संस्कृत-शब्दकोशः

भागुरि भाङ्गीन

भाग्य

वाचस्पत्यम्

भाग्य ||‍ न० भज—ण्यत् कुत्वम् । १ शुभाशुभसूचके कर्मजन्ये- ऽदृष्टे अमरः । भागः प्रयोजनमस्य यत् । २ भागार्थे त्रि० । भागमर्हति यत् । ३ भागार्हे त्रि० ।


शब्दकल्पद्रुमः

भाग्यं || क्ली (भज्यतेऽनेन इति । भज + “ऋहलो- र्ण्यत् ।” ३ । १ । १२४ । इति ण्यत् । “चजोः कु घिण्ण्यतोः ।” ७ । ३ । ५२ । इति कुत्वम् ।)
प्राक्तनशुभाशुभकर्म्म । तत्पर्य्यायः । दैवम् २ दिष्टम् ३ भागधेयम् ४ नियतिः ५ विधिः ६ । इत्यमरः । १ । ४ । १८ ॥ प्राक्तनकर्म्म ७ भागः ८ भवितव्यता ९ । इति जटाधरः ॥ अदृष्टम् १० । इति शब्दरत्नावली ॥ फलोन्मुखीभूत- पूर्ब्बदैहिकशुभाशुभं कर्म्म । इति मलमास- तत्त्वम् ॥ (यथा, —
“समुद्रमन्थने लेभे हरिर्लक्ष्मीं हरो विषम् । भाग्यं फलति सर्व्वत्र न विद्या न च पौरुषम् ॥” इति प्राञ्चः ॥ उत्तरफल्गुनीनक्षत्रम् । यथा, बृहत्संहि- तायाम् । १० । १ । “श्रवणानिलहस्तार्द्रा- भरणीभाग्योपगः सुतोऽर्कस्य । प्रचुरसलिलोपगूढां करोति धात्रीं यदि स्निग्धः ॥” भागो वृद्धादिरस्मिन् दीयते इति । भाग + “भागाद्यच्च ।” ५ । १ । ४९ । इति यत् ।)
भागिके, त्रि । इति सिद्धान्तकौमुदी ॥ (भाग- मर्हति । भाग + “दण्डादिभ्यो यत् ।” ५ । १ । ६६ । इति यत् ।)
भागार्हम् । (भज + ण्यत् । भजनीयम् ॥)



Correction: