वाचस्पत्यम्
भानेमि || पु० भानोः नेमिरिव । १ सूर्य्ये २ अर्कवृक्षे च त्रिका० ।
शब्दकल्पद्रुमः
भानेमिः || पुं, (भानां प्रभाचक्राणां नेमिरिव ।) सूर्य्यः । इति त्रिकाण्डशेषः ॥