वाचस्पत्यम्
भाम || क्रोधे भ्वा० आत्म० अक० सेट् । भामते अभामिष्ट बभामे ।
वाचस्पत्यम्
भाम || पु० भाम—घञ् । १ क्रोधे निघण्टुः । भा—भावे म । २ दीप्तौ च । कर्त्तरि स । ३ सूर्य्ये मेदि० । ४ अर्कवृक्षे च । ५ भ- गिनीपतौ पु० शब्दरत्ना ६ कोपनायां स्त्रियां स्त्री मेदि० ।
शब्दकल्पद्रुमः
भाम || ङ क्रोधे । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-अक०-सेट् ।)
ङ, भामते । इति दुर्गा- दासः ॥
शब्दकल्पद्रुमः
भाम || त् क कोपने । इति कविकल्पद्रुमः ॥ अदन्त- चुरा०-पर०-अक०-सेट् ।)
अवभामत् । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
भामः || पुं, (भामनमिति । भाम क्रोधे + घञ् ।)
क्रोधः । (यथा, ऋग्वेदे । ५ । २ । १० । “मदेचिदस्य प्ररुजन्ति भामा न वरन्ते परिबाधो अदेवीः ॥” “भामाः क्रोधा दीप्तयो वा ।” इति तद्भाष्ये सायनः ॥ भातीति । भा + “अर्त्तिस्तुसुहुसृधृ- क्षिक्षुभायावापदीति ।” उणा० १ । १३९ । इति मन् ।)
सूर्य्यः । (भा + भावे मन् ।)
दीप्तिः । इति मेदिनी । मे, २१ ॥ भगिनीपतिः । इति शब्द- रत्नावली ॥ (यथा, देवीभागवते । ६ । १६ । ४९ । “गुरुं मित्रं तथा भामं पुत्त्रञ्च भगिनीं तथा ॥”)