वाचस्पत्यम्
भागवत || त्रि० भगवतः भगवत्या वा इदम् सोऽस्य देवता वा अण् । भगवतः भगवत्या वा १ भक्ते, २ तयोः सम्बन्धिनि च “भग्नाः कृषेर्भागवता भवन्ति” उद्भटः । तयोः सम्बन्धि- गुणवर्णने ३ महापुराणे ४ उपपुराणे च न० “यैर्न श्रुतं प्रागवतं पुराणम्” भाग० । भागवतञ्च महापुराणभेदः उपपुराणभेदो वा उपपुराणशब्दे विस्तरेणं दर्शितः । नारदीयपु० महापुराणप्रतिपाद्यविषयोक्तौ ये विषया उक्तास्ते नान्यत्रेति विष्ण भागवतस्यैव महापुराणत्व- मित्येके उपपुराणशब्दे अन्यमतं दृश्यम् । विष्णुभागवतप्रतिपाद्यविषयाश्च नार० पु० ४ अ० ९६ उक्ता यथा “मरीचे! शृणु वक्ष्यामि वेदव्यासेन यत् कृतम् । श्रीमद्- भागवतं नाभ पुराणं ब्रह्मसम्मितम् । तदष्टादशसाहस्रं कीर्त्तितं पापनाशनम् । सुरपादपरूपोऽयं स्कन्धै- र्द्वादशभिर्युतः । भगवानेव विपेन्द्र! विश्वरूपी समी- रितः” तस्य प्रथमस्कन्धे । “तत्र तुप्रथमे स्कन्धे सूत- र्षीणां समागमः । व्यासस्य चरितं पुण्यं पाण्डवानां तथैव च । पारीक्षितसुपाख्यानमितीदं समुदाहृतम्” । द्वितीयस्कन्धे “परीक्षिच्छुकसंवादे सृतिद्वयनिरूपणम् । ब्रह्मनारदसंवादेऽवतारचरितामृतम् । पुराणलक्षणञ्चैव सृष्टिकारणसम्भवः । द्वितीयोऽयं समुदितः स्कन्धो व्यासेन धीमता” । तृतीयस्कन्धे “चरितं विदुरस्याथ मैत्रेयेणास्य सङ्गमः । सृष्टिप्रकरणं पश्चाद् ब्रह्मणः परमात्मनः । कापिलं साङ्ख्यमप्यत्र तृतीयोऽयमुदा- हृतः” । चतुर्थस्कन्धे “सत्याश्चरितमादौ तु ध्रुवस्य चरितं ततः । पृथोः पुण्यसमाख्यानं ततः प्राचीन वर्हिषः । इत्येष तूर्य्यो गदितो विसर्गे स्कन्ध उत्तमः” । पञ्चमस्कन्धे “प्रियव्रतस्य चरितं तद्वंश्यानाञ्च पुण्यदम् । ब्रह्माण्डान्तर्गतानाञ्च लोकानां वर्णनन्तत । नरक- स्थितिरित्येष संस्थाने पञ्चमो मतः” । षष्ठस्कन्धे “अजा- मिलस्य चरितं दक्षसृष्टिनिरूपणम् । वृत्राख्यानं ततः पश्चान्मरुतां जन्म पुण्यदम् । षष्ठोऽयमुदितः स्कन्धो व्या- सेन परिपोषणे” सप्तमस्कन्धे “प्रह्लादचरितं पुण्यं वर्णाश्रमनिरूपणम् । सप्तमी गदितो वत्स! वासनाकर्म- कीर्त्तने” । अष्टमस्कन्धे । “गजेन्द्रमोक्षणाख्यानं म- न्वन्तरनिरूपणम् । समुद्रमथनञ्चैव बलिवैभवबन्धनम् । मतस्यावतारचरितमष्टमोऽयं प्रकीर्त्तितः” । नवमस्कन्धे “सूर्य्यवंशसमाख्यानं सोमवंशनिरूपणम् । वंश्यानुचरिते प्रोक्तो नवमोऽयं महामते!” । दशमस्कन्धे “कृष्णस्य बालचरितं कौमारञ्च व्रजस्थितिः । कैशोरं मथुरा- स्थानं यौवनं द्वारकास्थितिः । भूभारहरणञ्चात्र निरोधे दशमः स्मृतः” । एकादशस्कन्धे “नारदेन तु संवादो वसुदेवस्य कीर्त्तितः । यदोश्च दत्तात्रेयेण श्रीकृष्णे- नोद्धवस्य च । यादवानां मिथोऽन्तश्च मुक्तावेकादशः स्मृतः । द्वादशस्कन्धे “भविष्यकलिनिर्देशो मोक्षो राज्ञः परीक्षितः । वेदशाखाप्रणयनं मार्कण्डेयतपः स्मृतम् । सौरी विभूतिरुदिता सात्त्वती च ततः परम् । पुराणसंङ्ख्याकथनमाश्रये द्वादशो ह्ययम् । इत्येवं क- थितं वत्स! श्रीमद्भागवतं तव” । तत्कलश्रुतिः “वक्तुः श्रोतुश्चोपदेष्टुरनुमोदितुरेव च । साहाय्यकर्त्तु- र्गदितं भक्तिभुक्तिविमुक्तिदम् । प्रौष्ठपद्यां पूर्णिमायां हेमसिंहसमाचितम् । देयं भागवतायेदं द्विजाय प्रीतिपूर्वकम् । संपूज्य वस्त्रहेमाद्यैर्भगवद्भक्तिमिच्छता । योऽप्यनुक्रमणीमेतां श्रावयेच्छृणुयात्तथा । स पुराण श्रवणजं प्राप्नोति फलमुत्तमम्” । विस्तरस्तु भाग० १२ उपसंहाराध्याये दृश्या । भगवद्भक्तरूपभागवतलक्षणं यथा भाग० ११ स्क० । “सर्वभूतेषु यः पश्येद्भगवद्भावमात्मनः । भूतानि भग- यत्यात्मन्येष भागवतोत्तमः । न यस्य स्तपर इति वित्तेष्वात्मनि वा भिदा । सर्वभूतसमः शान्तः स वै भाग- वतोत्तमः” । हरियोगेश्वरोत्तरे “गृहीत्वापीन्द्रियै- रर्थान् यो न द्वेष्टि न काङ्क्षति । विष्णोर्मायामिदं पश्यन् स वै भागवतोत्तमः” । वृहन्नारदीये “शिवे च परमेशाने विष्णौ च परमात्मनि । समबुद्ध्या प्रवर्त्तन्ते ते वै भागवतोत्तमाः” । स्कान्दे “येषां भागवतं शास्त्रं सदा तिष्ठति सन्निधौ । पूजयन्ति च ये नित्यं ते स्युर्भा- गवता नरा । येषां भागवतं शास्त्रं जीवितादधिकं भवेत् । महामागवताः श्रेष्ठा विष्णुना कथिता नराः” । लैङ्गे “भोजनाच्छादनं सर्वं यथा शक्त्या ददाति यः । विष्णु भक्तस्य सततं स वै भागवतः स्मृतः” । गारुडे “येन सर्वात्मना विष्णुमक्त्या भावो निवेशितः । वैष्ण- वेषु कृतात्मत्वान् महाभागवती हि सः” । वृहन्नार- दीये “तुलसीकाननं दृष्ट्वा ये नमस्कुर्वते नराः । तत्- काष्ठाङ्कितकर्णाये ते वै भागबतोत्तमाः । तुलसीगन्ध- माघ्राय सन्तोषं कुर्वते तु ये । तन्मूलमृद्धृता यैश्च ते वै मागवतीत्तमाः” । स्कान्दे “मत्कथां कुरुते यस्तु मत्कथासु शृणोति च । हृष्यते मत्कथायाञ्च स वै मागवतोत्तमः” । वृहन्नारदीये “मन्मानसाश्च सद्भक्ता मद्भक्तजनलीलुपाः । तन्नामश्रवणासक्तास्ते वै भागवतो- त्तमाः । येऽभिनन्दन्ति नामानि हरेः शृण्वन्ति ह- र्षिताः । रोमाञ्चितशरीराश्च ते वै भागवतीत्तमाः । अन्येषामुदयं दृष्ट्वा येऽभिनन्दन्ति मानवाः । हरिनाम परा ये च ते वै भागवतोत्तमाः” । स्कान्दे “येऽर्चयन्ति सदा विष्णुं यज्ञेश वरदं हरिम् । देहिनः पुण्य- कर्माणः सदा भागवता हि ते” । लैङ्गे “विष्णुक्षेत्रे शुभान्येव करोति स्नेहसंयुतः । प्रतिमाञ्च हरेर्नित्यं पूजयेत् प्रत्यतात्मवान् । विष्णुभक्तः स विज्ञेयः कर्मणा मनसा गिरा । नारायणपरा नित्यं भूप! भागवतो हि सः” पद्मोत्तरखण्डे “तापादिपञ्चसंस्कारी नवेज्या कर्मकारकः । अर्थपञ्चकयिद्विप्र! महाभागवती हि सः । एकान्तेन सदा विष्णौ यस्माद्देवे परायणाः । तस्मा- देकान्तिनः प्रोक्तास्तद्भागवतचेतसः” भाग० ११ स्कान्दे “ज्ञात्वा ज्ञात्वाथ ये वै मां यावान् यश्चास्मि यादृशः । भजन्त्यनन्यभावेन ते वै भागवता मताः । न कामकर्म- वीजानां यस्य चेतसि सम्भवः । वासुदेवैकनिलयः स वै भागवतोत्तमः” । स्कान्दे “यस्य कृच्छ्रगतस्यापि केशवे रमते मनः । न विच्युता च भक्तिर्वै स वै भागवतो नरः । आपद्गतस्य यस्येह भक्तिरव्यभिचारिणी । नान्यत्र रमते चित्तं स वै भागवतो नरः” । हरियो- गेश्वरे “विसृजति हृदयं न यस्य साक्षाद्धरिरवशाभिहि तोऽप्यथौघनाशः । प्रणयरसनयाधृताङ्घिपद्मः स भवति भागवतप्रधान उक्तः” हरिभक्तिविलासे १० वि० ।
शब्दकल्पद्रुमः
भागवतं || क्ली (भगवतो भगवत्या वेदम् । भगवत् + तस्येदमित्यण् ।)
अष्टादशपुराणान्तर्गतमहा- पुराणविशेषः । स च वेदव्यासकृतद्बादशस्कन्ध- द्बात्रिंशत्त्रिशताध्यायसमन्विताष्टादशसहस्र- श्लोकसंख्याक-भगवन्माहात्म्यवर्णन-प्रधानको ग्रन्थः । यथोक्तं मत्स्यपुराणे पुराणदानप्रस्तावे । “यत्राधिकृत्य गायत्त्रीं वर्ण्यते धर्म्मविस्तरः । वृत्रासुरवधोपेतं तद्भागवतमिष्यते ॥ लिखित्वा तच्च यो दद्याद्धेमसिंहसमन्वितम् । प्रौष्ठपद्यां पौर्णमास्यां स याति परमं पदम् ॥ अष्टादशसहस्राणि पुराणं तत् प्रकीर्त्तितम् ॥” पुराणान्तरे च । “ग्रन्थोऽष्टादशसाहस्रो द्वादशस्कन्धसम्मितः । हयग्रीवब्रह्मविद्या यत्र वृत्रवधस्तथा ॥ गायत्त्र्या च समारम्भस्तद्वै भागवतं विदुरिति ॥” पद्मपुराणे च अम्बरीषं प्रति गोतमवचनम् ॥ “अम्बरीष ! शुकप्रोक्तं नित्यं भागवतं शृणु । पठस्व स्वमुखेनापि यदीच्छसि भवक्षयमिति ॥” इति श्रीभागवतटीकायां श्रीधरस्वामी ॥ (तत्र तावत् पुराणेषु भागवतद्वयं प्रसिद्धम् । एकं महापुराणान्तर्गतमपरमुपपुराणान्तगतम् । लोकेऽप्युपलम्भो द्वयोर्देवीभागवतनाम्ना विष्णु- भागवतनाम्ना चास्त्येव । तत्रैकं महापुरा- णान्तर्गतमन्यदुपपुराणान्तर्गतमित्यपि निर्व्वि- वादमेव । तथापि किं देवीभागवतं महापुराण- मन्यदुपपुराणमथवा विष्णुभागवतं महापुराण- मन्यदुपपुराणमिति संशये केचित् विष्णुभाग- वतमेव महापुराणमिति वदन्ति । केचित् देवीभागवतमेव महापुराणमिति वदन्ति । तत्र प्रथमपक्षैकदेशिनः केचिदुपपुराणेषु द्बितीयं भागवतं नास्त्येव महापुराणेष्वेवैकं भागवतं प्रसिद्धम् । तच्च विष्णुभागवतमेव न देवीभागवतम् । देवीभागवतन्तु निर्मूलमेवेति वदन्ति । द्वितीवपक्षैकदेशिनोऽपि विष्णुभाग- वतं वोपदेवकृतमिति वदन्ति । वस्तुतस्तूभयो- रपि पुराणयोः पुराणमतभेदेन महापुराणत्व- मुपपुराणत्वञ्च । ननु महापुराणेष्वेवैकं भाग- वतं प्रसिद्धम् । नतूपपुराणेषु द्वितीयमस्तीति चेन्न । कूर्मगरुडपाद्मादिषूपपुराणेषु द्वितीयस्य स्पष्टपरिगणनात् । तथाहि हेमाद्रौ दानप्रस्तावे कूर्मपुराणेऽष्टादशपुराणान्युक्त्वा, —
“अन्यान्युप्रपुराणानि मुनिभिः कथितानि तु । आद्यं सनत्कुमारोक्तं नारसिंहमतः परम् ॥” इत्यादि ॥ “पराशरोक्तं प्रवरं तथा भागवताह्वयम् ॥” इति । तथा गारुडे तत्त्वरहस्ये द्वितीयांशे धर्म्मकाण्डे प्रथमाध्याये प्रथमतो महापुराणानां सात्त्वि- कादिभेदेन विभागमुक्त्वा लघुपुराणानां सात्त्वि- कादिभेदेन विभागप्रदर्शनपरे ग्रन्थेऽप्युक्तम् । “पुराणं भागवतं दौर्गं नन्दिप्रोक्तं तथैव च । पाशुपत्यं रैणुकञ्च भैरवञ्च तथैव च ॥” इति ॥ तथा तत्पूर्ब्बमपि । “विष्णुधर्म्मोत्तरे चैव तत्र भागवतं तथेति ॥” तन्त्रं भागवतं तथेति पाठे तन्त्रं शास्त्रमित्यर्थः । तद्विशेषणेन चोत्तमत्वं सूचितम् । तथा पाद्मे शकुनपरीक्षायाम् । “ब्राह्मं पाद्मं वैष्णवञ्च मार्त्तण्डं नारदेरितम् ॥” इत्यादि ॥ “तथैव गदितं राम ! पुराणं कापिलं तथा । वाराहं ब्रह्मवैवर्त्तं शकुनेषु प्रशस्यते । शैवं भागवतं दौर्गं भविष्योत्तरमेव च ॥” इति ॥ तथा पाद्मे भागवतमाहात्म्ये एकोनविंशेऽध्याये उपपुराणेषु । “शैवमादिपुराणञ्च देवीभागवतं तथा ॥” इति ॥ तथा मधुसूदनसरस्वतीकृतसर्व्वशास्त्रार्थसंग्रहे- ऽप्युपपुराणमध्ये भागवतं परिगणितम् । नागोजीभट्टादिभिश्च धर्म्मशास्त्रग्रन्थेष्वेवमन्यैरपि निबन्धकारैरिति । ननु देवीभागवतस्य । “तत्र भागवतं पुण्यं पञ्चमं वेदसम्मितम् ॥” इति प्रथमाध्यायस्थस्ववचनेनाष्टादशमहापुरा- णेषु पञ्चममिदं पुराणमिति स्वस्य महापुरा- णत्वं बोधयतः कथमन्यपुराणमुपपुराणत्वं बोध- येन्नह्येवं क्वचिद्दृष्टचरमिति चेन्न । नारदीय- शिववायव्यादित्यपुराणानां स्वमुखेनान्यमुखेन वा महापुराणत्वेन ज्ञायमानानामन्यपुराणैरुप- पुराणत्वस्य व्यवस्थापनात् । पुराणमतभेदेनै- कस्यापि पुराणस्य महापुराणत्वोपपुराणत्व- सिद्ध्या तद्विरोधाभावात् पुराणभेदेन मतभेदस्तु बहुशः प्रसिद्धः । वैष्णवपुराणेषु सात्त्विकत्वं शैवपुराणेषु तामसत्वं वैष्णवपुराणमतेन । शैव- पुराणेषु सात्त्विकत्वं वैष्णवपुराणेषु तामसत्वम् । “दश शैवपुराणानि सात्त्विकानि विदुर्बु धाः । तामसानि च चत्वारि वैष्णवानि प्रचक्षते ॥” इति स्कान्दे ॥ शैवपुराणमतेनेत्येवं प्रकारेणेति । तथाहि नारदीयस्य पुराणस्य स्वान्तर्गतमहापुराण- ग्रन्थसूच्या स्वमुखेनैव स्वात्मनो महापुराणत्वं बोघयतः । “मद्वयं भद्वयं चैव ब्रत्रयं वचतुष्टयम् । आलिंपाग्निपुराणानि कूस्कंगारुडमेव च ॥” इति वचनेन वक्ष्यमाणमुद्गलपुराणवचनेन च महापुराणबहिर्भूतत्वं बोध्यते । आलिंपाग्नी- त्यत्राऽऽशब्देनादित्यपुराणं तथा शैवपुराणस्य स्वमुखेन स्वस्य महापुराणत्वं बोधयतो मद्वयं भद्बयमित्येव वचनं तद्बहिर्भूतत्वं बोधयति । ननु वायव्यं पुराणमेव शैवं शिवप्रतिपादकत्वा- त्तस्य च वचतुष्टयपदेन संग्रहात्तदुदाहरणं न सम्भवतीति चेन्न । मुद्गलपुराणे । “ब्राह्मञ्च वैष्णवं पाद्मं शैवं भागवतं तथा । भविष्यं ब्रह्मवैवर्त्तं मार्कण्डेयञ्च वामनम् ॥ आग्नेयं वायवं मात्स्यम् ।” इति वचनेन शैव- वायव्यपुराणयोः परस्परं पृथक्त्वेन परिगणनात् । तथा वायव्यपुराणस्य स्ववचनेन स्वस्य महा- पुराणत्वं बोधयतो वक्ष्यमाणशैवपुराणवचनं महापुराणबहिर्भूतत्वं बोधयति । तथादित्य- पुराणस्यापि आलिंपाग्निपुराणानीति क्वचित् पुराणसम्मतपाठेन महापुराणत्वम् । अनाप- लिङ्गकूस्काख्यमिति क्वचित् पुराणसम्मतपाठेन महापुराणबहिर्भूतत्वं यथा चैतेषां चतुर्णां क्वचित् पुराणेषु महापुराणत्वेन क्वचिच्चोप- पुराणत्वेन ग्रहणम् । तथा देवीभागवतस्यापि भविष्यतीति को विरोधः । मतभेदेनोभयोरपि वचनयोः प्रमाणत्वात् । ननु अन्यान्युपपुरा- णानि मुनिभिः कथितानि त्वित्यादिवचनै- रुपपुराणानि व्यासान्यमुनिकृतान्येव सन्ति । देवीभागवतं तु व्यासकृतमेवेति । तस्य कथ- मुपपुराणेष्वन्तर्भाव इति चेन्न । नारदशैव- वायव्यादित्यपुराणेषु व्यासकृतत्वेऽपि कस्यचित् पुराणमते उपपुराणत्वदर्शनात्तादृशनियमस्या- स्वीकारात् प्रायशस्तथा सत्त्वाभिप्रायेण तु तद्वचनम् । इत्थं भागवतद्वयस्य महापुराण- मध्ये उपपुराणमध्ये च सत्त्वसिद्धौ कस्य पुरा- णस्य मते किं भागवतं महापुराणान्तर्गतमिति चेदुच्यते । शैवपुराणमते मात्स्यपुराणमते च देवीभागवतमेव महापुराणमिति । तथाहि शैवपुराणे उत्तरखण्डे मध्यमेश्वरमाहात्म्ये शिवाल्लब्धवरेण व्यासेन महापुरणानि प्रणी- तानीत्युक्त्यनन्तरं तेषां नामान्यष्टादशोक्त्वा तेषां योगरूढानां नाम्नां निर्व्वचनं तत्रैव कृतम् । तद्यथा, —
“यत्र वक्ता स्वयं तण्डे ! ब्रह्मा साक्षाच्चतुर्मुखः । तस्माद्ब्राह्मं समाख्यातं पुराणं प्रथमं मुने ! ॥” तण्डे इति मुनिसम्बोधनम् । “पद्मकल्पस्य माहात्म्यं तत्र यस्मादुदाहृतम् । तस्मात् पाद्मं समाख्यातं पुराणञ्च द्बितीयकम् ॥ पराशरकृतं यत्तु पुराणं विष्णुबोधकम् । तदेव व्यासकथितं पुत्त्रपित्रोरभेदतः ॥ यत्र पूर्ब्बोत्तरे खण्डे शिवस्य चरितं बहु । शैवमेतत् पुराणं हि पुराणज्ञा वदन्ति च ॥ भगवत्याश्च दुर्गायाश्चरितं यत्र विद्यते । तत्तु भागवतं प्रोक्तं नतु देवीपुराणकम् ॥ नारदोक्तं पुराणन्तु नारदीयं प्रचक्षते ॥ यत्र वक्ताभवत्तण्डे ! मार्कण्डेयो महामुनिः । मार्कण्डेयपुराणं हि तदाख्यातञ्च सप्तमम् ॥ अग्नियोगात्तदाग्नेयं भविष्योक्तेर्भविष्यकम् । विवर्त्तनाद्ब्रह्मणस्तु ब्रह्मवैवर्त्तमुच्यते ॥ लिङ्गस्य चरितोक्तत्वात् पुराणं लिङ्गमुच्यते । वराहस्य च वाराहं पुराणं द्वादशं मुने ! ॥ यत्र स्कन्दः स्वयं वक्ता श्रोता साक्षात् महेश्वरः । तत्तु स्कान्दं समाख्यातं वामनस्य तु वामनम् ॥ कौर्म्मं कूर्म्मस्य चरितं मात्स्यं मत्स्यस्य कीर्त्तितम् । गरुडस्तु स्वयं वक्ता यत्तद् गारुडसंज्ञकम् ॥ ब्रह्माण्डचरितोक्तत्वाद् ब्रह्माण्डं परिकीर्त्ति- तम् ॥” अत्र क्वचिद्वक्तृसम्बन्धः क्वचिच्छ्रोतृसम्बन्धः क्वचित्प्रतिपाद्यमुख्यदेवताचरितसम्बन्धः । प्रवृत्ति- निमित्तमिति स्पष्टमेव दर्शितम् । तत्र भागवत- नाम्नो निर्व्वचनवाक्यमेतत् । “भगवत्याश्च दुर्गायाश्चरितं यत्र विद्यते । तत्तु भागवतं प्रोक्तं न तु देवीपुराणकम् ॥” अनेन च वाक्येन भगवत्या इदं भागवतमिति व्युत्पत्या ग्रन्थप्रतिपाद्यमुख्यदेवताचरितसम्बन्धः । प्रवृत्तिनिमित्तमिति स्पष्टमेव दर्शितम् । का सा भगवतीत्यपेक्षायामाह दुर्गाया इति । तत्तु भागवतं तु शब्दो निश्चयार्थकः । तदेव भाग- वतपदवाच्यं प्रोक्तमित्यर्थः । न तु पुराणान्तर- मतप्राप्तं विष्णुभागवतं महापुराणान्तर्गतं भागवतमित्यर्थ इति शैवपुराणेन स्वमतं प्रद- र्शितम् । कश्चिदेतत् पुराणान्तरमतेन उप- पुराणं जानीयात्तत्राह न तु देवीपुराणक- मिति । पुराणकमित्यत्र कप्रत्ययोऽल्पार्थकः । अल्पे इति सूत्रात् पुराणकमल्पं पुराणमिति यावत् । देव्याः पुराणकं देवीपुराणकम् । यदिदमुक्तं तद्देव्या उपपुराणं नैवास्तीत्यर्थः । अनेन च वाक्येनान्यस्य महापुराणत्वनिषेधेन स्वाभिप्रेतस्य च उपपुराणत्वनिषेधेन श्रीमद्देवी- भागवतस्यैव महापुराणत्वं बोधयति व्यासः । सुख्यत्वेन भगवतीचरितप्रतिपादकस्य महा- पुराणमध्ये कस्यचित् पुराणस्यान्यस्याभावात् । ननु नारदादिपुराणवचनबलात् विष्णुभागवतस्य महापुराणान्तर्गतत्वे निर्व्विघ्नं निश्चिते तद्बलात् भागवतद्वयस्य मतंभेदेन महापुराणत्वकल्पना- पेक्षया यत्किञ्चित् भगवतीचरितस्यास्मिन्वचने ग्रहणेनानेन वचनेन विष्णुभागवतनाम्न एव निरुक्तिः कृतेति कुतो न कल्प्यते । वर्त्तते च विष्णुभागवते दशमस्कन्धे किञ्चिद्विन्ध्यवासिन्या- श्चरितमिति चेन्न । तथा सति मुनेर्विष्णुर्भाग- वतविषय एव तात्पर्य्यसत्त्वे भगवत इदं भाग- वतमित्येव व्युत्पत्तिं कुर्य्यान्नहि केनचिन्मुनेः शिरसि भारः स्थापितो यत् स्वाभिप्रेतां युक्ति- युक्तां निरुक्तिं त्यक्त्वा निष्प्रयोजनोऽनभिप्रेतां निरुक्तिं करोति । किञ्च सर्व्वत्रैतद्वचनप्रकरणे “यत्र पूर्ब्बोत्तरे खण्डे शिवस्य चरितं बहु । शैवमेतत् पुराणं हि पुराणज्ञा वदन्ति च ॥” इति बहुवचनैर्ब्बहुचरितमुख्यचरितसम्बन्धरूप- प्रवृत्तिनिमित्तस्यैवाभिप्रेतत्वं मुनेरवसीयते । मतभेदेन पुराणभेदकल्पना तु नात्रैव नवी- नास्ति । पूर्ब्बोक्तयुक्त्या नारदशैववायव्यादित्य- पुराणेष्वन्यत्रापि सत्त्वात् । अस्तु वा गौरवं नहि तद्भयात् मुनेस्तात्पर्य्यमन्यथाकर्त्तुं कश्चि- दीष्टे । तस्मात् पूर्ब्बोक्तं तात्पर्य्यं विहायान्य- तात्पर्य्येणान्यार्थकरणं महासाहसमेव । ननु लक्षणवाक्यमेतत् । ततश्च दुर्गाचरितं यत्र वर्त्तते तद्भागवतमित्यर्थः । तच्च न देवीभागवतं भवितुमर्हति । तस्य तल्लक्षणलक्ष्यत्वे न तु देवीपुराणकमिति निषेधविषयत्वेन निषेध- विध्योः समानविषयत्वापत्तेः । किन्तु विष्णु- भागवतमेव । ननु तथाप्येतल्लक्षणमन्यपुराणे- ष्वतिप्रसक्तमिति चेन्न । यथा वृत्रासुरवध- लक्षणमन्यपुराणेषु प्रसक्तमपि यथा लक्षणत्वेन गृहीतम् । तद्वदत्रापि सत्त्वादिति चेन्न । पूर्ब्बोक्तनिरुक्तिवचनप्रकरणस्थत्वविरोधात् । किञ्च लक्षणवाक्यमेतदितिपक्षेऽप्येतस्य लक्ष- णस्य महापुराणोद्देशेनैव सत्त्वादुपपुराणेष्वस्य प्रसक्त्यभावाद्देवीपुराणकालिकापुराणयोरुप- पुराणत्वस्य निश्चितत्वात् तत्रैतल्लक्षणस्य प्रसक्ति- रेव नास्तीति न तु देवीपुराणकमिति निषेधो व्यर्थ एव स्यात् । तस्मादेव तद्वचनस्य पूर्ब्बोक्त एवार्थः । किञ्च लक्षणवाक्यमेतदिति पक्षे यत् किञ्चिच्चरितं गृह्यते उत यावच्चेरितम् । यत्- किञ्चिच्चरितस्य सर्व्वमहापुराणेषु सत्त्वाद्देवी- पुराणमात्रनिषेधेन न निर्व्वाहः । तस्माद्देवी- पुराणस्यैव निषेधस्वारस्याद्यावच्चरितं मुख्यत्वेन भगवतीचरित्रमेव ग्राह्यम् । तदा तव नाभी- ष्टार्थसिद्धिः । मुख्यत्वेन विष्णुभागवते दुर्गा- चरितस्याभावान्ममैव त्वभीष्टार्थसिद्धिः । निषेध- विध्योः समानविषयकत्वरूपं दूषणन्तु नैव सम्भ- वति । प्रकरणबलात् तात्पर्य्ये निश्चिते तद्विषयं विहायैव निषेधप्रवृत्तेः । वृत्रासुरवधोपेतत्व- लक्षणं तु गायत्र्यारम्भविशिष्टमिति न तदति- प्रसक्तं तस्मात् पूर्ब्बोक्त एव तद्बचनार्थे इति तद्वचनाद्देवीभागवतं महापुराणं न तु विष्णु- भागवतमिति शिवपुराणमतम् । अत्र च नियमद्वयस्य पूर्ब्बोक्तस्य सत्त्वाद्विष्णुभागवत- विषये तथा नियमद्वयाभावादिदं शिवपुराण- मतमेव मुख्यमन्यपुराणमतं त्वेकदेशीति नियम- द्वयप्रदर्शकव्यासवाक्येन स्पष्टमेव बोधितमिति सुधियो विभावयन्तु । किञ्च । “शैवमादिपुराणञ्च देवीभागवतं तथा ।” इति पाद्मवचनसंवादितया, —
“नवरात्रे तु देवेशि ! दौर्गं भागवतं पठेत् । जपेत् सप्तशतीं चण्डीं नियमेन समाहितः ॥” इति दुर्गातरङ्गिणीधृतयामलवचनेन तथा, —
“देवीभागवतं नित्यं पठेद्भक्त्या समाहितः । नवरात्रे विशेषेण श्रीदेवीप्रीतये मुदा ॥” इति महेशठक्कुरकृतदुर्गाप्रदीपधृतदेवीयामल- वचनेन च सप्रमाणस्य देवीभागवतस्य सर्व्वथो- पपुराणमध्ये एव निवेशात् । “तत्र भागवतं पुण्यं पञ्चमं वेदसम्मितम् ।” इति प्रथमस्कन्धस्थस्य महापुराणेषु पञ्चममिदं पुराणमित्यर्थकस्य देवीमागवतोक्तवचनस्य निरालम्बनत्वादप्रामाण्यापत्तेः । मन्मते तु तस्य विषयलाभान्नाप्रामाण्यं तद्बचनप्रामाण्यादपि देवीभागवतमेव महापुराणमिति । किञ्च हेमाद्रौ कालिकापुराणे । “यदिदं कालिकाख्यं तन्मूलं भागवतं स्मृतम् ।” इति वचनं तदपि देवीभागवतस्यैव महापुरा- णत्वं बोधयति । तथाहि । “अष्टादशभ्यस्तु पृथक् पुराणं यत् प्रदृश्यते । विजानीध्वं द्बिजश्रेष्ठास्तथा तेभ्यो विनिर्गतम् ॥” इति मात्स्यवचनेनोपपुराणानां महापुराण- मूलकत्वनियमादिदं कालिकापुराणं किम्- पुराणमूलकमित्याकाङ्क्षायां तस्यानिवर्त्तकमिदं वाक्यं यदिदं कालिकाख्यं पुराणं तन्मूलं तस्य मूलं भागवतं विदुरिति हि तस्यार्थो निबन्ध- कारैर्द्दर्शितः । यथान्यान्युपपुराणान्येकैकस्मा- न्महापुराणान्निर्गतानि तद्वदिदं भागवतादुत्- पन्नमिति यावत् । तच्च भागवतं न वैष्णवं तन्मूलं भवितुमर्हति । देव्युपपुराणस्य देवी- पुराणमूलकत्वे एव सामञ्जस्यात् । शैवोप- पुराणानां शैवेभ्य एव वैष्णवोपपुराणानां वैष्णवेभ्य एवोत्पत्तिदर्शनादिति देवीभागवत- मेव तन्मूलमिति तस्य महापुराणत्वं सिद्धम् । यत्र तु क्वचित् क्वचित् महापुराणमूलकत्वमप्र- सिद्धं तत्र यथायोग्यमनुमेयमिति । किञ्चा- दित्यपुराणदृष्ट्यापि देवीभागवतमेव महा- पुराणम् । तथाहि आदित्यपुराणे रक्तासुर- वधप्रस्तावे । “या जघ्ने महिषं दैत्यं क्रूरं वृत्रासुरं तथा । साद्य रक्तासुरं हत्वा स्वाराज्यं ते प्रदास्यति ॥” इति वचनम् । अनेन वचनेन देवीभागवते स्वसम्मतिर्द्दर्शिता । न हि देवीभागवताति- रिक्तसर्व्वपुराणेषु देवीकृतो वृत्रासुरवधः क्वचि- दप्यस्ति । इन्द्रकृतस्यैव तस्य सत्त्वात् केवलं देवीभागवत एव देवीकृतः सोऽस्ति । तद्ग्रह- णेन तु देवीभागवते स्वसम्मतिर्द्दशितेति युक्त- मेव । अनन्तरञ्च तत्रैव पुराणदानप्रस्तावे । “ददाति सूर्य्यभक्ताय यस्तु भागवतं द्बिजाः । सर्व्वपापविनिर्मुक्तः सर्व्वव्याधिविवर्ज्जितः ॥ जीवेद्वर्षशतं साग्रमन्ते वैवस्वतं पदम् ॥” इति पठितम् ॥ अत्र च स्वसम्मतं भागवतमेव ग्रहीतुमुचितम् । किञ्चेदं षचनं देवीभागवतपक्षे एव स्वरसतः सङ्गच्छते । प्रथमश्लोके एकादशद्वादशस्कन्ध- योश्च सविस्तरं गायत्त्रीविधानसहस्रनामादेः कथनात् सूर्य्यस्य गायत्त्रीदेवतात्वात् । तद्भाग- वतपक्षे तु वैकुण्ठं गच्छेदित्येव वदेदिति । किञ्च “यत्राधिकृत्य गायत्त्रीं वर्ण्यते धर्म्मविस्तरः । वृत्रासुरवधोपेतं तद्भागवतमिष्यते ॥” इति मात्स्यवचनमपि देवीभागवतस्यैव महा- पुराणत्वं बोधयति । वेदे त्रिपदा गायत्त्रीति गायत्त्रीलक्षणं श्रूयते । तेन च त्रिपाच्छन्दो- ऽधिकृत्य यत्र धर्म्मविस्तरो वर्ण्यते तद्भागवत- मिति तदर्थः । त्रिपाच्छन्दश्च देवीभागवते प्रथमश्लोके । “सर्व्वचैतन्यरूपां तामाद्यां विद्याञ्च धीमहि । बुद्धिं या न प्रचोदयात् ॥” इति श्रूयते । न विष्णुभागवते तच्छन्दोऽस्ति मुख्यार्थसम्भवे गायत्त्रीपदस्य लक्षणया धीमहीत्यर्थकरणेन विष्णुभागवतपरत्वकल्पनमस्य वचनस्य तु साहसमेव । क्वचित्पुराणेषु यदि तादृशान्येव विष्णुभागवतपराणि वचनानि सन्ति । तत्र गत्यन्तराभावादस्तु लक्षणा । उदासीने मात्स्य- वाक्ये तु मुख्यविषयसम्भवे सानुचिता । यद्य- प्याधुनिकपुस्तकेषु क्वचिच्चतुश्चरणश्लोकोऽपि दृश्यते तथापि सप्तशत्यां गुप्तवतीटीकाकारा- दिभिस्त्रिपात्श्लोकस्यैव व्याख्यातत्वेन स एव सांप्रदायिकः पाठ इति बोध्यम् । यत्तु गाय- त्त्र्यर्थश्च विष्णु ध्यानं न तु शिवशक्तिसूर्य्यादि- ध्यानमित्युक्तं तत्तु नास्तिकत्वमूलकमेव । “मैत्रायणीयानां भर्गो वै रुद्रः ।” इति श्रुतौ प्रपञ्चसारादिसर्व्वतन्त्रेषु पुराणादिषु च शिव- सूर्य्यशक्त्यादिरूपार्थस्योक्तत्वाच्च तदुदाहृत- माग्नेयवाक्यन्तु विरोधत्वे नापेक्षं स्यादसति ह्यनुमानमिति न्यायात् स्तावकमेवेति । किञ्च । “हयग्रीवब्रह्मविद्या यत्र वृत्रवधस्तथा । गायत्त्र्या च समारम्भस्तद्वै भागवतं विदुः ॥” इति पुराणान्तरवाक्यमपि देवीभागवतस्यैव महापुराणत्वबोधकम् । तथा हि हयग्रीव- नामासुरो देवीभागवते प्रथमस्कन्धे प्रसिद्ध- स्तेनोपासिता ब्रह्मप्रतिपादिका विद्या स्त्री- दैवत्यो मन्त्रः । सा विद्या यत्र वर्त्तते तद्भागवत- मित्यर्थः । स दैत्यस्तदुपासिता विद्या चेत्युभय- मपि तत्रैव प्रथमस्कन्धे दर्शितम् । “जपन्नेकाक्षरं मन्त्रं मायाबीजात्मकं मम ॥” इत्यादिना ॥ ननु विष्णुभागवते पञ्चमस्कन्धेऽपि हयग्रीव- मन्त्रस्य सत्त्वादिदं वचनमुभयभागवतसाधारण मिति चेन्न । नारदीये शारदातिलकादिनिब- न्धेषु च । “मन्त्राः पुंदेवताः प्रोक्ता विद्याः स्त्रीदेवताः स्मृताः ॥” इत्यादिवचनैः स्त्रीदैवत्यमन्त्रेष्वेव विद्यापद- प्रयोगो न पुंदैवत्यमन्त्रेष्विति प्रतिपादनात् । क्वचित् पुंदैवत्यमन्त्रे तथाप्रयोगस्तु गौणः । न च गौणार्थमादाय तद्वचनस्य विष्णुभागवत- परत्वं कल्पितुमुचितम् । लक्षणारूपदोषापत्तेः । तस्मान्न तद्वचनमुभयसाधारणमिति देवीभाग- वतस्यैव महापुराणत्वं बोधयति । किञ्च सार- स्वतस्य कल्पस्येति मात्स्यवचनादपि देवीभाग- वतमेव महापुराणम् । अत्र ह्येवं प्रकरणशुद्धिः । ऋषय ऊचुः । “पुराणसंख्यामाचक्ष्व सूत ! विस्तरतः क्रमात् ।” इति मुनिप्रश्नोत्तरं ब्रह्मणाऽभिहितं पूर्ब्बं यत्तद्ब्राह्मं पद्मकल्पवृत्तान्ताश्रयं पाद्मं वराह- कल्पवृत्तान्ताश्रयं वैष्णवं श्वेतकल्पवृत्तान्ताश्रयं वायवीयमित्येवं तत्तत्कल्पवृत्तान्ताश्रयाणि पुरा- णान्युक्त्वा तदुत्तरम् । “यत्राधिकृत्य गायत्त्रीं वर्ण्यते धर्म्मविस्तरः । वृत्रासुरवधोपेतं तद्भागवतमिष्यते ॥” इति ॥ “स्वारस्वतस्य कल्पस्य मध्ये ये स्युर्नरामराः । तद्वृत्तान्तोद्भवं लोके तद्भागवतमिष्यते ॥” इत्युक्त्वा ततोऽन्यान्यपि महापुराणान्येव तत्तत्- कल्पवृत्तान्ताश्रयाणि दर्शितानि । पश्चादुप- पुराणकथनार्थमुपभेदान् प्रवक्ष्यामीति प्रतिज्ञाय पद्मपुराणान्नारसिंहं निर्गतमेवं नन्दिसाम्बा- दित्यसंज्ञकान्युक्त्वा अन्योपपुराणान्यपि महा- पुराणेभ्य एव निर्गतानीति । “अष्टादशभ्यस्तु पृथक् पुराणं यत् प्रदृश्यते । विजानीध्वं द्विजश्रेष्ठास्तदा तेभ्यो विनिर्गतम् ॥” इति वचनेन सूतऋषिरुक्तवान् ॥ ततः । “सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ॥” इत्यादिना पुराणलक्षणान्युक्त्वा, —
“सात्त्विकेषु च कल्पेषु महात्म्यमधिकं हरेः । राजसेषु च कल्पेषु माहात्म्यं ब्रह्मणो विदुः । तद्वदग्नेश्च माहात्म्यं तामसेषु शिवस्य च । सङ्कीर्णेषु सरस्वत्याः पितॄणां च निगद्यते ॥” इति वचनेन पुराणप्रतिपाद्यहरिब्रह्माग्निहर- सरस्वतीपितॄणां माहात्म्यसम्बन्धात् कल्पानां सात्त्विकराजसतामसत्वसङ्कीर्णत्वभेदैश्चातुविं- ध्यत्वमुक्तवानिति । तत्र कल्पानां तत्तद्देषता- सम्बन्धज्ञानन्तु तत्तत्कल्पाश्रिततत्तत्पुराणप्रति- पाद्यमुख्यदेवताज्ञानेनैव बोध्यम् । अन्यप्रकारस्य क्वचिदपि पुराणेष्वनुपलम्भात्तत्रैवं सति । “सारस्वतस्य कल्पस्य मध्ये ये स्युर्नरामराः । तद्वृत्तान्तोद्भवं लोके तद्भागवतमिष्यते ॥” इति वचनं भागवतस्य लक्षणप्रतिपादकं प्रति- पादितम् । तदर्थस्तु यथा गारुडकल्प इत्यत्र गरुडस्यायं गारुडः । यथा वा वाराहकल्प इत्यत्र वराहस्यायं वाराह इति व्युत्पत्तिः प्रसिद्धा । तद्वदेव सरस्वत्या अयं सारस्वत इति विग्रहः । “सरस्वत्यास्तथा कल्पो गौरीकल्पस्तथैव च ॥” इति कल्पनामसु सरस्वतीकल्पत्वेनैव कथित त्वाच्च । मत्स्यपुराणे उपन्त्याध्याये । “सङ्कीर्णेषु सरस्वत्याः पितॄणां कल्प उच्यते ॥” इति वचनेन तथैवोक्तत्वाच्च ब्रह्मविष्णुरुद्राणां कल्पवद्गौरीलक्ष्म्योः कल्पवच्च सरस्वतीकल्प- स्यार्थप्राप्तत्वाच्च तादृशसारस्वतकल्पसम्बन्धिनो ये देवमनुष्यास्तद्वृत्तान्तस्योद्भव उत्पत्तिर्यस्मात् तत्पुराणं भागवतं विदुः । तद्वृत्तान्तप्रदशकं यत् पुराणं तद्भागवतसं ज्ञकमिति यावत् । अत्र च तत्तद्देवतानामाविर्भावाश्रया ये ये कल्पास्ते तत्तन्नाम्ना व्यवह्रियन्ते । एतच्च तत्तन्नामक- कल्पाश्रितेषु पुराणेषु तत्तद्देवताया एव मुख्यत्वे- नोत्पत्तिप्रदर्शकवाक्यैर्लक्ष्मीकल्पादिकल्पाश्रित- कूर्म्मपुराणादिषु सर्व्वत्र प्रसिद्धमेव । तथा च मुख्यत्वेन सरस्वत्या आविर्भावप्रतिपादकं पुराणं यत् तद्भागवतमित्यतिरहस्यार्थः । तत्र सार- स्वतकल्प इति पदेनैव कल्पस्य सरस्वतीसम्बन्धे बोधिते तस्य सङ्कीर्णत्वं सङ्कीर्णेषु सरस्वत्या इति वचनेनेश्वरप्रेरणां विनापि गृहागतमेव । अस्मिंश्च वचने भागवतपदेन विष्णुभागवतस्य ग्रहणं बन्ध्यापुत्त्रोपममेव । तत्र मुख्यत्वेन सर- स्वत्याविर्भावस्यासत्त्वात् । विष्णुभागवते द्वितीय- स्कन्धे । “पाद्मं कल्पमथो शृणु ।” इति वचनेन स्वमुखेनैव स्वस्य पाद्मकल्पकथाश्रयत्वस्योक्त- त्वात् । तद्विरोधाच्च न च पाद्मकल्प एव सार- स्वतः । सरस्वान् समुद्रस्तस्माज्जातं कमलं सार- स्वतं तस्य कल्प इति व्यत्पत्त्येति वाच्यम् । “पद्मकल्पस्य वृत्तान्तं तत्र यस्मादुदाहृतम् । तस्मात् पाद्मं समाख्यातम् ॥” इति पूर्ब्बोदाहृतशिवपुराणवचनेन । “एतदेव यदा पाद्ममभूद्धैरण्मयं जगत् । तद्वृत्तान्ताश्रयं तद्बत् पाद्ममित्युच्यते बुधैः ॥ पाद्मं तत् पञ्चपञ्चाशत्सहस्राणीह कथ्यते ॥” इति मत्स्यपुराणवचनेन । “सारस्वतस्य कल्पस्य मध्ये येस्युर्नरामराः ।” इति वचनेन च पाद्मकल्पसारस्वतकल्पयोः पृथक्कथनात् । किञ्च सारस्वतकल्पपाद्मकल्पयो- रेकत्वे पद्मकल्पस्य प्रतिपादकं पुराणद्वयं पाद्मं भागवतञ्चेत्येव वदेत् किञ्च पद्मकल्पस्य वृत्तान्त- मित्यत्राभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुता इति न्यायेन पूर्ब्बं बुद्ध्यारूढं प्रसिद्धं पाद्मशब्दं विहायाप्रसिद्धं सारस्वतशब्दं पाद्मशब्दस्य वाचकं कृत्वा सारस्वतपदघटितकल्पने प्रयो- जनाभावः । किञ्च सरस्वत्यास्तथा कल्प इत्यादेः । पूर्ब्बोक्तस्य सारस्वतपदनिरुक्त्यर्थकस्य वचनसमूहस्य विरोधश्च । न च पाद्मकल्प- सारस्वतकल्पयोः पृथक्त्वे त्रिंशत्कल्पेषु मत्स्य- पुराणान्तिमाध्याये कीर्त्तितेषु सारस्वतपदेन पाद्मस्य ग्रहणं न स्यादिति वाच्यम् । प्रभास- खण्डे त्रिंशत्कल्पेषु विष्णुजकल्पार्चिषकल्पसुपु- मान्कल्पानां ग्रहणेऽपि तेषां कल्पानां यथा मात्स्यान्तिमाध्याये न ग्रहणं तथा पाद्मस्यापि न ग्रहणमित्यस्य तुल्यत्वात् । यदि तेषां पर्य्याय- त्वेन कुत्रचिदन्तर्भावः क्रियते तर्ह्यस्यापि कुत्र- चिदन्तर्भावोऽस्तु अतएव विष्णुभागवतस्य प्रबन्धटीकाकारेण पितृकल्पे एव पूर्ब्बार्द्धान्ते पद्मस्योद्भवात् पितृकल्पपदेन पाद्मसंग्रहो वेदि- तव्य इत्युक्तम् । पुराणकल्पकथनप्रस्तावे सार- स्वतकल्पपाद्मकल्पयोः पृथक्त्वकरणेन सारस्वत- पदेन पाद्मस्य सर्व्वथा न ग्रहणम् । वस्तुतस्तु त्रिंशत्कल्पा ब्रह्मणस्त्रिंशत्तिथ्यात्मकाः त्रिंश- त्तिथिषु प्रतिपदादिषूत्पद्यन्ते । भूर्भुवःसुवः भूर्भूवःसुव इत्यादयस्त्रयस्त्रिंशत्कल्पाः । पाद्मा- दयश्च वायुपुराणोक्ता दिनकल्पा ब्रह्मणः प्रति दिवसेषूत्पद्यन्ते इति दिनकल्पतिथिकल्पानां सुतरां भेदात्तिथिकल्पेषु दिनकल्पानां पाद्मा- दीनां न ग्रहणमिति सिद्धान्तः । यत्तु विष्णुभागवतस्यारम्भतः पाद्मकल्पाश्रय- त्वेऽपि कृष्णजन्मखण्डस्यैव सारस्वतकल्पभवत्वेन तस्य च दशमस्कन्धे सत्त्वात् । “सारस्वतस्य कल्पस्य मध्ये ये स्युर्नरामराः ॥” इति वचनस्य विष्णुभागवतं विषयोऽस्तीत्याहु- स्तदसत् । कृष्णजन्मखण्डस्य सारस्वतकल्पभवत्व- प्रतिपादकानां वचनानां निर्मूलत्वात् समूल- त्वेऽपि यस्मिन् पुराणे यस्य कल्पस्य प्रथमतः प्रतिपादनं तत्कल्पप्रतिपादकमेव तत्पुराणमिति नियमः सर्व्वपुराणे तथा दृष्टत्वात् । तथा च कृष्णजन्मखण्डस्य दशमस्कन्धे विद्यमानत्वेऽपि प्रथमतस्तत्कथाया अभावात्पाद्मकल्पकथायाः प्रथमतो विद्यमानत्वस्य स्वेनैवोक्तत्वाच्च । न सारस्वतस्य कल्पस्येति वचनस्य विष्णुभागवतं विषयः । किञ्च कृष्णजन्मखण्डस्य यथा दशम- स्कन्धे कथनं तदा सर्व्वपुराणेषु तत्कथनं वर्त्तत एवेति सर्व्वपुराणानां तद्वचनविषयत्वं स्यात्तथा च सर्व्वपुराणानि भागवतपदवाच्यानि स्युस्त- स्मात्सारस्वतकल्पस्य यत्र प्रथमतः प्रतिपादनं स एव तद्वचनस्य विषयो वक्तव्यस्तादृशञ्च देवीभागवतमेवास्तीति देवीभागवतमेव तद्वि- षयो वक्तव्य इति । किञ्च शिवपुराणे उमा- संहितायाम् । “ब्रह्मणा संस्तुता सेयं मधुकैटभनाशने । महाविद्या जगद्धात्री सर्व्वविद्याधिदेवता ॥ द्वादश्यां फाल्गुनस्यैव शुक्लायां समभून्नृप ! ॥” इति वचनात् फाल्गुनशुक्लद्वादश्यां देव्या उद्भवस्तद्दिने एव सारस्वतकल्पोद्भवस्तदुक्तं हेमाद्रौ कल्पश्राद्धप्रकरणे नागरखण्डे । “सारस्वतस्तु द्बादश्यां शुक्लायां फाल् गुनस्य च ।” इति ॥ तथा च सरस्वत्याः कल्प इत्यर्थकस्य । “सारस्वतस्य कल्पस्य मध्ये ये स्युर्नरामराः ॥” इति वचनस्य सर्व्वथा देवीभागवतमेव विषयो न विष्णुभागवतमिति बोध्यम् । किञ्च तस्य ग्रहणे तस्य हरिमाहात्म्यप्रतिपादकत्वात् । तदाश्रितकल्पस्य सात्त्विकत्वमेवायास्यति । “सात्त्विकेष्वथ कल्पेषु माहात्म्यमधिकं हरेः ।” इति वचनात् । ततश्च संकीर्णेषु सरस्वत्या इति वचनेन सारस्वतकल्प इति नाम्ना च पारम- हंस्यसामग्र्येव कर्त्तव्या स्यात् । अतो विष्णु- मागवतं विहाय देवीभागवतमेवास्य वचनस्य विषयोऽनिच्छतापि वक्तव्यस्तस्मात् सारस्वतस्य कल्पस्येति व चनाद्देवीभागवतमेव महापुराणम् । अस्ति चात्र सरस्वत्याविर्भावप्रतिपादकं वच- नम् । तदुक्तं देवीभागवते प्रथमस्कन्धे । “तस्यास्तु सात्त्विकी शक्ती राजसी तामसी तथा । महालक्ष्मीः सरस्वती महाकालीति ताः स्त्रियः । तासां तिसृणां शक्तीनां देहाङ्गीकारलक्षणः । सृष्ट्यर्थञ्च समाख्यातः सर्गः शास्त्रविशारदैः ॥” इति । “अम्बरीषशुकप्रोक्तं नित्यं भागवतं शृणु ।” इति वचनमपि शुकाय प्रोक्तमिति व्युत्पत्त्या देवीभागवतपरमपि सङ्गच्छते । भवति हि देवीभागवतं शुकायैव प्रोक्तं व्यासेनेति । किञ्च “अष्टादशपुराणानि कृत्वा सत्यवतीसुतः । भारताख्यानमखिलं चक्रे तदुपबृंहणम् ॥” इति मात्स्यवचनमपि देवीभागवतस्यैव महा- पुराणत्वं बोधयति । अष्टादशपुराणोत्तरं भारतस्य जातत्वात् । भारतोत्तरञ्च विष्णु- भागवतस्य जातत्वात् । भारतोत्तरकालं निर्व्विण्णो व्यासश्चकारेति विष्णुभागवते एवोक्त- त्वात् । ननु “वेदशाखाः पुराणानि वेदान्तं भारतन्तथा । कृत्वा सम्मोहसंमूढोऽभवं राजन् ! मन- स्यपि ॥” इति देवीभागवते तृतीयस्कन्धे एवोक्तत्वात्त- त्रापि सविरोधस्तदवस्थ एवेति चेन्न । मन्मते तदानीं ग्रन्थो नैव जातः किन्तु जनमेजयं प्रति एवं वक्तास्मीति ज्ञानचक्षुषा ज्ञात्वा भार- तात् पूर्ब्बमेव देवीभागवतं कृतमित्यर्थस्य कल्प- नात् । त्वन्मते तु तथा कल्पयितुं न शक्यते । चतुःश्लोकीभागवतोपदेशस्य जायमानत्वात् । उपदेशात् पूब्ब तज्ज्ञानाभावस्यावश्यं कल्प- नीयत्वात् । यदि तत्रापि पूर्ब्बं व्यासस्य ज्ञान- मस्तीति स्वीक्रियते तदा वक्ष्यमाणः सर्व्वोप्यर्थ- वादः स्यात् । ततश्च ग्रन्थसारस्यभङ्गप्रसङ्ग इत्यास्तां तावत् । वस्तुतस्तु वेदशाखाः पुराणा- नीति पाठोऽसङ्गत इति वक्ष्यते तृतीयस्कन्धे तदा न कोऽपि विरोधः । यत्तु पाद्मे भागवत- माहात्म्ये श्रीमद्भागवतकथाश्रवणाय समा- गतानां परिगणनप्रसङ्गे । “वेदान्तानि च वेदाश्च मन्त्रास्तन्त्राणि संहिताः । दशसप्तपुराणानि षट्शास्त्राणि समाययुः ॥” इत्युक्तम् । तत्र व्यासकृतपुराणानामष्टादशत्वा- दष्टादशेति वक्तव्ये सप्तदशत्वोक्तिः श्रीमद्भागवत- स्याष्टादशत्वं गमयति तस्याष्टादशानन्तर्गतत्वे देवीभागवतस्याष्टादशान्तर्गतत्वे वाष्टादशानां श्रोतृत्वसम्भवेन श्रोतुमागतानां पुराणाना- मष्टादशत्वानुक्तेर्निर्बीजत्वप्रसङ्गात् । एवं पाद्मे “सप्तदशपुराणानि कृत्वा सत्यवतीसुतः । नाप्तवान्मनसा तोषं भारतेनापि भामिनि ! ॥ चकार संहितामेतां श्रीमद्भागवतीं पराम् ॥” इति सप्तदशत्वोक्तिः श्रीमद्भागवतस्यैवैतां संहि- तामिति निर्द्दिष्टस्याष्टादशत्वं गमयति । देवीभागवतस्याष्टादशत्वेऽष्टादशपुराणानीत्य- नुक्तेर्निर्बीजत्वप्रसङ्गादित्याहुस्तदसत् । तेषा- मेव वचनैर्विष्णुभागवतस्याष्टादशपुराणान्त- र्गतत्यं न सिध्यति । किन्तु देवीभागवतस्यैवेति वार्द्धुषिकत्वं कुर्व्वाणो मूलमेव विनाशितवा- निति न्याय आगतः । तथा हि भारतं व्यास- मुखाच्छ्रुत्वा तत्र सन्दिहानः क्रौष्टुकिर्मार्कण्डेयं प्रत्यागत्य सन्देहं पृष्ठवान् तस्मै मा
शब्दकल्पद्रुमः
भागवतः || त्रि (भगवान् हरिः भगवती दुर्गा वास्य देवतेति । भगवत् + “सास्य देवता ।” ४ । २ । २४ । इति अण् ।)
भगवद्भक्तः । तस्य लक्षणम् । यथा, “सर्व्वदेवान् परित्यज्य नित्यं भगवदाश्रयः । रतस्तदीयसेवायां स भागवत उच्यते ॥” इति पाद्मोत्तरखण्डे ९९ अध्यायः ॥ * ॥
स च यमदूतैस्त्याज्यः । यथा, —
“ये तु भागवता लोके तच्चित्तास्तत्परायणाः । पूजयन्ति सदा विष्णुं ते च त्याज्याः सुदूरतः ॥” इति वह्निपुराणे दूतान् प्रति यमवचनम् ॥ स्कान्दे श्रीमार्कण्डेयभगीरथसंवादे । “दशमीशेषसंयुक्तं दिनं वैष्णववल्लभम् । ह्युपासते महीपाल ! ते वै भागवता नराः ॥ प्राणात्यये न चाश्नन्ति दिनं प्राप्य हरेर्नराः । कुर्व्वन्ति जागरं रात्रौ सदा भागवता हि ते ॥ उपोष्य द्बादशीं शुद्धां रात्रौ जागरणान्विताम् । अल्पां तु साधयेद्यस्तु स वै भागवतो वरः ॥ भक्तिर्न विच्युता येषां न च्युतानि व्रतानि च ॥ सुप्रियः श्रीपतिर्येषां ते स्युर्भागवता नराः ॥ सदाचाररताः शिष्टाः सर्व्वभूतानुकम्पकाः । शुचयस्त्यक्तरागा ये सदा भागवता हि ते ॥” एकादशस्कन्धे । “सर्व्वभूतेषु यः पश्येद्गगवद्भावमात्मनः । भूतानि भगवत्यात्मन्येष भागवतोत्तमः ॥ न यस्य स्वपर इति वित्तेष्वात्मनि वा भिदा । सर्व्वभूतसमः शान्तः स वै भागवतोत्तमः ॥” हरियोगेश्वरोत्तरे । “गृहीत्वापीन्द्रियैरर्थान् यो न द्बेष्टि न काङ्क्षति । विष्णोर्मायामिदं पश्यन् स वै भागवतोत्तमः ॥” बृहन्नारदीये । “शिवे च परमेशाने विष्णौ च परमात्मनि । समबुद्ध्या प्रवर्त्तन्ते ते वै भागवतोत्तमाः ॥” स्कान्दे । “येषां भागवतं शास्त्रं सदा तिष्ठति सन्निधौ । पूजयन्ति च ये नित्यं ते स्युर्भागवता नराः ॥ येषां भागवतं शास्त्रं जीवितादधिकं भवेत् । महाभागवताः श्रेष्ठा विष्णुना कथिता नराः ॥” लैङ्गे । “भोजनाच्छादनं सर्व्वं यथाशक्त्या ददाति यः । विष्णुभक्तस्य सततं स वै भागवतः स्मृतः ॥” गारुडे । “येन सर्व्वात्मना विष्णुभक्त्या भावो निवेशितः । वैष्णवेषु कृतात्मत्वान्महाभागवतो हि सः ॥” बृहन्नारदीये । “तुलसीकाननं दृष्ट्वा ये नमस्कुर्व्वते नराः । तत्काष्ठाङ्कितकर्णा ये ते वै भागवतोत्तमाः ॥ तुलसीगन्धमाघ्राय सन्तोषं कुर्व्वते तु ये । तन्मूलमृद्धृता यैश्च ते वै भागवतोत्तमाः ॥ मत्कथाश्रवणे येषां वर्त्तते सात्त्विकी मतिः । तद्वक्तरि सुभक्ताश्च ते वै भागवतोत्तमाः ॥” स्कान्दे । “मत्कथां कुरुते यस्तु मत्कथाञ्च शृणोति च । हृष्यते मत्कथायाञ्च स वै भागवतोत्तमः ॥” बृहन्नारदीये । “मन्मानसाश्च मद्भक्ता मद्भक्तजनलोलुपाः । मन्नामश्रवणासक्तास्ते वै भागवतोत्तमाः ॥ येऽभिनन्दन्ति नामानि हरेः शृण्वन्ति हर्षिताः । रोमाञ्चितशरीराश्च ते वै भागवतोत्तमाः ॥ अन्येषामुदयं दृष्ट्वा येऽभिनन्दन्ति मानवाः । हरिनामपरा ये च ते वै भागवतोत्तमाः ॥” स्कान्दे । “येऽर्च्चयन्ति सदा विष्णुं यज्ञेश वरदं हरिम् । देहिनः पुण्यकर्म्माणः सदा भागवता हि ते ॥” लैङ्गे । “विष्णुक्षेत्रे शुभान्येव करोति स्नेहसंयुतः । प्रतिमाञ्च हरिर्नित्यं पूजयेत् प्रयतात्मवान् ॥ विष्णुभक्तः स विज्ञेयः कर्म्मणा मनसा गिरा । नारायणपरो नित्यं भूप ! भागवतो हि सः ॥” पाद्मोत्तरखण्डे । “तापादिपञ्चसंस्कारी नवेज्याकर्म्मकारकः । अर्थपञ्चकविद्विप्रो महाभागवतो हि सः ॥ एकान्तेन सदा विष्णौ यस्माद्देवे परायणाः । तस्मादेकान्तिनः प्रोक्तास्तद्भागवतचेतसः ॥” एकादशस्कन्धे । “ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश्चास्मि यादृशः । भजन्त्यनन्यभावेन ते वै भागवता मताः ॥ न कामकर्म्मबीजानां यस्य चेतसि सम्भवः । वासुदेवैकनिलयः स वै भागवतोत्तमः ॥” स्कान्दे । “यस्य कृच्छ्रगतस्यापि केशवे रमते मनः । न विच्युता च भक्तिर्वै स वै भागवतो नरः ॥ आपद्गतस्य यस्येह भक्तिरव्यभिचारिणी । नान्यत्र रमते चित्तं स वै भागवतो नरः ॥” हरियोगेश्वरोत्तरे । “विसृजति हृदयं न यस्य साक्षा- द्धरिरवशाभिहितोऽप्यघौघनाशः । प्रणयरसनया धृताङ्घ्रिपद्मः स भवति भागवतप्रधान उक्तः ॥” मध्यममाह तत्रैव । “ईश्वरे तदधीनेषु वालिशेषु द्विषत्सु च । प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥” कनिष्ठस्तत्रैव । “अर्च्चायामेव हरये पूजां यः श्रद्धयेहते । न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥” इति श्रीहरिभक्तिविलासे १० विलासः ॥