संस्कृत-शब्दकोशः

भस्मतूल भस्मरोहा

भस्मन्

वाचस्पत्यम्

भस्मन् ||‍ न० भस—मनिन् । (छाइ) दग्धगोमयादिविकारे अमरः अस्य शिकदेहलेपने कारणं कालिकापु० ४१ अ० उक्तं यथा “महादेवोऽथ तद्भस्म मनोभवशरीरजम् । आदाय सर्वगात्रेषु भूतिलेपं तदाकरोत् । लेपशेषाणि भस्मानि समादाय तदा हरः । सगणोऽन्तर्दधे कालीं विहाय विधिसम्मतः” । तद्धारणविधिर्यथा “भस्मोपरि चन्दनादिकं न धार्यं तदुक्तं कौर्मे “वैदिकै- र्मन्त्रै रहितं चन्दनागुरुकुङ्कुमम् । तिर्यक्पुण्ड्रात्मना धार्यं कान्तिसौख्याभिलाषिभिः । पुण्ड्रोधृतश्चन्दनाद्यै- रपि भस्म संत्यजेत् । दह्येत भस्मसंत्यागी सतीशक्रो- धवहिवः । चन्दनाद्युपरि प्राज्ञो धारयेद्भस्य वैदिकम् । लौकिकं चदनाद्यं तु भस्मोपरि न धारयेत् । भस्मव- सन्दनादीनां त्यागेनार्थो न विद्यते । चन्दनादीन्यतो लौकिकान्येवात्र न संशयः । उपरिष्टाच्चन्दनादे- र्धृतेऽल्पे सितभस्मनि । चन्दनाद्युत्थभूषाया फलाप्तेः को निवारकः” । त्रिपुण्ड्रधारणं मन्त्ररहितं तूष्णीं व कार्यम्” तदुक्तं विद्येश्वरसंहितायां “जावा- लोक्तादिकैर्मन्त्रैर्धार्यं भस्मत्रिपुण्ड्रकम् । अन्यथा जे- ज्जलं यावद्रजस्तन्नरक व्रजेदिति” । शिवधर्मे “येन भ स्मोक्तमार्गेण न धृतं मुनिपुङ्गव! । तस्य षिद्धि मुने । जन्म निःफलं सूकरो यथा” । मन्त्रसारसुधानिधौ” त्रि- पुण्ड्रकं सदा कुर्य्यात् मन्त्रपूतेन भस्मना । मन्त्रेण हीनं यः कुर्य्यात् परभागी भवेन्नरः” । शिवापूजा तद्धारणं न सिध्यति “विना भस्मत्रिपुण्ड्रेण विना रुद्राक्षमालया । महादेवोऽचितो येन न च तस्य फलप्रदः लिङ्गपु० ।


शब्दकल्पद्रुमः

भस्म || [न्] क्ली, (बभस्तीति । भस् भर्त्सनदीप्त्योः + “सर्व्वधातुभ्यो मनिन् ।” उणा० ४ । १४४ । इति मनिन् ॥ दग्धकाष्ठादिविकारः ।)
शिवाङ्ग- भूषणम् । छाइ इति भाषा । यथा, —
“अस्याङ्गभूषणं भस्म विभूतिर्भूतिरस्य तु ।” इति शब्दरत्नावली ॥ तद्भस्म कामदेवशरीरजम् । यथा, —
“प्रसीद सर्व्वभूतेश ! भक्त्या त्वत्प्रणता वयम् । इति स्म वदतां तेषाममराणां तदानलः । ललाटचक्षुः सम्भूतो भस्माकार्षीन्मनोभवम् ॥ दग्ध्वा कामं तदा वह्निर्ज्वालामालातिदीपितः । संस्तम्भितोऽथ विधिना हरं गन्तुं शशाक न ॥ महादेवोऽथ तद्भस्म मनोभवशरीरजम् । आदाय सर्व्वगात्रेषु भूतिलेपं तदाकरोत् ॥ लेपशेषाणि भस्मानि समादाय तदा हरः । सगणोऽन्तर्दधे कालीं विहाय विधिसम्मते ॥” इति कालिकापुराणे ४१ अध्यायः ॥ * ॥
भस्मम्रक्षणं सप्तविधास्नानान्तर्गताग्नेयस्नानम् । यथा, —
“आग्नेयं भस्मना स्नानं वायव्यं गोरजः स्मृतम् ।” इति यामलः ॥ शिवपूजायां ललाटे तस्य धारणमावश्यकम् । यथा, —
“विना भस्मत्रिपुण्ड्रेण विना रुद्राक्षमालया । पूजितोऽपि महादेवो न स्यात्तस्य फलप्रदः ॥” इत्याह्रिकतत्त्वम् ॥ तेन कांस्यशुद्धिर्यथा, —
“अम्भसा हेमरूप्यायः कांस्यं शुध्यति भस्मना । अम्लैस्ताम्रञ्च रैत्यञ्च पुनःपाकेन मृण्मयम् ॥” इति शुद्धितत्त्वम् ॥ * ॥
अश्मरीविकारः । यथा, —
“शर्क्करासिकतामेहो भस्माख्योऽश्मरीवैकृतम् । अश्मर्य्याः शर्क्करा ज्ञेया तुल्यव्यञ्जनवेदना ॥” इति सुश्रुते निदानस्थाने अश्मरीनिदानम् ॥



Correction: