वाचस्पत्यम्
भारवाह(ह्) || त्रि० भारं वहति अण् ण्वि वा । भार- वाहिनि ण्वुल् । भारवाहकोऽप्यत्र । अमरः स्त्रियां ङीप् ण्विप्रत्ययान्तस्य शसादावजादौ ङीपि च ऊठ् । भारौहः भारौही ।
शब्दकल्पद्रुमः
भारवाहः || पुं, (भारं वहतीति । वह् + “कर्म्म- ण्यण् ।” ३ । २ । १ । इत्यण् ।)
भारिकः । इत्यमरः । २ । १० । १५ ॥ (यथा, महाभारते । ३ । १३३ । १ । “अन्धस्य पन्था वधिरस्य पन्थाः स्त्रियाश्च पन्था भारवाहस्य पन्थाः ॥”)