संस्कृत-शब्दकोशः

भव्या भषक

भष

वाचस्पत्यम्

भष ||‍ कुक्कुरशब्दे भ्वा० पर० सक० सेट् । भषति अभषीत्—अभाषीत्


वाचस्पत्यम्

भष ||‍ पुंस्त्री० भष—अच् । १ कुक्कुरे शब्दरत्ना० स्त्रियां जातित्वात् ङीष् । ३ स्वर्णक्षीर्य्यां स्त्री रत्नमा० टाप् ।


शब्दकल्पद्रुमः

भषः || पुं, (भषतीति । भष कुक्कुरादि शब्दे + अच् ।)
कुक्कुरः । इति रत्नमाला ॥


शब्दकल्पद्रुमः

भष || वुक्के । पिशुनोक्तौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-श्वशब्दे अक० पिशुनोक्त्यादौ सक०- सेट् ।)
बुक्कः कुक्कुरादिकर्त्तृकशब्दः । भषति श्वा । भषत्यन्यदोषं खलः सूचयतीत्यर्थः । भर्त्- सने इति प्राञ्चः । भषति श्वा पान्थं शब्देन निर्भर्त्सयतीत्यर्थः । इति रमानाथः । इति दुर्गादासः ॥



Correction: