृष्टकेतुवंश्ये नृपभेदे हरुवं० २९ अ० । ६ देशभेदे । तत्र भवः तस्य राजा वा अण् । भार्ग । तद्देशनृपे तत्र भवे च स्त्रियां न लुक् भार्गी ।
शब्दकल्पद्रुमः
भर्गः || पुं, (भृज्यते कामादिरनेनेति । भृज् + “हलश्च ।” इति घञ् ।)
शिवः । इत्यमरः ॥ (यथा, कथासरित्सागरे । १ । ३४ । “प्रत्युवाच ततो भर्गः पुरा दक्षप्रजापतेः । देवि ! त्वञ्च तथान्याश्च बह्व्योऽजायन्त कन्यकाः । स मह्यं भवतीं प्रादात् धर्म्मादिभ्योऽपरा- श्च ताः ॥ वीतिहोत्रस्य पुत्त्रः । यथा, भागवते । ९ । १७ । ९ । “वीतिहोत्रोऽस्य भर्गोऽतो भार्गभूमिरभून्नृप ! ॥”)
आदित्यान्तर्गततेजः । यथा, —
“आदित्यान्तर्गतं वर्चो भर्गाख्यं तन्मुमुक्षुभिः । जन्ममृत्युविनाशाय दुःखस्य त्रितयस्य च ॥ ध्यानेन पुरुषो यश्च द्रष्टव्यः सूर्य्यमण्डले ॥” इत्याह्रिकतत्त्वम् ॥