संस्कृत-शब्दकोशः

भर्मण्या भर्माश्व

भर्मन्

वाचस्पत्यम्

भर्मन् is an alternate of भर्म. भर्म(न्) ||‍ न० भृ—मन् मनिन् वा । १ स्वर्णे अमरः । २ भृतौ ३ नाभौ ४ धुस्तूरे च हेमच० । नान्तः अदन्तश्च द्विरूपकोषः


शब्दकल्पद्रुमः

भर्म्म || [न्] क्ली, (भरति भ्रियते वेति । भृञ् + “सर्व्वधातुभ्यो मनिन् ।” उणा ० ४ । १४४ । इति मनिन् ।)
वेतनम् । इति हेमचन्द्रः ॥ स्वर्णम् । धुस्तूरम् । इत्यमरः । २ । ९ । ९४ ॥ नाभिः । इति विश्वः ॥ (भरणम् । यथा, ऋग्वेदे । १० । ८८ । १ । “हविष्पान्तमजरं स्वर्विदि दिविस्पृश्याहुतं जुष्टमग्नौ । तस्य भर्म्मणे भुवनाय देवा धर्म्मणे कं स्वधया पप्रथन्त ॥” “भर्म्मणे भरणाय ।” इति तद्भाष्ये सायनः ॥)



Correction: