संस्कृत-शब्दकोशः

भातु भाद्रपद

भाद्र

वाचस्पत्यम्

भाद्र ||‍ पु० भद्राभिर्युक्ता पौर्णमासी भाद्री सा यस्मिन् भासे अण् । चैत्रादितः मष्ठे चान्द्रे १ मासे अमरः । २ तन्मा- सीयपौर्णमास्यां स्त्री ङीप् । भद्रेव स्वार्थे अण् । ३ पूर्वोत्तरभाद्रपदाख्यनक्षत्रे न० । “भाद्रद्वये सागरे” ज्योतिषम् । ४ भाद्र्या पौर्णमास्यायुक्ते पक्षे तथाविधे ५ गुरुवर्षे च कार्त्तिकशब्दे दृश्यम् ।


शब्दकल्पद्रुमः

भाद्रः || पुं, (भाद्री पौर्णमास्यस्मिन्निति । भाद्री + “सास्मिन् पौर्णमासीति ।” ४ । २ । २१ । इत्यण् ।)
भाद्रपदनक्षत्रयुक्ता पौर्णमासी यस्मिन् मासे सः । वैशाखादिद्वादशमासान्तर्गतपञ्चम- मासः । तत्पर्य्यायः । नभस्यः २ प्रौष्ठपदः ३ भाद्र- पदः ४ । इत्यमरः । १ । ४ । १७ ॥ स च द्विविधः । सिंहस्थरविकालः सौरः । १ । सिंहस्थरव्या- रब्धशुक्लप्रतिपदादिदर्शान्तो मुख्यचान्द्रः । कृष्ण- प्रतिपदादिपौर्णमास्यन्तो गौणचान्द्रः । २ । इति मलमासतत्त्वम् ॥ * ॥
तत्र जातफलम् । “नभस्यमासे खलु जन्म यस्य धीरो मनोज्ञश्च वराङ्गनानाम् । रिपुप्रमाथी कुटिलोऽतिमर्म्मा प्रपन्नभर्त्ता स भवेत् सहासः ॥” इति कोष्ठीप्रदीपः ॥ * ॥
तत्र गोः प्रसवे नारदः । “भानौ सिंहगते चैव यस्य गौः सम्प्रसूयते । मरणं तस्य निर्द्दिष्टं षड्भिर्मासैर्न संशयः ॥ तत्र शान्तिं प्रवक्ष्यामि येन सम्पद्यते शुभम् । प्रसूतां तत्क्षणादेव तां गां विप्राय दापयेत् ॥ ततो होमं प्रकुर्व्वीत घृताक्तै राजसर्षपैः । आहुतीनां घृताक्तानामयुतं जुहुयात्ततः ॥” व्याहृतिभिश्चायं होमः । “सोपवासः प्रयत्नेन दद्याद्बिप्राय दक्षिणाम् ॥” इति ॥ तथा । “सिंहराशौ गते सूर्य्ये गोः प्रसूतिर्यदा भवेत् । पौषे च महिषी सूते दिवैवाश्वतरी तथा । तदानिष्टं भवेत् किञ्चित् तच्छान्त्यै शान्तिकं चरेत् ॥ अस्य वामेतिसूक्तेन तद्विष्णोरिति मन्त्रतः । जुहुयाच्च तिलाज्येन शतमष्टोत्तराधिकम् ॥ मृत्युञ्जयविधानेन जुहुयाच्च तथायुतम् । श्रीसूक्तेन ततः स्नायात् शान्तिसूक्तेन वा पुनः ॥ मध्यरात्रौ निशीथे वा यदा गौः क्रन्दते तदा । ग्रामे वास्य गृहे वापि शान्तिकं पूर्ब्बवद्दिशेत् ॥” संक्रमणोत्तरषोडशदण्डात्मकपुण्यकालाभ्यन्तरे गोः प्रसवे विप्रसम्प्रदानकगोप्रदानपूर्ब्बकशान्तिः कार्य्या इति विशेषः । तदतिरिक्तसिंहस्थरवौ गोः प्रसवे शान्तिमात्रं कर्त्तव्यं न गोः प्रदानम् । निर्णयसिन्धुधृताद्भुतसागरग्रन्थीयवचनजात- मीमांसानुसारादिति ॥ * ॥
अथ भाद्रकृत्यम् । तत्र जन्माष्टमीव्रतप्रमाणन्तिथितत्त्वेऽनुसन्धेयम् । श्रावणपौर्णमास्यनन्तरितभाद्रकृष्णाष्टम्यां रात्रि- मध्ये मुहूर्त्ताष्टमीरोहिणीयोगरूपजयन्तीलाभे तत्रैवोपवासः । उभयदिने चेत्तदा परदिने । जयन्त्यलाभे तु रोहिणीयुक्ताष्टम्यां उभयदिने रोहिणीयुताष्टमीलाभे परदिने । रोहिण्यलाभे तु निशीथसम्बन्धिन्यामष्टम्याम् । उभयदिने निशीथसम्बन्धे तदसम्बन्धे वा परदिने इति । तत्र प्रयोगः पूर्ब्बदिने संयमं विधाय तद्दिने कृतप्रातःस्नानादिराचान्तः । ॐ सूर्य्यः सोम इति पठित्वा ॐ तद्विष्णोः परमं पदमित्यादि- मन्त्रेण नारायणं संस्मृत्य ॐ तत् सत् इत्युच्चार्य्य उदङ्मुखो दर्भहस्तस्ताम्रपात्रे कुशतिलजला- न्यादाय ॐ अद्य भाद्रे मासि कृष्णे पक्षे अष्टम्यां तिथौ अमुकगोत्रः श्रीअमुकदेवशर्म्मा विष्णु- लोकप्राप्तिकामः श्रीविष्णुप्रीतिकामो वा श्रीकृष्ण- जन्माष्टमीव्रतमहं करिष्ये इति संकल्पयेत् । यद्युपवासदिने प्रातः सप्तमी तदाष्टम्यां तिथौ इत्यत्र सप्तम्यां तिथावारभ्य इति वक्तव्यम् । ततः सामगस्तु ॐ देवो वो द्रविणोदा पूर्णां विवष्टासिचं उद्वासिञ्चद्धमुपवा प्रणुद्धमादिदिवो देव ओहते । इति पठेत् । ॐ धर्म्माय धर्म्मे- श्वराय धर्म्मपतये धर्म्मसम्भवाय गोविन्दाय नमो नमः । इत्युच्चार्य्य “ॐ वासुदेवं समुदिश्य सर्व्वपापप्रशान्तये । उपवासं करिष्यामि कृष्णाष्टम्यां नभस्यहम् ॥ अद्य कृष्णाष्टमीं देवीं नभश्चन्द्रसरोहिणीम् । अर्च्चयित्वोपवासेन भोक्ष्येऽहमपरेऽहनि ॥ एनसो मोक्षकामोऽस्मि यद्गोविन्द त्रियोनिजम् । तन्मे मुञ्चतु मां त्राहि पतितं शोकसागरे ॥ आजन्ममरणं यावद्यन्मया दुष्कृतं कृतम् । तत् प्रणाशय गोविन्द ! प्रसीद पुरुषोत्तम ! ॥” इति पठेत् । तत आह्निकं समाप्यार्द्धरात्रे तत्तत्प्रतिमासु पटादिषु वा आवाहनविसर्ज्जनसहितं शाल- ग्रामे घटादिस्थजले वा आवाहनविसर्ज्जन- रहितं पूजयेत् । ततो ध्यानम् । “माञ्चापि बालकं सुप्तं पर्य्यङ्के स्तनपायिनम् । श्रीवत्सवक्षःपूर्णाङ्गं नीलोत्पलदलच्छविम् ॥” इति ध्यात्वा श्रीकृष्ण स्वागतं इति पृच्छेत् । इदमासनं ॐ कृष्णाय नमः । इत्यासनं दत्त्वा एतत् पाद्यम् ॐ श्रीकृष्णाय नमः ॐ यज्ञाय यज्ञेश्वराय यज्ञपतये यज्ञसम्भवाय गोविन्दाय नमो नमः । इत्युच्चार्य्य इदमर्घ्यम् ॐ श्रीकृष्णाय नमः । इदमाचमनीयम् ॐ श्रीकृष्णाय नमः । इदमाचमनीयम् ॐ श्रीकृष्णाय नमः । ततो दधिमधुघृतात्मकं मधुपर्कमानीय एष मधुपर्कः ॐ श्रीकृष्णाय नमः । इदमाचमनीयम् ॐ श्रीकृष्णाय नमः । लौकिकषष्ट्यधिकशतत्रय- तोलकपरिमितान्यूनं जलमानीय ॐ योगाय योगेश्वराय योगपतये योगसम्भवाय गोविन्दाय नमो नमः । इदं स्नानीयजलम् ॐ श्रीकृष्णाय नमः । इदं वस्त्रं इदमाभरणम् एष गन्धः इदं पुष्पम् एष धूपः एष दीपः इदं नैवेद्यम् ॐ विश्वाय विश्वेश्वराय विश्वपतये विश्वसम्भवाय गोविन्दाय नमो नमः । इत्यनेन नैवेद्यं दद्यात् स्वापयेच्च । ततो नमो देव्यै श्रियै नमः । इति मन्त्रेण श्रियं पूजयेत् । ततः स्वगृह्योक्त- विधिनाग्निं संस्थाप्य घृततिलाभ्याम् । ॐ धर्स्माय धर्म्मेश्वराय धर्म्मपतये धर्म्मसम्भवाय गोविन्दाय नमो नमः स्वाहा । इत्यन्तेनाष्टो- त्तरशतमष्टाविंशतिमष्टौ वा जुहुयात् । ततो गुडघृतेन वसोर्धारां भित्तौ दद्यात् । ततो नाडीच्छेदं भावयेत् । ॐ षष्ठ्यै नम इति षर्ष्ठां पूजयेत् । ततो भगवतः श्रीकृष्णस्य नामकरणान्न- प्राशनचूडाकरणोपनयनोद्वाहसंस्कारान् भाव- येत् । ततः प्रणवादिनमोऽन्तेन तत्तन्नामभिः पूजयेत् । ॐ देवक्यै नमः एवं वसुदेवाय यशो- दायै नन्दाय रोहिण्यै चण्डिकायै बलदेवाय दक्षाय गर्गाय चतुर्म्मुस्वाय इत्यनेन यथाशक्ति पञ्चोपचारैः पूजयेत् । ततः शङ्खेन कुशपुष्प- चन्दनजलान्यादाय भूमौ जानुनी पातयित्वा, ॐ क्षीरोदार्णवसंभूत अत्रिनेत्रसमुद्भव ! । गृहाणार्ध्यं शशाङ्केदं रोहिण्या सहितो मम ॥ ॐ सोमाय सोमेश्वराय सोमपतये सोमसम्भवाय गोविन्दाय नमो नमः । इत्यर्ध्यं दद्यात् । ततः प्रणाममन्त्रौ । “ॐ ज्योत्स्नायाः पतये तुभ्यं ज्योतिषां पतये नमः । नमस्ते रोहिणीकान्त ! सुधावास नमोऽस्तु ते ॥ नभोमण्डलदीपाय शिरोरत्नाय धूर्ज्जटेः । कलाभिर्वर्द्धमानाय नमश्चन्द्राय चारवे ॥” ततश्च । “अनघं वामनं शौरिं वैकुण्ठं पुरुषोत्तमम् । वासुदेवं हृषीकेशं माधवं मधुसूदनम् ॥ वराहं पुण्डरीकाक्षं नृसिंहं दैत्यसूदनम् । दामोदरं पद्मनाभं केशवं गरुडध्वजम् ॥ गोविन्दमच्युतं देवमनन्तमपराजितम् । अधोक्षजं जगद्बीजं स्वर्गस्थित्यन्तकारिणम् ॥ अनादिनिधनं विष्णुं त्रिलोकेशं त्रिविक्रमम् । नारायणं चतुर्ब्बाहुं शङ्खचक्रगदाधरम् ॥ पीताम्बरधरं नित्यं वनमालाविभूषितम् । श्रीवत्साङ्कं जगत्सेतुं श्रीकृष्णं श्रीधरं हरिम् । प्रपद्येऽहं सदा देवं सर्व्वकामप्रसिद्धये ॥” इति स्तवः ॥ ततः प्रणमेत् । “प्रणमामि सदा देवं वासुदेवं जगत्पतिम् । त्राहि मां सर्व्वदेवेश हरे ! संसारसागरात् ॥” ततः प्रार्थयेत् । “ॐ त्राहि मां सर्व्वपापघ्न दुःखशोकार्णवाद्धरे ! । सर्व्वलोकेश्वर त्राहि पतितं मां भवार्णवे ॥ देवकीनन्दन श्रीश हरे संसारसागरात् । त्राहि मां सर्व्वदुःखघ्न रोगशोकार्णवाद्धरे ! ॥ दुर्गतांस्त्रायसे विष्णो ये स्मरन्ति सकृत् सकृत् । सोऽहं देवातिदुर्व्वृत्तस्त्राहि मां दुःखसागरात् ॥ पुष्कराक्ष निमग्नोऽहं मायाविज्ञानसागरे । त्राहि मां देवदेयेश ! त्वत्तो नान्योऽस्ति रक्षिता ॥” इति प्रार्थयेत् ॥ “यद्वाल्ये यच्च कौमारे वार्द्धके यच्च यौवने । तत् पुण्यं वृद्धिमाप्नोतु पापं हर हलायुध ! ॥” इति वदेत् ॥ ततो नृत्यगीतवादित्रस्तवैः कालं नयेत् । पर- दिने प्रातःस्नानादिकं कृत्वा भगवन्तं श्रीकृष्णं यथाविधि संपूज्य दुर्गायाश्च महोत्सवः कार्य्यः । ततो ब्राह्मणान् भोजयेत् तेभ्यो दक्षिणां दद्यात् सुवर्णादि यत् किञ्चिदिष्टतमं श्रीकृष्णो मे प्रीयता- मिति । “ॐ यं देवं देवकी देवी वसुदेवादजीजनत् । भौमस्य ब्रह्मणो गुप्त्यै तस्मै ब्रह्मात्मने नमः ॥ सुब्रह्मवासुदेवाय गोब्राह्मणहिताय च । शान्तिरस्तु शिवञ्चास्तु इत्युच्चार्य्य विसर्ज्जयेत् ॥” ततश्चोपवासपरदिने तिथिनक्षत्रयोरवसाने पारणम् । यदा तु महानिशायाः पूर्ब्बमेकतर- स्यावसानं अन्यतरस्य महानिशायां तदनन्तरं वा तदैकतरावसाने पारणम् । यदा तु महानि- शायामुभयस्थितिः तदा उत्सवान्ते पारणं कुर्य्यात् । तत्र मन्त्रः । ॐ सर्व्वाय सर्व्वेश्वराय सर्व्वपतये सर्व्वसम्भवाय गोविन्दाय नमो नमः । पारणानन्तरन्तु समापनमन्त्रः । ॐ भूताय भूतेश्वराय भूतपतये भूतसम्भवाय गोविन्दाय नमो नमः । इत्यनेन व्रतं समापयेत् ॥ * ॥
भाद्रशुक्लपञ्चमीमधिकृत्य भविष्योत्तरे । “तथा भाद्रपदे मासि पञ्चम्यां श्रद्धयान्वितः । यस्त्वालिख्य नरो भक्त्या कृष्णवर्णादिवर्णकैः । पूजयेद्गन्धपुष्पैश्च सर्पिर्गुग्गुलुपायसैः ॥ तस्य तुष्टिं समायान्ति पन्नगास्तक्षकादयः । आसप्तमात् कुलात्तस्य न भयं सर्पतो भवेत् । तस्मात् सर्व्वप्रयत्नेन नागान् संपूजयेन्नरः ॥ इयमेवालेख्यनागपञ्चमीति वाचस्पतिमिश्राः । आलेख्यनागाः कर्कोटकादयः पूर्ब्बलिखिताः पूजा च श्रावणपञ्चमीविहितेति बोध्यम् ॥ * ॥
अथ हरेः पार्श्वपरिवर्त्तनम् । तत्र द्वादश्यां सन्धिसमये नक्षत्राणामसम्भवे । आभाका- सितपक्षेषु शयनावर्त्तनादिकमिति ब्रह्मपुरा- णात् ॥ भाद्रशुक्लद्वादश्यां श्रवणमध्ययुक्तायां सन्ध्यासमये द्वादश्यामृक्षाभावे एकादश्यादिषु पादयोगे तदभावेऽपि द्वादश्यां केवलायां वा कृताह्निकः सायं सन्ध्यायां देवं संपूज्य । “ॐ वासुदेव जगन्नाथ प्राप्तेयं द्बादशी तव । पार्श्वेन परिवर्त्तस्व सुखं स्वपिहि माधव ! ॥” इति प्राञ्जलिः पठेत् ॥ “त्वयि सुप्ते जगन्नाथ ! जगत् सुप्तं भवेदिति । प्रबुद्धे त्वयि बुध्येत जगत् सर्व्वं चराचरम् ॥” इत्यनेन पूजयेत् ॥ * ॥
अथ सिंहार्के चतुर्थ्यां चन्द्रदर्शनप्रायश्चित्तम् । सिंहार्कमधिकृत्य ब्रह्मपुराणम् । “नारायणोऽभिशप्तस्तु निशाकरमरीचिषु । स्थितश्चतुर्थ्यामद्यापि मनुष्यानापतेच्च सः ॥ अतश्चतुथ्यां चन्द्रन्तु प्रमादाद्वीक्ष्य मानवः । पठेद्धात्रेयिकावाक्यं प्राङ्मुखो वाप्युदङ्मुखः ॥” अभिशप्तो मिथ्यापरीवादविषयीभूतः । सोऽभि- शापः अद्यापि मनुष्यान् पतेत् । ततश्च प्राङ्मुख उदङ्मुखो वा कुशतिलजलान्यादाय ॐ अद्येत्यादि सिंहार्कचतुर्थीचन्द्रदर्शनजन्य- पापक्षयकामो धात्रेयीवाक्यमहं पठिष्ये । इति संकल्प्य । “ॐ सिंहः प्रसेनमवधीत् सिंहो जाम्बवता हतः । सुकुमारक ! मा रोदीस्तव ह्येष स्यमन्तकः ॥” इति विष्णुपुराणोक्तं धात्रेयीवाक्यं पठेत् ॥ * ॥
अथानन्तव्रतम् । तत्र यद्दिने पूर्ब्बाह्णलाभस्तद्दिने व्रतम् । उभयदिने चेत् परदिने युग्मात् । व्रतानु- ष्ठानविधिस्तु पद्धतौ ज्ञेयः ॥ * ॥
अथागस्त्यार्घ्य- दानम् । प्रमाणन्तु तिथितत्त्वेऽनुसन्धेयम् । सिंहस्थरविकर्त्तव्यत्वेन सौरमासादरः । कन्यार्क- संक्रान्तिपूर्ब्बदिनत्रयाभ्यन्तरे कृतस्नानादिकृता- ह्निकस्तिलकुशजलान्यादाय ॐ तत् सदित्युच्चार्य्य ॐअद्येत्यादि सर्व्वाभिलषितसिद्धिकामोऽगस्त्य- पूजनमहं करिष्ये इति संकल्प्य शालग्रामे जले वा दक्षिणामुखः एतत् पाद्यम् ॐ अग- स्त्याय नमः । सितपुष्पाक्षतयुक्तं जलं शङ्खेन गृहीत्वा इदमर्घ्यम् । ॐ काशपुष्पप्रतीकाश अग्निमारुतसम्भव । मित्रावरुणयोः पूत्त्र कुम्भयोने नमोऽस्तु ते ॥ ॐ अगस्त्याय नमः । एवमाचमनीयस्नानीय- गन्धपुष्पधूपदीपनैवेद्यादिकं दद्यात् । ॐ आतापिर्भक्षितो येन वातापिच्च महासुरः । समुद्रः शोषितो येन स मेऽगस्त्यः प्रसीदतु ॥” इति प्रार्थयेत् ॥ इति कृत्यतत्त्वम् ॥



Correction: