वाचस्पत्यम्
भर्त्सन || न० मर्त्स—ल्युट् । अपकारवचने अधिक्षेपे तिर- स्कारायापकारार्थकवाक्योक्तौ । युच् । भर्त्सनाप्यत्र स्त्रा
शब्दकल्पद्रुमः
भर्त्सनं || क्ली (भर्त्स + ल्युट् ।)
अपकारगीः । इत्यमरः । १ । ६ । १४ ॥ चौरोऽसि त्वां घात- यिष्यामि इत्याद्यपकारार्थं वचनम् । इति भरतः ॥ तत्पर्य्यायः । कुत्सा २ निन्दा ३ जुगुप्सा ४ गर्हा ५ गर्हणम् ६ निन्दनम् ७ कुत्सनम् ८ परिवादः ९ परीवादः १० जुगुप्सनम् ११ आक्षेपः १२ अवर्णः १३ निर्व्वादः १४ अप- क्रोशः १५ । इति शब्दरत्नावली ॥ (भर्त्स + युच् । भर्त्सनाप्यत्रार्थे । यथा, कथासरित्- सागरे । ३२ । ५३ । “इत्यादि भर्त्सनां कृत्वा गच्छद्भिस्तैः समं स च । विवशः प्रययौ विष्णुदत्तस्तूष्णीं बभूव च ॥”)