संस्कृत-शब्दकोशः

भाद्रपदा भान

भाद्रमातुर

वाचस्पत्यम्

भाद्रमातुर ||‍ पु० भद्रायाः सत्याः मातुः अपत्यम् अण् मातु- रुत् । सतीपुत्रे हेमच० ।


शब्दकल्पद्रुमः

भाद्रमातुरः || पुं, (भद्रमातुरपत्यमिति । भद्रमातृ + “मातुरुत्संख्यासम्भद्रपूर्ब्बायाः ।” ४ । १ । ११५ । इति अण् । “उकाराश्चान्तादेशः ।” इति काशिका ।)
सतीतनयः । “सत्यास्तु तनये साम्मा- तुरवद्भाद्रमातुरः ।” इति हेमचन्द्रः । ३ । २१० ॥



Correction: